________________
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमोभयनयः त्वात् , अन्यदेव हि रूपाद्युत्पद्यमानं दृश्यते प्रत्यक्षत एव, तद्यथा-वहतीवोदके, यथा स्रोतसि नद्यादीनां वहदुदकमन्यदन्यदेवागच्छति, गतन्तु गतमेव, अथ च मन्दबुद्धेः-भ्रान्तस्य सन्ताने-अनवरते स्रोतसि तदेवेति मिथ्याप्रत्यय उपजायते तथा सर्वरूपादिषु।।
अत्राह
अथ सन्तानवत् सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु दृश्येत, सन्तानमपि वा न दृश्येत सूक्ष्मोत्पादविनाशवत् , अत्रोच्यते न हि दृष्टेऽनुपपन्नं नाम, उक्तं हि बुद्धिमान्द्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य, प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम् , प्रत्यक्षस्य प्रमाणान्तरेणाबाध्यत्वात् , तथा हि-'योकस्मिन् क्षणे जातं.............॥' ( ) इति, तस्मात् स्थितमेतत्क्षणिकं रूपादि बाह्यं वस्त्विति। 10 अथ सन्तानवदित्यादि, यथा सन्तानोऽवस्थितो दृश्यते स्वोत्पादविनाशयोरन्तरे तथा सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु-रूपादि दृश्येत, सूक्ष्मोत्पादविनाशौ स्वान्तरेऽप्युपलभ्यमानस्वव्यपदेशहेतुको स्याताम् , उत्पादविनाशत्वात् , सन्तानोत्पादविनाशवत्, सन्तानगतौ वोत्पादविनाशौ स्वान्तरानुपलभ्य[व]व्यपदेशहेतुकौ स्यातामुत्पादविनाशत्वात् सूक्ष्मोत्पादविनाशवत्, अत्रोच्यते, न हि दृष्टेऽनुपपन्नं नाम,
उक्तं हि बुद्धिमान्द्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य, प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम् , 15 न हि प्रमाणज्येष्ठं प्रत्यक्षमतिक्रम्योपपन्नमिति प्रत्यक्षविरुद्ध प्रतिपत्तुं योग्यम् , प्रत्यक्षस्य प्रमाणान्तरेणाबाध्यत्वात् , तथा हीत्येतस्यार्थस्य संवाद्युपपत्त्यन्तरवादिज्ञापकमाह-'यद्येकस्मिन् क्षणे जात' ( ) मिति श्लोकः, यद्युत्पत्तिरेव विनाशकारणं न स्यात् द्वितीयक्षणाद्यवस्थानवत् सदाऽवस्थानमेव स्यात् , विनाशहेत्वभावादित्युक्तम् , न चैतदेवं भवति, तस्माजन्मैव विनाशहेतुरात्मनः, तद्विनाश एव चोत्तरोत्पत्तिकारणमिति स्थितमेतत्क्षणिकं रूपादि बाह्यं वस्त्विति ।
mananminara
Mmmmwww
20 प्रत्यक्षत एव सिद्ध्यतीत्याह-अथ वेति । प्रवहदुदकनिदर्शनं दर्शयति-बहतीवोदक इति, उदकस्यान्यान्यत्वेऽपि तत्सन्ताने
भ्रान्तस्य पुरुषस्य तदेवेदमित्ययथार्थप्रत्यय उपजायते तथैव रूपादावपि विज्ञेयमिति भावः । ननु महदुत्पादविनाशयोरन्तरे हि सन्तानो घटादिवस्तु दृश्यते, एवमेव सूक्ष्मोत्पादविनाशयोरन्तरेऽपि वस्तु दृश्येत, अन्यथा तद्वत् सन्तानोऽपि न दृश्यतेत्याशङ्कतेअथेति । व्याचष्टे-यथा सन्तान इति । एतदेव प्रयोगेण दर्शयति-सूक्ष्मोत्पादविनाशाविति । स्वान्तर
इति, उत्पादविनाशयोर्मध्ये उपलभ्यमानमुत्पादविनाशव्यपदेशहेतु च वस्तु ययोस्तावुत्पादविनाशौ खान्तरेऽप्युपलभ्य25 मानवव्यपदेशहेतुको, उत्पादविनाशौ धर्मी वान्तरेऽप्युपलभ्यमानखव्यपदेशहेतुकत्वं साध्यधर्मः, उत्पादविनाशत्वादिति
खरूपहेतुः, सन्तानस्योत्पादविनाशवदिति दृष्टान्तः । अन्यथा विपरीतानुमानमाह-सन्तानगतौ वेति। न हि सन्तानस्याप्यवस्थानम् , अवस्थानप्रत्ययस्य भ्रान्तत्वात् , क्षणे क्षणे उत्पादविनाशेनान्यान्यत्वस्य दर्शनात्, न हि दृष्टे क्षणिकत्वे युक्त्याऽनुपपन्नत्वात्तत्त्यागः शक्यः कर्तुमित्याशयेन समाधत्ते-न हि दृष्ट इति । प्रमाणान्तराबाध्यत्वं प्रत्यक्षस्याह-न हीति।
क्षणिकत्वानङ्गीकारे दोषमाह-तथा हीति । यद्यैकस्मिन्निति 'यद्यकस्मिन् क्षणे जातं न विनश्येदकारणात् । अवस्थानं सदा 30 तस्य स्याद्वितीयक्षणे यथा' ॥ इत्येवं कारिका सम्भाव्यते । भावार्थमाह-यद्युत्पत्तिरेवेति । कारिकोदितामापत्ति
सदावस्थानरूपां दूरीकर्तु जन्मैव विनाशकारणं वाच्यं स एव विनाश उत्तरोत्पत्तेहेतुरिति क्षणिकत्वं वस्तूनां रूपादीनां सेत्स्यति सन्तानश्चेत्याह-न चैतदेव रूपादिवस्तु सदावस्थानरूपं न च भवतीत्यर्थः । निगमयति-तस्माजन्मैवेति । एवञ्च सन्ता
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org