________________
१०८९
mmmmmmm
winwww
युगपदुत्पादविनाशौ]
द्वादशारनयचक्रम् रुच्छासनिःश्वासानुमितश्रान्तिविश्रान्योरिवानुमेयता, इतर आह-न तर्हि सूक्ष्मौ स्त एवाकारणत्वात् खपुष्पवदुत्पादविनाशाविति, सन्तानगतावेव यौ तौ नाशोत्पादौ स्तः सकारणत्वात् चक्रस्थघटस्येवोत्पादः आहतघटस्येव विनाश इत्यत्रोच्यते सूक्ष्मोत्पादभङ्गयोरकारणत्वमसिद्धम् , परस्परकारणत्वात् , तद्विवृणोतिजातिविनाशस्य कारणं जातेविनाशः, तयोर्युगपद्भावात् , किमिवेत्यत आह-यतः 'नाशोत्पादौ समं यद्वन्नामोनामौ तुलान्तयोः ।' ( ) यथा तुलाया एकोऽन्तो नमत्युन्नमत्यपर एकस्मिन्नेव क्षणे तद्वद्रूपोत्पत्ति- । रूपान्तरविनाशाविति ।
एवमेव च सन्तानसिद्धिः, युगपदुत्पादविनाशैः रूपनैरन्तर्यात् , अन्यथाऽनवस्थानेन क्रियाकर्तुरभावात् का क्रिया ? उक्तञ्च-'क्षणिकाः सर्वसंस्काराः अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते, ॥' ( ) इति, अथ वा नायमर्थो युक्तिसाध्यः प्रत्यक्षत्वात् , अन्यदेव हि रूपादि उत्पद्यमानं दृश्यते, वहतीवोदके, मन्दबुद्धेश्च सन्ताने 10 स्रोतसि तदेवेति मिथ्याप्रत्यय उपजायते ।
(एवमेव चेति) एवमेव च सन्तानसिद्धियुगपदुत्पादविनाशैः रूपनैरन्तर्यात्-सन्ततमनवरतं भावात् , अन्यथा-उक्तन्यायादन्यथा न कारणं सर्वथा विनाशोत्पादयोरवस्थानेन क्रियाकर्तुः-भवितुरभावात् , एतदर्थसंवादिज्ञापनमाह-'क्षणिकाः सर्वसंस्काराः' इति श्लोक उत्पत्तेः सकारणत्वात् प्रत्ययजन्मानः संस्काराः क्षणमात्रस्थायिनां द्वितीयक्षणमस्थितानां कुतः क्रिया तेषाम् ? का तर्हि क्रिया लोके परिगृहीता क्रियते घट 18 इति ? किं कारकं करोति कुटं कुम्भकारः ? इत्यादि, अत्रोच्यते-भूतिर्येषां-जन्मैव क्रिया, सैव च कारक आत्मानमात्मनैव निर्वर्त्तयतीति जन्मैव विनाशकारणमित्युक्तम् , अथ वा नायमर्थो युक्तिसाध्यः प्रत्यक्ष
महोत्पादविनाशयोः सहेतुकत्वात्सम्भवेऽपि सूक्ष्मोत्पादविनाशयोः क्षणमात्रभाविनोः निर्हेतुकत्वादभाव एवेत्याशङ्कते-न तहीति । सूक्ष्मोत्पादविनाशयोरकारणत्वमसिद्धम् , उत्पादं प्रति विनाशस्य विनाशं प्रति चोत्पादस्य कारणत्वोपगमादित्याह-सूक्ष्मोत्पादेति। तावपि सूक्ष्मोत्पादविनाशौ तुलान्तयोर्नमनोन्नमनवधुगपदेव भवतः न तु पूर्वोत्तरभावेन, युगपदपि भवतोः कारणत्वं नमनोन्न- 20 मनयोरिवाविरुद्धमिति भावः। तदेव दर्शयति-नाशोत्पादाविति । ननु नमनोन्नमने नैकस्य युगपत् , किन्तु भिन्नयोरन्तयोः, उत्पादविनाशौ त्वेकस्य, तत्कथं युगपदित्यत्राह-तद्वद्रूपोत्पत्तीति। तथा च नैकस्य युगपदुत्पादविनाशावपितु विनाश एकस्य अपरस्य तदैवोत्पाद इति भावः । कार्यकारणभावेनेकस्य विनाशोऽपरस्योत्पादः प्रतिक्षणं भावीति सन्तानसिद्धिः, पूर्वरूपविनाशक्षणे उत्तररूपोत्पत्तेरावश्यकत्वेन तदुत्पत्तेस्तद्विनाशस्यावश्यकत्वेन रूपधारानैरन्तर्यादित्याह-एवमेव चेति । व्याचष्टे-एवमिति। विनाशोत्पादयोरकारणत्वे सर्वथाऽनवस्थानादुत्पादविनाशक्रियाकर्तुः-तयोरनुभवितुरभावः स्यादित्याह-अन्यथेति, 25 परस्परकारणत्वानमनोन्नमनवपद्धाव उत्पादविनाशयोरित्यक्तन्यायादन्यथेत्यर्थः । अत्र प्रमाणभूतां कारिकामाह-क्षणिका इति । उत्पत्तिविनाशी सकारणे तस्मात् सर्वे संस्काराः कारणजन्मत्वात् क्षणमात्रस्थायिनः, न तु केऽपि द्वितीयादिक्षणेऽवतिष्ठन्त इति न तेषां कस्याश्चन क्रियायाः सम्भव इति कारिकापूर्वार्धभावार्थ इत्याह-उत्पत्तेरिति । ननु क्रियाया अभावे लोके घट:क्रियत इति क्रियायाः करोति घटं कुम्भकार इति क्रियानिवर्तयितुः कर्नादेर्व्यवहारदर्शनात् का सा क्रिया ? किं वा तत् कारकमित्यत्रोत्तरार्धन समाधिमाह-का तहीति, भूतिर्येषामिति, येषां घटादीनां भूतिर्भवनं सैव क्रिया, तदेव च क्रियाकर्तृ कारक कर्म च 30 भवति, आत्मनैवात्मानं निवर्तयत्यात्मेत्येकस्यैव क्रियाकर्मादिरूपत्वादिति भावः। ननु किमनेनानुमानप्रयासेन, क्षणे क्षणे वस्त्वन्यदेवेति
१ °कारकं कर्म चोच्यत इत्यपि चतुर्थपादपाठो मिलति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org