________________
१०८८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमोभयनयः
प्रध्वस्तेषु चानाश्वासः गतं कार्यमित्येष व्यवहारो नापद्येत, अविषयत्वात् सविषयत्वे वाऽस्य व्यवहारस्य पुत्रादेरक्षणिकत्वे युक्त आश्वासः कालान्तरविनष्टत्वेऽनाश्वासश्चेत्यत्रोच्यते - नन्वविषय एवायं व्यवहारो वस्तुनि क्षणिकेऽस्यासम्भवादुक्तवत् यथा तथाभूतदेशाभेदभवनाभावात् रूपादिसमुदायाभावः तथा तथाभूतकालाभेदभवनाभावात्तदभावतद्भावपरम्परापतितमेव रूपाद्यपीति उक्तन्यायेन रूपाद्यसत्त्वे कुतोऽवतारः 5 आश्वासानाश्वासव्यवहारस्य ? एवमेव च वैराग्यभावना-शरीरखजनद्रव्यादिनैर्मल्यात् कचिदव्यनाश्वासात् संसारहेतुरागादिप्रातिकूल्येन घटते, तदर्थश्चायमारम्भ इति गुणोपचयः क्षणिकभावे |
www.w
यच्च व्यवहाराविषयत्वमुक्तं तन्न भवति, यस्मात्—
m
स हि युज्यते संवृत्या, सन्तानविषयत्वात्, उत्पादो विनाशश्च किं सूक्ष्मः महान् वा ? महोत्पादः सूक्ष्मोत्पाद इत्येवम्, महत्ता सन्ताने उत्पादविनाशयोः, सूक्ष्मता तत्प्रवृत्तेः बुभुक्षा10 तृष्णयोरिव न तर्हि सूक्ष्मौ स्त एव, अकारणत्वात् खपुष्पवत्, सन्तानगतावैव स्तः, सकारणत्वात्, चक्रस्थघटस्येव न घटस्येव विनाश इति, अत्रोच्यते परस्परकारणत्वात्, जातिर्विना - शस्य कारणं जातेर्विनाशः, तयोर्युगपद्भावात्, 'नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः' ।
( सेति ) स युज्यते संवृत्या व्यवहारस्तु, सन्तानविषयत्वात्, तद्विषयनिर्धारणार्थं उत्पादविनाशौ विकल्पयति- सूक्ष्मोऽनुमेयः, महतोत्पादेन विनाशेन [ चोत्पाद: ]विनाश इति द्वयोः प्रत्येकं द्वैविध्याच्चातु15 र्विध्यम्, तद्दर्शयति- महोत्पादः सूक्ष्मोत्पाद इति, भङ्गोऽप्येवमित्यतिदेशेन च, तद्विवेकप्रदर्शनम्—महत्ता सन्तान उत्पादविनाशयोः, सूक्ष्मता तत्प्रवृत्तेः, - तयोर्महोत्पादभङ्गयोः प्रवृत्तिदर्शनात्, बुभुक्षातृष्णयोरिव, तत्र सन्तानस्य पुत्रघटादेर्महत्युत्पादे भवत्याश्वासः, विनाशेऽनाश्वासः इतरयो:-सूक्ष्मोत्पादभङ्गयो
www
भाव एव भवतीति भावः । यदि क्षणिकमसत् कालान्तरस्थाग्यप्यसत् तर्हि कथमाश्वासानाश्वासौ, सविषये ह्येतौ युज्येते इत्याशङ्कते - क्षणिकत्वादिति । आश्वासानाश्वासौ सविषयत्वे एव भूतत्वधर्माधारतया पुत्रादौ दग्धत्वधर्माधारतया तत्रैव तौ स्याताम्, न तु 20 निर्विषयत्व इत्यत्रेष्टापत्त्या समाधत्ते - नन्वविषय इति, क्षणिके वस्तुनि तयोर्व्यवहारो नैवेष्टः तस्यानिर्देश्यत्वात् उक्तं हि पूर्व देशाभेदभवनाभावात् समुदायस्येव कालाभेदभवनाभावाद्भवन्नेव न भवतीति क्षणिकस्य रूपादेरभावपरम्पराघ्रातत्वादसत्त्वेन कुतो व्यवहारावतारः स्यादिति भावः । वस्तुनश्चेत्थं व्यवहाराविषयत्वादेव क्वचिदप्यमिमानाभावात् सर्वत्र वैराग्यभावनया संसारानुकूलरागद्वेषादिप्रातिकूल्येन प्रवर्तते, एतत्प्रवृत्तिसम्पादनायैवेत्थं निरूपणारम्भोऽस्माकमिति क्षणिकवादेऽयं गुणोपचय इत्याहएवमेव चेति । सर्वथा व्यवहारस्य विषयः कोऽपि नास्तीति न भ्रमितव्यम्, सन्तानविषयोऽसौ, सन्तानश्च संवृत्तिसन्नित्याह25 स हि युज्यत इति । कथं सन्तानस्य विषयता ? तस्याप्यसत्त्वस्योक्तत्वादित्यत्राह तद्विषयनिर्धारणार्थमिति । स्थूलसूक्ष्मभेदेनोत्पादविनाशौ द्विभेदौ, तत्र महतोत्पादेन सूक्ष्म उत्पादः महता विनाशेन च सूक्ष्मो विनाशोऽनुमेयः, एवञ्च महोत्पादः सूक्ष्मोत्पादो महाविनाशः सूक्ष्मविनाश इति चातुर्विध्यमित्युत्पादविनाशयोः सूक्ष्मत्वमहत्त्वाभ्यां विज्ञेयम् । एतदेव दर्शयति - महो त्पाद इति । उत्पादविनाशयोः क्व महत्तेत्यत्राह - महत्तेति । घटपटादिलक्षणसन्ताने उत्पादविनाशयो महत्त्वम्, सूक्ष्मत्वन्तु सूक्ष्मोत्पादविनाशव्यतिरेकेण महदुत्पादविनाशयोरप्रवृत्तस्तत्प्रवृत्त्या सूक्ष्मोत्पादविनाशावनुमीयेते यथा बुभुक्षातृष्णयोः प्रवृत्ति30 दर्शनात् सूक्ष्म योर्बुभुक्षा तृष्णाविति भावः । सन्ताने चाश्वासानाश्वासौ समर्थयति तत्रेति । पुत्रादेरक्षणिकत्वाद्दण्डचक्रादिहेतुभिस्तस्योत्पादात् कालान्तरे विनाशहेतुसान्निध्ये विनाशाच्चानेन मया कार्यं कार्यमित्यादिव्यवहार उपपद्यते इति भावः । उच्छ्रासनिःश्वासाभ्यां श्रान्तिविश्रान्ती यथाऽनुमीयेते तथा महोत्पादविनाशाभ्यां सूक्ष्मोत्पादविनाशावनुमीयेते इत्याह- इतरयोरिति । ननु १ छा० क्ष० डे० २ सि. क्ष० का० डे० महतोत्पादः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org