________________
भावसहिता भावार्थता ]
द्वादशारनयचक्रम्
१०८७
सन्नसता सम्बध्यते, बहिरर्थत्वाद्बहुव्रीहेः कस्मात् ? अभावस्याश्रयभूतत्वात् भाव एव हि आश्रयो भवितुमर्हति, एकक्षणविज्ञानवद्रूपादिसदसद्विचारस्य, इतरथा निराश्रयौ प्रागभावप्रध्वंसाभावो न स्याताम्, इष्टौ च तौ, न हि भावमनाश्रित्य प्रागभावप्रध्वंसाभावौ भवितुमुत्सहेते, असद्विशेषत्वादत्यन्ताभाववैलक्षण्यात् स चाश्रयोऽर्थ एतयोः, पूर्वमसद्रूपमुत्पत्त्यवस्थायां सत् पश्चाच्च [अ] सदित्युच्यमानत्वात्, तदुपपदनवात्, अर्थ इति नाभावमन्तरेणोत्सहते, अभाव इति भावोपपद नञ्प्रयोगः प्रतिषेधवाचि - 5 त्वात् सिद्धार्थ एव, नासिद्धार्थविषयः ।
ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि नाभावमन्तरेण नोत्सहते भवितुम् ? न चाभावः नञपपदत्वात्, अब्राह्मणवत् भावाद्रूपादेरन्यस्याभाव इति निर्देशो युक्तः । नन्वेवं क्षणिकत्वादसत्त्वे कथमुत्पन्ने पुत्रादौ घटादौ वाऽर्थे भूतमित्याश्वासः, दग्धमृतप्रध्वस्तेषु चानाश्वासः ? अविषयत्वात् नन्वविषय एवायं व्यवहारः, क्षणिकेऽस्यासम्भवात् उक्तवत् ; एवमेव 10 च वैराग्यभावना घटते, तदर्थश्चायमारम्भ इति गुणोपचयः ।
"
~~.WWW.KA
AMARA MARA
( नन्विति ) ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि - रूपादिरर्थो भावो नाभावमन्तरेण नोत्सहते - उत्सहत एव भवितुम्, न चाभावो [ भावमन्तरेण ] भवितुमुत्सहते, ननुपपदत्वादब्राह्मणवत्यथा ब्राह्मणादन्यस्याब्राह्मण इति निर्देश:, तथा रूपादेर्भावादन्यस्याभाव इति निर्देशो युक्तः, सत्यामेव क्षणिकतायां न भवतीत्यभावान्वितो भाव एव भवतीति भावाद्रूपादेरित्यसत एवार्थत्वमाह - नन्वेवमित्यादि, 15 क्षणिकत्वादसत्त्वे कथमुत्पन्ने पुत्रादौ घटादौ वाऽर्थे भूतमित्याश्वासः - अनेन मया कार्यं कार्यम् ? दग्धमृत
१ सि. क्ष० छा० भावानुचितो० । द्वा० न० १२ (१३७)
"
"
बहिरर्थत्वादिति, समासघटकपदार्थव्यतिरिक्तपदार्थप्रतिपादकत्वादित्यर्थः । सोऽन्यपदार्थो भाव इति कथमित्यत्राह - अभावस्येति । यथा रूपादिसदसद्विचारस्य क्षणिकं व्यतिरिक्तं भावरूपं विज्ञानमाश्रय इत्याह- एकक्षणेति । यद्याश्रयो भावो न स्यात्तर्हि तुच्छत्वादभाव एव न स्यादित्याह - इतरथेति । भावस्यानाश्रयत्वे प्रागभावप्रध्वंसाभावावुत्पत्तिविनाशरूपौ न स्याताम् इष्टौ च ताविति भावः । कथं तदनाश्रयत्वे तौ न स्यातामित्यत्राह - असद्विशेषत्वादिति, अनयोरसतः - 20 अत्यन्ताभावात्, विशेषत्वात् विलक्षणत्वादित्यर्थः । विशेषमेवाह - स चेति । एतयोराश्रयभूतोऽर्थ एवेत्यर्थः । सचाश्रयभूतं वस्तु प्रागद्रूपं सदुत्पत्त्यवस्थायां सद्भवति असत्कार्यवादाभ्युपगमात् पश्चाच असदित्युच्यमानत्वात्, असदिति नजर्थे सतो विशेषणत्वात् सद्भूत्वैवासद्भवतीत्याह - पूर्वमसद्रूपमिति । उत्पत्तेः पूर्वमित्यर्थः एवञ्च प्रागसद्रूपेण पश्चात् सद्रूपेण पुनश्चासद्रूपेणार्थो भवतीति भावः । अर्थोऽपि नाभावमन्तरेण भवतीत्याह- अर्थ इतीति । एवश्वाभावरूपोऽर्थो भावोऽस्येति अभावार्थ इति भावः । सोऽप्यभावो भावप्रतियोगिकभावानुयोगिकाभावबोधक इति सिद्धार्थविषय एव नासिद्धार्थविषय 25 इत्याह-अभाव इतीति । न भावोऽभाव इति भावोपपदं नञ्पदं सिद्धमेवार्थं बोधयति तत्रैव भावप्रतिषेधात्, नजिवयुक्तमन्यसदृशाधिकरण इति न्यायात्, न त्वसिद्धार्थं बोधयतीति भावः । अथ भावोऽभावमन्तरेण भवितुमुत्सहते, अभावस्तु न भावमन्तरेण भवितुमुत्सहत इत्याह- ननु रूपादिभाव इति । व्याचष्टे - रूपादिरर्थ इति, उत्पत्त्यवस्थायां सत् पश्चाच्चासदित्युच्यमानत्वादित्युक्तत्वात् किं भावोऽभावमन्तरेण भवितुं न नोत्सहते ? किन्तूत्सहत एवेति भावः । अभावस्तु न भावमन्तरेण भवितुमुत्सहते भावोपपदन प्रयोगात् प्रसिद्धाश्रयार्थविषयत्वाचेत्याह-न चाभाव इति । निदर्शनमाह - अब्राह्मणवदिति 30 ब्राह्मणभिन्नः क्षत्रियादिर्ब्राह्मणोपपदनमा बोध्यते तथाऽभाव इति भावाद्रूपादेरन्यस्य भावोपपदनया बोधः तस्मादभावेनान्वित
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org