________________
१०८६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमोभयनयः
( अभावार्थस्त्विति) अभावार्थस्तु अभावश्चासावर्थच, भावश्चेत्यर्थः कथं ? यत्तत् प्रतिक्षणमभवनं तस्य रूपादिवस्तुनः, तत्तु भवनमपि क्षणे क्षणे वृत्तं खपुष्पवदत्यन्ताभावविपरीतवृत्ति सत् कथमनर्थतायां अवस्तुतायां स्यात् ? किं पुनः स्यात् ? इत्थं स्यात् नास्ति न तत्क्षणे क्षणेन भवेत्, अत्यन्ताभावत्वात् खपुष्पवत्, अनिष्टचैतत् प्रतिक्षणं न भवति न भवतीति विशेषाभ्युपगमादित्यतः सोऽभावः 5 सन्नर्थः वस्तु चेत्यर्थः, खपुष्पवदत्यन्ताभावविपरीतवृत्तित्वात् ।
wwwwwww www
ww
ननु स भवनव्यपदेशः सत्त्वे घटते, अन्यथा हि कुतोऽस्यात्यन्तभेदस्य भवतीति भवनेनोपाख्या ? अभावो वाऽर्थोऽस्येत्यस्यशब्दनिर्देश्योऽन्योऽर्थः सन्नसता सम्बध्यते, अभावस्याश्रयभूतत्वात्, भाव एव ह्याश्रयो भवितुमर्हति एकक्षणविज्ञानवद्रूपादिसदसद्विचारस्य, इतरथा निराश्रयौ प्रागभावप्रध्वंसाभावौ न स्याताम् इष्टौ च तौ न हि भावमनाश्रित्य 10 भवितुमुत्सहेते, असद्विशेषत्वात् स चाश्रयोऽर्थः पूर्वमसद्रूपः पश्चाच्च सदित्युच्यमानत्वात् तदुपपदत्वात्, अर्थ इति नाभावमन्तरेणोत्सहते, अभाव इति चार्थम् ।
3
ननु स इत्यादि, तस्य भवनाघ्रातत्वं दर्शयति, प्रतिक्षणमत्यन्तवि [ल] क्षण [त्वा]दे[व] रूपं रूपमेव रूपमेवैकं भवति तथेहापि तद्रूपमेव रूपमेवेत्यादि भवतीति भवनव्यपदेशः सत्त्वे घटते, अन्यथा हि कुतोऽस्यात्यन्तभेदस्य- अत्यन्तान्वयरहितस्य भवतीति भवनेन लक्षणेनालक्ष्यस्योपाख्या ? दूरत एव न युक्ता 15 भाव इत्युपाख्या, अभावो वाऽर्थोऽस्येति बहुव्रीहिसमासो वा, अभावोऽर्थोऽस्येत्यस्यशब्दनिर्देश्योऽन्योऽर्थः
Jain Education International 2010_04
परीतः सद्रूपः, तस्य प्रतिक्षणमभवनरूपत्वेऽपि भवनरूपत्वमप्यस्ति भवन् हि न भवति प्रतिक्षणम्, तस्मादभावः सन्नर्थोऽपि भावोऽपि यदि सोऽर्थो न स्यात् कथमत्यन्ताभावविपरीतवृत्तिः स्यात्, प्रतिक्षणश्च न भवतीति न स्यात् अनिष्टचैतत् तस्मात्सोऽभावः सन्नर्थश्चेत्याशयेन व्याचष्टे - अभावश्चासाविति । कथमर्थः स इत्यत्राह - यत्तदिति, प्रतिक्षणवृत्तित्वादर्थति भावः । नासौ खपुष्पवदत्यन्ताभाव इत्याह- खपुष्पवदिति । अवस्तुतायां किं स्यादित्यत्राह - किं पुनः स्यादिति, नास्ति तत् 20 क्षणे क्षणे इति न स्यात् अत्यन्ताभावत्वात् खपुष्पवदिति स्यादवस्तुतायामिति भावः । न भवति न भवतीतिविशेषाभ्युपगमादभावस्सन्नर्थश्चेत्याह-प्रतिक्षणमिति, न भवति न भवतीति प्रतिक्षणमभावस्य वैलक्षण्यं प्रदर्शितम्, तच्चान्वयाभावे न घटते, न हि खपुष्पादि प्रतिक्षणं न भवति न भवतीत्युच्यते अत्यन्ताभावरूपत्वात् तस्मात्तद्विपरीतवृत्तित्वादभावः सन्नर्थश्चेति कर्मधारयसमासपक्षेऽभिप्रायः । इममेवाभिप्रायं समर्थयति - ननु स इति । प्रतिक्षणं रूपादेर्विलक्षणत्वादेव क्षणे क्षणे रूपं रूपं रूपमिति भवति सर्वेषां रूपात्मकत्वादेव रूपमेकमेवोच्यते यथा तथैव तेषां रूपादीनां भवति भवतीति भवनव्यपदेशात् तस्य च व्यपदेशस्य सत्त्व 25 एव सम्भवात् रूपादिर्भाव इत्याह-प्रतिक्षणमिति । भवनात्मकं तद्यदि न स्यात्तर्ह्यत्यन्तं प्रतिक्षणं भिन्नानामन्वयरहितानां भवति भवतीति निर्विलक्षणो भवनव्यपदेशः कथं स्यात्, एकरूपात्मकत्वाभावे हि प्रतिक्षणं न रूपमेव रूपमेवेति व्यपदेशः कर्त्तुं शक्य इत्याशयेनाह - अन्यथा हीति, प्रतिक्षणविलक्षणेषु अन्वयात्मकैकरूपव्यपदेशे सत्यपि सत्त्वानात्मकत्वे हीत्यर्थः, भाव इति व्यपदेश एव न स्यादिति भावः । अभावो वाऽर्थोऽस्येतीति, अस्येतीतीदंशब्दवाच्यस्यान्यपदार्थस्यार्थो - भावो - धर्मोऽभाव इति अभावार्थपदार्थोऽन्यपदार्थः इति बहुव्रीहिसमासार्थत्वात् प्रथमं भावात्मकं वस्तु अभावेन सम्बध्यत इति सम्बध्यमानाभा30 वस्याश्रयभूतो भावः सिद्ध्यतीति भावः । इदमेवाह - अस्य शब्दनिर्देश्य इति । अन्यपदार्थबोधको बहुव्रीहिरित्याह
१ सि० क्ष० छा. खपुष्पाभावाद्यत्यन्ताभाव० ।
wwwwwww
For Private & Personal Use Only
www.jainelibrary.org