________________
अन्यत्व समर्थनम् ]
द्वादशारनयचक्रम्
१०८५
स्त्येव, स तु क्षणान्तरं न प्रतीक्षते, कालतो भेदात् पूर्वक्षणरूपादुत्तरक्षणरूपमन्यदेव, एवं रसादयोऽपि, अतः कालाभेदभवनाभावात् देशाभेदभवनाभावसमुदायवन्न सन्ति, तस्य स्फुटीकरणार्थमाह - रसादिरूपकालेभेदादित्यर्थ इति, तस्योत्तरकालाप्रतीक्षितत्वात्तदेवेदमित्य शक्यं वक्तुं रूपम्, ततोऽत्यन्तमन्यत्वात्, रसादिवत् । तस्यान्यत्वमवीतेन समर्थयितुमाह
कृत्वा कल्पनया इत्थं स्याद्यदि स्यात् तद्यथारूपं तथारूपं तद्रूपं स्यात् द्वितीय- 5 क्षणादिषु न कदाचित् इदन्तु तदभावपरम्परा पतितमसदेव समुदायवत् यथा समुदायः स्वरूपेणासन्नेव रूपादीनामेवं रूपमपि, पृथक्त्वानवस्थितार्थत्वात्, अतो रूपं, रूपस्वरूपासत् एवं नियमो नियमितोऽसत्त्वेन विशेषो रूपादिः ।
wwwwwww
कृत्वा कल्पनया इत्थं स्याद्यदि स्यादिति, तद्यथा-यदि तद् यथारूपं रूपं रूपं - रसादिव्यतिरिक्तं रूपात्मकमेव रूपं तत्त्वे [न] तेनैवात्मना रूपेण तथारूपं तद्रूपं यदि स्याद् द्वितीयक्षणादिषु, [न] 10 कदाचित् न कदाचिदपि भवतीत्यर्थः, यदि स्यात्ततस्तदिति कृत्वा रूपमुच्यते, न तु भवति प्रतिक्षणनश्वरत्वात्, किं तर्हि ? इदन्तु तदभावपरम्परा पतितं यद्रूपं भवति तत्तस्मिन्नेव क्षणे न भवति पुनरपि क्षणान्तरे भवदेव
wwww
न भवति पुनरपि न भवतीत्येवमभावपरम्परयाऽऽघातत्वादसदेव, समुदायवत्, तदुक्तस्फुटीकरणार्थमुपसंहृत्य साधनमाह-यथा समुदायः स्वरूपेणासन्नेव रूपादीनामिति दृष्टान्तः, एवं रूपमपीति साध्यनिर्देशः, असन्नेवेति वर्त्तनात् पृथक्तत्वानवस्थितार्थत्वादिति हेतु:, प्रतिक्षणवृत्तित्वात् पृथक्त्वानवस्थितार्थत्वम्, , अतो : रूप[म्,]रूपस्वरूपासदेवं नियमो नियमितोऽसत्त्वेन विशेषो रूपादिः ।
15
अथ किं विशेषस्या सत्त्वेन नियमः ? ऐष किमभाव एव ? नेत्युच्यते
अभावार्थस्तु नियमः यत्तत् प्रतिक्षणभवनं तस्य तत्तु क्षणे क्षणे वृत्तमत्यन्ताभावविपरीतवृत्ति सत् कथमनर्थतायां स्यात् ? किन्तु नास्ति तत्, अत्यन्ताभावत्वात्, पुष्पवदति स्यादतः प्रतिक्षणं न भवति न भवतीति विशेषाभ्युपगमात् सोऽभावः सन्नर्थश्च ।
Jain Education International 2010_04
रूपादेरपीति । ततोऽत्यन्तमिति, प्रथमक्षणोत्पन्नं रूपादि द्वितीया दिक्षणोत्पन्नरूपादेरत्यन्तं भिन्नं रसादिवदिति भावः । अन्यत्वमेव तावदवीतानुमानेन समर्थयति कृत्वा कल्पनयेति । प्रतिक्षणभाविरूपं रूपात्मकमेवेति कृत्वा द्वितीयादिक्षणादिषु रूपं यदि तद्रूपमेव - प्रथमक्षणभाविरूपमेव स्यात्तदेत्थं स्यात् - तदेवेदमिति वक्तुं शक्यं स्यात्, न तु कदाचित्तथा भवति तस्मादन्यदेव रूपादि, रसादिवदित्याशयेनाह - यदि तद्यथा रूपमिति । यथारूपं यदि तद्रूपं स्यात्तदेत्थं स्यादिति दर्शयति-यदि स्यादिति । द्वितीयक्षणभाविरूपं प्रथमक्षणभा विरूपं यदि स्याद्रूपात्मकत्वात् तदेदं तद्रूपमेवेति कृत्वा रूपमित्युच्येत, न तु रूपं रूपं 25 तद्रूपं भवति प्रतिक्षणविनाशित्वादिति भावः । प्रतिक्षणविनाशित्वादेव च रूपक्षणस्तदभावक्षणो भवति प्रथमक्षणे भवत एवाभवनात् एवं द्वितीया दिक्षणेष्वपि एवञ्चैकस्मिन्नेव क्षणे रूपादेरभावप्रासादसत्त्वं समुदायवत्, रूपादीनां समुदायो हि स्वरूपेणासन्नेव तथारूपादिरपीत्याह- इदन्त्विति । रूपादिरप्यसन्नेव, पृथक्तत्त्वानवस्थितार्थत्वात् समुदायवदित्यनुमानमाह-यथा समुदाय - इति । रूपादिरभावात् पृथक् तत्त्वतयाऽनवस्थितोऽर्थः, रूपादौ प्रतिक्षणमभावस्य वर्त्तनात् स हि न भवति न भवति प्रतिक्षणमित्याहप्रतिक्षणवृत्तित्वादिति । एवञ्च रूपं स्वस्वरूपेणैवा सदिति नियमो - विशेषो - रूपादि सत्त्वेन नियमित इत्याह- अत इति । ननु- 30 रूपादेर्योऽयमसत्त्वेन नियमः स किमभाव एवेत्यत्राह - अभावार्थस्त्विति । रूपादिर्हि खपुष्पादिवन्नात्यन्ताभावरूपः किन्तु तद्वि१ सि. श. छा. कालाभेदादि । २ सि. छा० एवत्किमभावएतनेत्यु ० ।
For Private & Personal Use Only
20
www.jainelibrary.org