________________
૨૦૮૪
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमोभयनयः धुनाऽनुमानेन प्रत्याय्यते-स्वयं विनाशि घटादि, जातत्वात् , प्रदीपशिखावत्, आगमोऽपि 'जातिरेव हि भावानां विनाशे हेतुरिष्यते । पश्चात् विनाशकाभावान्न विनश्येत् कदाचन ॥'
) तथा-'जुहुख्कित्तं मिलेडमि उप्पादे अस्थि कारणं । पढणे कारणं णत्थि अणत्थु........ ॥ ( ) इति, तस्मात् प्रतिक्षणमुत्पत्तेरेव विनाशित्वं 6 सिद्धं रूपादीनाम्, तत्रैवं रूपादीनामभूततथार्थत्वाद्देशाभेदभवनाभावसमुदायवत् कालाभेदभवनाभावादसत्त्वम् , यथा हि समुदायस्य देशाभेदस्य संवृतिसतः परमार्थतोऽसत्त्वं तथा रूपादेरपि रूपादिपरमार्थतया भवतोऽप्येकस्मिन् क्षणे न क्षणान्तरप्रतीक्षणं कालतो भेदात् रसादिरूपकालाभेदादित्यर्थः, तस्योत्तरकालाप्रतीक्षितत्वात्तदेवेदमित्यशक्यं वक्तुम् , ततोऽ
त्यन्तमन्यत्वाद्रसादिवत् ।। 10 (कथमिति) कथमिदमवगन्तव्यं दृश्यमानेऽभिघातादौ विनाशहेतौ स्वयमेव विनष्टाः घटादयो
न तु तेन हेतुना विनाशिता इति, कोशपानेन प्रत्याय्यः स्वयं विनाश इति, एतदधुनाऽनुमानेन प्रत्याय्यतेस्वयं विनाशि घटादि, जातत्वात् , प्रदीपशिखावत् , एतदनुमानसाक्षीभूतोऽयमागमस्तदर्थसंवादी-तद्यथा'जातिरेव हि' इत्यादि, तथा-'जुहुख्कित्तं मिलेडंमि उप्पादे अस्थि कारणं । पट्टणे कारणं नत्थि अणत्धुरके
कारणात्' ( ) इति, तस्मात् प्रतिक्षणमुत्पत्तेरेव विनाशित्वं सिद्धं रूपादीनाम् , ततः किं ? 16 ततस्तत्रैवं प्रतिक्षणनश्वरतायां सत्यां रूपादीनामभूततथार्थत्वम् , अभूततथार्थत्वात् समुदायवदेवासत्त्वमर्थस्य रूपादेः, तेन प्रकारेण-देशाभेदभवनात्मनाऽभावः-तदभूतमर्थतत्त्वं, प्रतिक्षणनश्वरताया उक्तत्वात् , तथा चाभूतार्थतथात्वादसत्त्वम् , किमिव ? समुदायवत्, तद्वथाख्या-यथा हि समुदायस्येत्यादि, रूपादित्वेन सन्तो रूपादयो देशाभेदेन घटादिसमुदायात्मना न सन्ति, तथाभूतदेशाभेदभवनाभावात् समुदायस्य संवृतिसतः परमार्थतोऽसत्त्वात् तथा रूपादेरपि रूपादिपरमार्थतया भवतोऽप्येकस्मिन् क्षणे रूपादिपरमार्थोऽ
20 दिति शङ्कते-कथमिति । प्रतिक्षणं भिन्नायाः प्रदीपज्वालाया विनाशो विनाशकारणादर्शनेन खयमेव भवति, केवलं तत्रोत्पत्तिरे
वापेक्षिता, तस्माद्धटादिरप्युत्पन्नत्वात् स्वयमेव विनाशीत्यनुमानेन तत्प्रत्याय्यत इत्याह-एतदधुनेति । जातत्वं घटादेरस्तु खयं विनाशित्वं मास्तु इति व्यभिचारशङ्कायां तदर्थसंवाद्यागमं प्रमाणयति-जातिरेव हीति उत्पत्तिरेवेत्यर्थः । आर्षमपि मानमाहजुहुख्कित्तं इति। एवञ्च प्रतिक्षणमुत्पत्तेविनाशित्वं रूपादीनामिति देशतोऽभेदरूपेण भवनाभावात् समुदायवदभूततथार्थत्वाद
सत्त्वं रूपादेरित्याह-ततस्तत्रैवमिति, अभूततथार्थत्वं-तथा देशतोऽभेदभवनात्मनाऽभूतोऽर्थो रूपादिरित्यर्थः। कुतोऽभूततथार्थ25 त्वमित्यत्राह-प्रतिक्षणेति, उत्पत्त्यनन्तरविनाशित्वात् समुदायरूपताप्राप्त्यनवकाशादिति भावः । यथा समुदायो देशतोऽभेदेना
भवनरूपत्वादसन् तथा रूपादिरपीति दृष्टान्तमाह-समुदायवदिति । भावार्थमाह-रूपादित्वेनेति रूपादयः स्वस्वरूपेण भवन्तोऽपि देशाभेदात्मना न भवन्ति, देशाभेदः घटादिसमुदायरूपः, स च संवृतिसन् न तु परमार्थतः सन् , अतस्तेन रूपेण ते न भवन्ति, रूपादयस्तु परमार्थसन्त एव, उत्पत्तिक्षणे तेषां भावात् , ते च न द्वितीयादिक्षणं खसत्त्वार्थमपेक्षन्ते खतो विनाशित्वात् , द्वितीयादिक्षणेषु चान्येऽन्ये एव रूपादयः, एवञ्च कालतोऽभेदेन भवनं न रूपादीनामिति देशाभेदेन भवनाभावरूपसमुदायवत् 30 कालाभेदेन भवनाभावान्न सन्ति रूपादय इति भावः। एवञ्च रूपादित्वेन सन्तोऽपि रूपादयो देशाभेदभवनात्मनाऽसन्तः कालाभेदभवनात्मनाप्यसन्तः, प्रतिक्षणं रूपादेरन्यान्यत्वेन द्वितीयादिक्षणान्तरानपेक्षत्वात् तदेवेदं रूपमिति वक्तुमशक्यत्वादित्याह-तथा
१ छा. प्रत्याप्यसे । २ छा. घटादिनातत्वात् ३ छा. अएरकुरके ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org