________________
mmammam
स्वतो विनाशस्थापनम्] द्वादशारनयचक्रम् विनाशे स स हेतुरिति निश्चीयते, अत्रोच्यते-इदमज्ञापकम्-यस्मात् स्वयं विनाशेऽप्यस्मत्पक्षे तुल्यमेव सति[न] ग्रहणं तेषाम् , कस्मात् ? यस्मात्तथाऽनुत्पत्तितोऽग्रहः, अभिघातादिसान्निध्यात् प्राक् तथोत्पत्तेग्रहणम् , पश्चादग्रहणं तत्सान्निध्ये तथानुत्पत्तेः, कथं कृत्वा ?-का भावना-? अत आह-यथासंख्यनिर्देशा हि पार्थिवघटरूपादयः-पृथिव्यां पञ्चवर्णपड्सद्विगन्धाष्टस्पर्शाः शेषेषूदकतेजोवायुषु हीनतरा इति या या संख्या यथासंख्यं यथासम्भवमित्यर्थः, रूपादय एव घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते समुदायविशे- 5 षात् , ते पुनः स्वयमेव विनष्टाः, उत्पत्तेरेव विनाशकारणत्वात् , तत्रास्मदाद्यभिघातेन सन्ततिपतितानामन्येषां रूपादीनामुत्पादो निरुध्यते, तस्मादभिघातप्रत्ययवशादन्ये रूपादयो न पुनस्तथोत्पन्नाः, तस्मात् सन्ततिनिरोधात् तदानीमभिघातकाले घटत्वेन रूपाद्यग्रहणं तेनाभिघातेन न घटो विनाशितः, तथा पार्थिवा अपीत्यादि, तेष्वपि रूपादिषु सैव भावना, अत्राग्निसम्बन्धसामर्थ्यमन्येषां तत्सन्ततिरूपादीनामुत्पत्तिसतां निरोधकम् , न पूर्वेषां विनाशकम् , तथाऽपामपि, अग्निसंबंधः तत्सन्ततेर्भूयस्तथोत्पत्तिनिरोधे हेतुः, उत्पन्नानां 10 विनाशः स्वयमेव भवति, अन्न्यानां त्वयाभिमतत्वात् , सन्तत्युत्पादनासामर्थ्यात् सर्वविनाशः, एवमन्यासामपामनुत्पन्नत्वात्, एवं स्वयमेव विनाशो जातानां, नान्येन केनचिद्विनाशितत्वादिति ।
अत्राह
कथमिदमवगन्तव्यं दृश्यमानेऽभिघातादौ विनाशहेतौ स्वयमेव विनाश इति, एतदसति घटाद्यग्रहणात्, तदसन्निधाने घटादिग्रहणाद्घटादिविनाशे स हेतुरिति भावः । ननु स्वयं विनाशाभ्युपगमेऽपि मुशलाद्य- 15 भिघाते घटायग्रहणमुपपद्यते, मुशलाद्यभिघातेन च शकलादीनामुत्पत्तेर्घटाद्यग्रहणम्, न तु सोऽभिघातो घटविनाशजनकः, तस्मान्नासौ विशेषहेतुरिति समाधत्ते-इदमज्ञापकमिति, ग्रहणाग्रहणे नाभिघातादेविनाशकारणत्वज्ञापके इत्यर्थः । स्वयं विनाशपक्षेऽपि तयोः सम्भवमाह-यस्मादिति । घटस्याग्रहणे कारणमाह-यस्मात्तथेति, अभिघातादिसन्निधाने घटरूपेणानुत्पत्तर्घटस्याग्रहः, तदसन्निधाने तु तथोत्पत्तेस्तद्रह इति भावः । ग्रहणाग्रहणे एव व्युत्पादयति-का भावनेति । यथासंख्य
शा इति, पृथिवीजलतेज आदी यावत्संख्याकानि रूपादीनि परैः स्वीक्रियन्ते तावद्रूपाद्यात्मकाः पृथिव्यादय इति भावः। 20 पञ्चवर्णेति, शुक्लनीलपीतकृष्णरक्तभेदेन पञ्चवर्णाः, मधुरादिभेदेन षड्विधो रसः, शीतोष्णगुरुलघुस्निग्धरुक्षमृदुकठिनभेदेनाष्टविधः, स्पर्शः, सर्व एवैते पृथिव्यां, जलादौ तु यथासम्भवं द्विव्यादिवर्णरसस्पर्शकगन्धादय इति भावः । एवञ्च विलक्षणसंस्थानविशिष्टाः समुदिता रूपादय एव घटादिरूपेणोत्पन्ना घटादिव्यपदेशभाजो भवन्ति विनाशस्तु तेषां स्वयमेव, उत्पत्तेरेव विनाशहेतुत्वादुत्पत्त्यनन्तरक्षण एव विनाश इत्याह-रूपादय एवेति। अभिघातादीनां कृत्यमाह-तत्रेति, विनाशहेतुत्वेन तवाभिमतानां मुशलाद्यभिघातादीनामसन्निधाने घटादिरूपेण रूपादीनामुत्पादविनाशधारा प्रचलति, यदा तु घटादिव्यपदेशभाजा रूपादिना 25 मुशलाद्यभिघातस्य सन्निधानं भवति तदा घटादिरूपेण न रूपादेरुत्पाद इति घटादिरूपेण तेषामुत्पाद विनाशसन्तानो निरुध्यतेऽतस्तदानीं घटादिरूपेण रूपादीनामग्रहणम् , न तु मुसलाद्यभिघातेन घटादेविनाशादग्रहणमिति भावः,। एवं पृथिव्यादिरूपेणोत्पन्ना रूपादयोऽपि विनाशकारणत्वेनाभिमतस्याग्निसंयोगादेः सन्निधानात्, पूर्वसन्तानस्य निरोधो भवति न तु तद्विनाश इत्याह-तथा पार्थिवा इति । एवं जलादिरूपेणोत्पन्नानामपि भाव्यमित्याह-तथाऽपामपीति । विनाशः स्वयमेव भवतीत्यत्र निदर्शनं वादिसम्मतं दर्शयति-अन्त्यानामिति, यथा भवन्मते क्षणिकानां शब्दाना खोत्तरवर्तिविशेषगुणनाश्यानां सन्तानिनामन्तिमः 30 शब्दः खयमेव विनश्यति खोत्तरवर्त्तिविशेषगुणस्य कस्याप्यभावात्तथा सर्वेऽपि क्षणिकाः पृथिवीघटरूपादयः स्वयमेव विनाश्याः, विना शकत्वेनाभिमताश्च सन्तत्युत्पत्तिप्रतिरोधका एवेति भावः । निगमयति-एवमिति । नन्वन्वयव्यतिरेकाभ्यां विनाशहेतुत्वमभिघातादीनां प्रत्यक्षतो दृष्टम् , तत्कथं विज्ञेयमभिघातादयः सन्तत्युत्पत्तिनिरोधका एव, विनाशस्तु स्वयमेवेतीत्याशङ्कते-कथमिदमिति। अभिघातादौ विनाशहेतुत्वं दृश्यमानमपि विनाशः स्वयमेव घटादीनां न तु हेतुना केनचिदिति कथमवगन्तव्यं मानाभावा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org