________________
winnrm
wwww
૨૦૮૨
__न्यायागमानुसारिणीव्याख्यासमेतम् [नियमोभयनयः भवेत् , अनन्तरासत्त्वे सति तत्स्वभावत्वात् , विनाशक्षणवत्, न चेन्नैव विनंक्ष्यति, अस्य भाष्यं यावत् पूर्ववदिति, अनिष्टापादनसाधनमेवमनिच्छत इति गतार्थम् ।।
कालान्तरावस्थाय्यनित्यवाद्याह
अस्ति विघ्नः, कोऽसौ ? विनाशहेत्वसान्निध्यम् , कः कस्य विनाशहेतुः ? यत्सन्निधाना। सन्निधानाभ्यां विनाशाविनाशौ, यथा घटस्य मुशलाद्यभिघातोऽग्निसंयोगः पार्थिवानां रूपादीनामपाश्च विनाशहेतुरित्यत्रोच्यते 'साध्यं विनाशहेतुत्वं' ( ) अन्यतरासिद्धेः कथं निर्धार्यते हेतुरेवेति, विशेषहेतुर्वाच्य इति, अस्ति विशेषहेतुः, तस्मिन् सति 'पश्चादग्रहणं यत' इति अत्रोच्यते-इदमज्ञापकम् 'स्वयं विनाशे तुल्यत्वात् तथानुत्पत्तितोऽग्रहः कथं कृत्वा ?
यथासंख्यनिर्देशा हि पार्थिवघटरूपादयः रूपादय एव घटाकारेणोत्पद्यमाना घट इत्याख्यां 10 लभन्ते, समुदायविशेषात् , ते पुनः स्वयमेव विनष्टाः, उत्पत्तेरेव विनाशकारणत्वात् ,
तत्राभिघातप्रत्ययवशादन्ये रूपादयो न पुनस्तथोत्पन्नाः, तस्मात् तदानीं घटत्वेन रूपाद्यग्रहणम् , तेन न घटो विनाशितः, तथा पार्थिवा अपि रूपादयः आपश्च ।।
(अस्तीति) अस्ति विघ्नः, कोऽसौ ? विनाशहेत्वसान्निध्यम् , तेनैव व्याख्यापयितुकामः पृच्छति-कः कस्य विनाशहेतुः ? यत्सन्निधानासन्निधानाभ्यां विनाशाविनाशाविति स ब्रूयात् यथा घटस्ये15 त्यादि, अत्र मुशलाद्यभिघातो विनाशहेतुरस्ति, [अग्नि]संयोगः पार्थिवानां रूपादीनामपाश्च विनाशहेतुः, तत्सान्निध्ये विनाशोऽसान्निध्येऽवस्थानमिति, अत्रोच्यते-साध्यं विनाशहेतुत्वम् , कथं साध्यमिति, त्वया साध्यते अस्मदाद्यभिघातेन घटस्य विनाशोऽग्निसंयोगात् पार्थिवरूपादीनामपाञ्चेति, मया खयमेवेतीति, तत्रावयोः कतरस्य वचस्तथ्यम् ? तस्मादन्यतरासिद्धत्वादहेतुः, कथं निर्धार्यते हेतुरेवेति, विशेषहेतुर्वाच्यः, इतर
आह-अस्ति विशेषहेतुः तस्मिन् सति पश्चादग्रहणात्, तदसान्निध्ये ग्रहणात् तत्सन्निधावग्रहणाद्भटादि20 दर्शयति-अस्यभाष्यमिति। नन्वस्तु विनाशस्वभावत्वं वस्तुनः, कालान्तरावस्थायित्वञ्च, न हि विनाशखभावत्वे तदैव विनाशेनापि
भाव्यमित्यस्ति नियमः, उत्पादक्षण एव विनाशप्रसङ्गात् क्षणविलम्बे निबन्धनाभावाच्च, नापि विनाशक्षणे पूर्ववदुत्पत्तिस्वभावत्वेऽपि तस्यैवोत्पत्तिरस्ति; किन्तु यथोत्पत्तिहेतुसमवधाने भवत्युत्पत्तिस्तथा विनाशहेतुसमवधाने विनाशो भवति, द्वितीयक्षणे च विनाशहेत्वसन्निधानमेव तदानीं तद्विनाशे प्रतिबन्धक इत्याशयेन कालान्तरावस्थाय्यनित्यवादी विघ्नं प्रदर्शयतीत्याह-अस्ति विघ्न इति । ततो विनाशहेतुसन्निधाने विनाशस्तदसन्निधाने न विनाशोऽत एव विनाशहेत्वसन्निधानं विनाशे विघ्न इत्याह-कोऽसाविति । 25 स्वस्य मते विनाशहेतूनामेवासिद्धत्वात्तेनैव प्रतिबन्धकं व्याख्यापयितुं विनाशहेतुं पृच्छति-कः कस्येति । अन्वयव्यतिरेकयोरितरत्र कार्यकारणभावनियामकत्वस्य सिद्धत्वादत्रापि यदन्वयव्यतिरेकाभ्यां विनाशाविनाशौ तावेव तस्य कारणमित्याहयत्सन्निधानेति। विनाशकारणं घटादेर्दर्शयति-यथा घटस्येत्यादीति, घटविनाशे मुद्गरादिसंयोगस्य पार्थिवरूपादिविनाशेऽग्निसंयोगस्य समवधानासमवधानाभ्यां हेतुत्वं सिद्धमिति भावः । ननु विनाशहेतुत्वं साध्यम् , घटपार्थिवरूपादीनां विनाशस्य
मुशलाद्यभिधातादिजन्यत्वस्य तव सिद्धत्वेऽप्यस्माकं प्रत्यसिद्धत्वेनान्यतरासिद्धत्वाद्धेतोः, मया हि विनाशः खत एवेत्यभ्युपगम्यत इति 30 समाधत्ते-साध्यमिति । अत्र साध्यं विनाशहेतुत्वं पश्चादग्रहणं यतः । स्वयं विनाशे तुल्यत्वात् तथाऽनुत्पत्तितोऽग्रहः ॥ इति
कारिका संभाव्यते, त्वया साध्यं तेन विनाशो भवतीति मया तु स्वत एवेति, तथा च स्वपक्षनिर्णयाय विशेषहेतुर्वाच्यः अन्यथा निर्धारणं न स्यादिति भावः । अन्वयव्यतिरेकात्मकं प्रत्यक्षमेव हेतुरित्याशङ्कते-अस्ति विशेषहेतुरिति । मुशलाद्यभिघाते
१ सर्वासु 'साध्यंतेना।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org