________________
क्षणिकता वस्तुनः]
द्वादशारनयचक्रम् विनाशत्वादपर्यायम् , अपर्यायत्वान्निर्मूलम् , निर्मूलत्वान्न स्यादिति क्रमेण हेतुहेतुमद्भावेन गतार्थम् , प्रत्येकं वैते हेतवः, तस्मादुत्पादविनाशात्मना वस्तुना भवितव्यमेतेनेति ।
अपि च नानित्यसामान्यमात्रेण वस्तुप्रतिपक्षनित्यसंस्पर्शसम्बन्धिना सन्तुष्यामः, किं तर्हि ? प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः, तानि रूपादीनि क्षणिकानीत्यवधार्यताम् , यो हि भाव उत्पन्नः स 'नष्टा चेन्नाशविघ्नः कः ?' ( ) यदि हि उत्पत्तिविनाश-5 स्वभावो भावः तर्हि तस्य विनाशधर्मणः सतः को विनाशप्रतिबन्धी विघ्नः येनावतिष्ठेत तद्विशिष्टमपि कालम् , स उत्पन्नमात्र एव विनाशमनुभवेत् , अनन्तरासत्त्वे सति तत्स्वभावत्वात् , विनाशक्षणवत्, 'न चेन्नैव विनंक्ष्यति', एवमनिच्छतः स नैव नश्येत् ..... पूर्ववत् । __अपि चेत्यादि, नानित्यसामान्यमात्रेण सन्तुष्यामः कालान्तरावस्थायिनां पृथिव्युदकरूपादीनामुत्पादविनाशदर्शनानुमितेनानित्यसामान्यमात्रेण सन्तुष्यामोऽनित्यवस्तुप्रतिपक्षनित्यसंस्पर्शसम्बन्धिना, 10 कालान्तरावस्थानस्याप्यनित्यप्रतिपक्षत्वात् , किं तर्हि ? प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः, [इति ] तानि रूपादीनि क्षणिकानीत्यवधार्यताम्-क्षणोऽस्यास्तीति क्षणिकः परमनिरुद्धः कालाख्यः स एवास्यास्ति, न द्वितीयादिसमयान्तरावस्थायीनीति निश्चीयताम् , न्यायोऽप्यत्र-यो हि भाव उत्पन्नः स नंष्टा चेन्नाशविघ्नः, [कः] तद्वयाख्या-यदि हीत्यादि, उत्पत्तिविनाशावनन्तरभावितौ, स उत्पन्नस्वभावो विनाशस्वभावश्चेत्तस्य विनाशधर्मणः सतः को विनाशप्रतिबन्धी विघ्नो येनावतिष्ठेत तद्विशिष्टमपि कालं, स उत्पन्नमात्र एव विनाशमनु- 15
www
यरहितं वस्त्वस्तीति भावः । असत्त्वे निर्मूलत्वं निर्मूलत्वेऽपर्यायत्वं तत्र चानुत्पादविनाशित्वं हेतुरित्याह-क्रमेणेति । साक्षादेव वैतेषामसत्त्वे हेतुत्वमित्याह-प्रत्येक वेति । एवञ्च यदि रूपादि वस्तु तर्हि तेनोत्पादविनाशात्मना भवितव्यमित्युपसंहरति-तस्मा. दिति। ननूत्पादविनाशात्मना वस्तुना भवितव्यमिति केवलमनित्यत्वं क्षणिकद्वित्र्यादिक्षणवर्तिभावसाधारणं प्रतिपाद्य न विरमामः, किन्तु क्षणमात्रस्थाय्यनित्यत्वं वस्तुन इति निरूपयाम इत्याशयेनाह-अपि चेति । ननु घटादिपृथिव्यादय इदानीमत्पन्ना अपि बहुतरकालं यावत् स्थित्वा पश्चाद्विनश्यन्तो दृष्टाः, तस्मात् क्षणिकाक्षणिकसाधारणमनित्यत्वं रूपादीनामित्यनुमिनुमः, इदञ्चानित्यत्वं 20 अनित्यप्रतिपक्षनित्यसम्बन्धि, क्षणमात्रस्थाय्यनित्यं द्वित्र्यादिक्षणावस्थायि च तत्प्रतिपक्षं नित्यं, क्षणावस्थानस्य कालान्तरावस्थानमेव हि प्रतिपक्षः, एवञ्चेदृशेनानित्यवस्तुप्रतिपक्षनित्यसंस्पर्शसंबंधिनाऽनित्यत्वसामान्यमात्रेण नास्माकं परितोष इत्याह-नानित्यसामान्येति । वसम्मतमनित्यत्वमाह-प्रतिपक्षेति, कालान्तरावस्थानविनिर्मुक्तमेवानित्यत्वं वस्तूनां सम्मतमिति भावः । इदमेव निरूपयति-तानि रूपादीनीति । अतिसूक्ष्मो यस्य विभागो न कर्तुं शक्यते विभागपरम्परा यत्र विश्रान्ता. एवंभतः कालः क्षणः, स एव यस्य वस्तुनोऽस्ति सोऽर्थः क्षणिक उच्यते, न हि किञ्चिदपि वस्तुनः कालो द्वित्र्यादिसमयोऽस्ति, मानाभावा- 25 दित्याह-क्षणोऽस्यास्तीतीति । द्वित्र्यादिसमयान्तरानवस्थाने न्याय उच्यते-यो हि भाव इति, अत्र 'नष्टा चेन्नाशविघ्नः कः, न चेन्नैव विनंक्ष्यति' इति च कारिकपादौ संभाव्येते। उत्पद्यमानानां वस्तूनां विनाशवभावनैयत्येनोत्पत्तिक्षणानन्तरं विनाशोऽवश्यम्भाबी, न हि तदानीं तद्विनाशप्रतिबन्धकः कश्चन विद्यते, न चोत्पत्तिक्षण एव विनाशप्रसङ्गः, उत्पत्त्यनन्तरभाविविनाशस्वभावत्वात् , तथाच तत्प्रतिरोधकस्याभावेन न द्वित्र्यादिक्षणावस्थानं वस्तुनः, किन्तूत्पन्नमात्र एव विनाशमनुभवति, द्वित्र्यादिक्षणासत्त्वे सति विनाशस्वभावत्वात् , यथा विनाशक्षणे वस्तु अनन्तरासत्त्वे सति विनाशखभावत्वात् विनाशमनुभवति, यदि विनाशस्वभावत्वे सत्यपि विनाशं 30 नानुभवेत् तदा न कदापि तस्य विनाशः स्यात्तस्मात् क्षणिक रूपादीति भावः। तदेवाह-उत्पत्तिविनाशाविति । व्यभिचारशङ्कानिरासकं तर्कमाह-न चेन्नैवेति । विनाशस्वभावत्वेऽपि विनाशाननुभवने उत्पत्तिक्षण इव न कदापि नाशमनुभवेदिति व्याख्यान
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org