________________
१०८०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमोभयनयः दुत्पादविनाशेनैवैषां रूपादीनां भवनमव्यावृत्तम् , किं कारणं ? यस्मात्तव्यावर्त्तनेऽभावता तेषां-रूपादीनामुत्पादविनाशरूपेणापि भवने व्यावर्तिते खपुष्पवदभावता स्यात् , तद्धि केनचिद्रूपेणाभवनात् अत्यन्तासत् तथा मा भूदित्युत्पादविनाशरूपं भवनं त्वयापीति, तद्दर्यते-ननु तैर्यथानुभूयते स एव भाव इति भवतैवोक्तं जन्मभङ्गभवनाभ्युपगमात् ।
इतर आह
ननु तैर्भूयतेऽनुत्पादादित्वेनैवेति, न तर्हि तैर्भूयते, अकालत्वेऽकालत्वात् , त्वदुक्तिवदुत्पादाद्यनभ्युपगमादकालत्वम् , उत्पादविनाशावेव हि वस्तूनां भवनबीजम् , रूपादय इव तन्त्वादिभवनबीजम् , तदभावे तदभावात् तद्भावे तद्भावात् , इतरथा ह्यनुत्पादविनाशत्वादपयोयत्वान्निमूलत्वान्न स्यात्, वन्ध्यापुत्रवत् । 10 (नन्विति) ननु तैर्भूयतेऽनुत्पादा]दित्वेनैवेति मयोक्तत्वादयुक्तमित्यत्रोच्यते न तर्हि तैर्भूयते,
अकालत्वेऽकालत्वात् नास्य कालोऽस्तीत्यकालः, अकालत्वे सत्यकालत्वात् , कालस्याकालत्वात् कालवत् सत्त्वाशङ्का स्यात् मा भूदित्यकालत्वे सत्यकालत्वादिति विशिष्यते, त्वदुक्तिवदुत्पादाद्यनभ्युपगमादकालत्वम् , आदिग्रहणाद्विनाशानभ्युपगमात् , कस्मात् ? उत्पादेत्यादि, यस्मादुत्पादविनाशावेव वस्तूनां-रूपादीनां भवनस्य बीजम् , हिशब्दो हेत्वर्थे, उत्पादविनाशधर्म वस्तु भवनं तद्वीजत्वात, किमिव ? रूपादय इव 15 तन्त्वादिभवनबीजं तदभावे तदभावात् तद्भावे तद्भावात् , रूपादिसमुदायो हि तन्तुपटादयः तदभावे न सन्ति, तद्वीजत्वात् , तद्भाव एव च भवन्ति, एवं वस्त्वपि उत्पादविनाशबीजत्वात् तदात्मभवनकमिति, एवमनभ्युपगमे दोषः-इतरथा हीत्यादि यावत् वन्ध्यापुत्रवदिति, भावे च साधर्म्यवैधर्म्यदृष्टान्तौ, अनुत्पाद
भवनस्यापि व्यावर्त्तने खपुष्पस्येव रूपादीनामभावतैव स्यात्, केनचिदपि रूपेणाभवनात्, तन्मा भूदिति तेषामुत्पादादिरूपतो
भवनमभ्युपेयमित्याह-तेषामिति। अनुभवमेव शरणीकुर्वता त्वयापि ननु तैर्यथाऽनुभूयते तथैव भाव इत्युक्त्वाऽङ्गीकृतत्वाद्रूपादय 20 उत्पादविनाशरूपेण भवन्तीत्याह-उत्पादविनाशरूपमिति, उत्पादविनाशरूपेण रूपादीनामनुभवनात्तद्रूपेण भवनं त्वयाप्यभ्युपेत
मेवेति भावः। शङ्कते-ननु तैरिति। रूपादयः खत एव भावाः न त्वपरेण केनापि रूपेण ते भावाः, तैर्हि भूयतेऽनुत्पादादिरूपेगैवेत्येव ममाभिप्राय इति शङ्कते-ननु तैर्भूयत इति । उत्पत्तिस्थितिविगतिरूपेण तेषामभवनेऽनुत्पादादिरूपेण भवनाभ्युपगमे भूतभविष्यद्वर्त्तमानरूपाणामुत्पादादीनामभावे कालसम्बन्धाभावाद्रूपादिभिर्न भूयत एवेति समाधते-न तर्हि तैरिति । अकालत्वे
सत्यकालत्वादिति, कालभिन्नत्वे सति कालसम्बन्धित्वाभावादित्यर्थः । काले कालान्तरासम्बन्धिनि व्यभिचारवारणाय काल25 भिन्नत्वे सतीत्युक्तम् , एतदेवाह-कालस्येति । रूपादौ हेतुसद्भावं दर्शयति-त्वदुक्तिवदिति, उत्पादो भविष्यत्ता विगमो भूतता, रूपादीनां तदनभ्युपगमात् कालासम्बन्धित्वमिति भावः। रूपादीनामकालत्वे सत्यकालत्वाद्वन्ध्यासुतादिवदभवनात्मकत्वं प्रसज्यते,यतः उत्पादविनाशौ वस्तूनां भवने बीजम् , यथा रूपादिसमुदायात्मकतन्त्वादेर्भवनस्य रूपादयो बीजम् , रूपाद्यभावे हि तन्त्वादिभवनाभावः, रूपादिभाव एव तन्त्वादि भवति, तस्माद्रूपादयस्तन्त्वादिबीजम् , एवमेव रूपादिभवनस्योत्पादविनाशौ बीजम् , तस्मादुत्पादाद्यास्मकं रूपादिभवनमित्युपपादयति-यस्मादिति । साधर्म्यदृष्टान्तमाह-रूपादय इति । वैधर्म्यदृष्टान्तमाह-इतरथा हीत्या30 दीति, रूपादेरुत्पादविनाशात्मकत्वानभ्युपगमे तस्य पर्यायराहिल्यान्निर्मूलत्वापत्तिः, तथा सति वन्ध्यापुत्रवत्तन्न स्यात् , न हि पर्या
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org