________________
एकादशो नियमोभयनयः
नयचक्रसम्यग्दर्शनाधिकारे प्रत्येकनयस्वरूपपरिज्ञानपूर्वकत्वान्नयचक्रज्ञानस्यानन्तरनयदर्शने चापरितोषादुत्तरोत्थानमिति स एव सम्बन्धः, पूर्वस्य दूषणं स्वमतप्रक्रिया च सहोच्यते नियमोभयेऽस्मिन्नित्यत आह
इदमशक्यं यद्यत्तद्रूपादिभवनमेव भाव इति स्वमतं व्यवस्थाप्य वस्तुसंक्रान्तिप्रतिषेधे- 5 नोत्पत्त्यभाव इति वचनं श्रोतुमपि, अवश्यं हि तैः केनापि प्रकारेण भवितव्यं, अत एव, तत्र च तयोरत्यन्तभवनस्य व्यावर्तितत्वाद्भावरूपेण भवनाभावात् परिशेषादुत्पादविनाशेनैवैषां भवनमव्यावृत्तम्, तद्व्यावर्तने ह्यभावता तेषां स्यात् , खपुष्पवत् , उत्पादविनाशरूपं भवनं त्वयापि ननु तैर्यथानुभूयते स एव भाव इत्युक्तम् ।
इदमशक्यमित्यादि, इदं श्रोतुमप्यशक्यं कुतो वक्तुम् ? स्ववचनादिविरोधात् , कतमदशक्यं ? 10 यद्यत्तदित्यादि, यद्-यस्मादित्यर्थः, यत्तदिति वचनमभिसम्बध्यते, रूपादिभवनमेव भाव इति स्वमतं व्यवस्थाप्य वस्तुसङ्क्रान्तिप्रतिषेधेनोत्पत्त्यभाव इति, कथं पुनरेतदशक्यमत आह-अवश्यं हीत्यादि, तैरवश्यं हि रूपादिभिः केनापि प्रकारेण भवितव्यं भावरूपेणाभावरूपेण वा, अत एव-त्वद्वचनात्, हिशब्दस्य वचनहेत्वर्थत्वात् , तदवधारयितुमाह-तत्र चेत्यादि, तयोश्च भावाभावयोरत्यन्तभवनेन यद्भवनं तद्यावर्तितं द्रव्यार्थिकमतमेषु पर्यवास्तिकनयेषु, अतो भवनव्यावर्त्तनात् भावरूपेण भवनाभावात् परिशेषा- 15
अधिक्रियतेऽस्मिन् शास्त्रे सम्यग्दर्शनम् , तच्च द्वादशनयानामिति प्रत्येकनयज्ञानमन्तरेण तदभावात् प्रत्येकनयपरिज्ञानस्यावश्यकत्वे तत्परिज्ञानं तत्स्वरूपव्यावर्णनेनेति सम्प्रति पूर्वनयस्वरूपे तोषाभावेन नियमोभयनयस्योत्थानं भवति, तत्रापि तद्दषणमन्तरेणास्योत्थानासम्भवेन तहषणस्य वक्तव्यत्वे तत् एतन्नयप्रक्रिया च पौर्वापर्येणानिरूप्य सहैव प्रदर्यत इति पूर्वेण सङ्गतिमादर्शयति-नयचक्रेति, इदमपि नयमतमशोभनम् , द्रव्यभवनव्यावृत्तौ प्रतिज्ञातायां कोऽत्र भेदभावो नाम, समुदायिसंवृतिसमुदायिनामुत्पादविनाशव्यतिरिक्तस्वरूपाभावादभावत्वापत्तेः क्षणे क्षणेऽत्यन्तभिन्नरूपाद्यसाधारणानिर्देश्यपरमार्थत्वाद्वस्तुन इति नियमो 20 विधीयते नियम्यते चेति नियमोभयमतम् । ननु त्वयोच्यते रूपादिनिखिलवस्तूनां रसादिपरस्परव्यावृत्तात्मना प्रतिनियतत्वात् उत्पत्तिस्थितिविगत्यादिभिः प्रागभावादिरूपैर्वस्त्वन्तरैर्न संक्रम इति तदयौक्तिकमित्याह-इदमशक्यमिति । यद्वचनं श्रोतुमेवाशक्यं विरोधात्तद्वक्तुं कथं शक्यमित्याह-इदमिति, अधुनैव प्रदर्यमानं वचनमित्यर्थः । किं तद्वचनमित्यत्राह-यद्यत्तदित्यादीति । रूपादिमात्रमेव भावः, तच्च रूपादि घटपटादिसमुदायात्मकं वस्त्वन्तरं न सङ्कामति, यदि सङ्कामेत् तर्हि रूपादीनां समुदायरूपापत्त्या वखरूपेऽनवस्थितत्वादवस्तुता स्यात्, समुदायोऽपि रूपादिवत् स्वखरूपेऽनवस्थितत्वादवस्तु स्यात्, तथा- 25 रूपादेर्भूतत्वात् प्रागभावप्रध्वंसाभावात्मकयोरुत्पत्तिविनाशयोरभूतत्वात् वस्त्वन्तरसङ्क्रान्तौ च भूतश्चेत्कथमभूतमभूतश्चेत् कथं भूतमिति व्याहतिर्भवेत्तस्मादुत्पत्त्यादीनामभाव इति त्वदीयोऽभिप्रायो नियुक्तिक इत्याह-रूपादिभवनमेवेति। वस्तुना हि केनापि प्रकारेण भवितव्यमन्यथा खपुष्पवदभाव एव स्याद्वस्तुनः, तत्रात्यन्तभावरूपेण भवनस्य द्रव्यार्थिकमतस्यैषु पूर्वोदितपर्यवास्तिकनयेषु व्यावर्तितत्वात्तेन रूपेण भवनाभावे उत्पादविनाशरूपेण भवनमेषां दुर्निवारम् , रूपादिभवनमात्रवस्तुत्वोक्तेरित्याशयेन समाधत्ते-तैरवश्य हीति, केनापि प्रकारेण भावरूपेणाभावरूपेण वा। तत्रात्यन्तभावरूपता त्वया प्रतिषिद्धेत्याह-तयोश्चेति। 30 भावरूपेण भवनप्रतिषेधाच्छिष्यमाणाभावरूपेणैव भवनं प्राप्तम्, अभावश्चोत्पत्तिविनाशौ तद्रूपेण रूपादीनां भवनं न व्यावृत्तमित्याह-अत इति । कुतस्तत्रैव सम्प्रत्ययो न तु तव्यावृत्तिरित्यत्राह-यस्मादिति, भावरूपभवनव्यावृत्तिवदभावरूपेण
द्वा० न० ११ (१३६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org