________________
१०७८
म्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमविधिनयारे
गण गुण संख्याने, रूपादयः परस्परविशिष्टा गुणाः, सम्यक् ख्यानात्, स च गुणः पर्यायः परितो गमनात् पर्यवो वा पूर्ववत् स एवास्तीत्यादिव्याख्या गतार्था ।
पृथक् स्वेन स्वेनार्थेन युक्तानि पदानि वाक्यम्, तेषामेवार्थो वाक्यार्थः, उपनिबन्धनमस्य 'गोयम ! बिहे पण्णत्ते तं जहा - वण्णवंते रसवंते गंधवंते फासवंते ( भ० श० २० उ० ५ ) वर्णवन्त इत्यादिनिर्देशे मत्प्रत्ययः संसर्गे, परस्परसंसृष्टा एव वर्णादय इति ।
www
(पृथगिति ) पृथक् पदानि वाक्यार्थः स्वेन स्वेनार्थेन युक्तानि, देवदत्त ! गामभ्याज शुक्लामित्यत्र देवदत्तादिपदान्येव वाक्यम्, तेषामेवार्थो वाक्यार्थः, उक्तरूपात् समुदायासत्त्वात्, अस्य नयस्योपनिबन्धनमार्षमुच्यते यतोऽस्य निर्गमः, तद्यथा - 'कइविहे णं भंते भावपरमाणू पण्णत्ते' इति प्रश्ने व्याकरणं 'गोयम ! aat (पण्णत्ते) तं जहा वण्णवंते रसवंते गंधवंते फासवंते' (भ. श. २० उ० ५ ) इति वर्णवंत इत्यादि, भावे 10 वर्णादावेव पृष्ठे [कुतः ] तद्वैन्तोऽनेकेऽर्था व्याकृता इति चेदुच्यते न केचित्, किन्तु त एव वर्णादयः परस्परवन्तः रसगन्धस्पर्शा वर्णवन्तः वर्ण[वर्जा: ], तद्वत् रसवर्जा रसवन्तो गन्धवजा गन्धवन्तः, स्पर्शवर्जा : स्पर्शवन्त इति मतुपा निर्दिष्टाः यस्मान्मतुबिह संसर्गे, परस्परसंसृष्टा एव वणादय इति, 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुवादयः ।।' तद्यथा भूम्नि यवमान् गोमान् निन्दायां ककुदावर्त्ती व्यादापहासी, प्रशंसायां - रूपवान् शीलवान्, नित्ययोगे-क्षीरिणो वृक्षाः कण्टकिनो वृक्षाः, 15 अतिशायिने क्रोधी मानी (महाभा. अ. ५ पा. २ सू. ९४) संसर्गे - दण्डी छत्री, अस्तित्वमात्रे - यवमताभिः प्रेक्षतीति, तत्रायं वर्णवन्त इत्यादिनिर्देशे मत्प्रत्ययः संसर्गे अस्मिन्नयदर्शने, स्याद्वाददर्शने तु द्रव्यपरमाण्वपेक्ष वा यथा 'द पजवविउतं दव्वविजताय पज्जवा णत्थि । उप्पायठिइभंगा हंदि दवियलक्खणं एयं ॥' ( सम्मति. गाथा ०१२) इति परमार्थो जिनमते, किं तु प्रत्येकनयव्याख्यानात् भावमात्रं त्वनेन गृहीतमिति । दशमो भङ्गो नियमविधिनयः समाप्तः ॥
1
20 मस्य विधिरिति भावः । अयं हि नयः पर्यवास्तिकः, अतः पर्यवास्तिकशब्दार्थमाह-शब्दार्थस्त्विति, परीत्युपसर्गः समन्तादर्थे, अवधातुर्गत्यर्थे, परितोऽवनं - समन्ताद्गमनं पर्यवः, स एवास्तीति यस्य नयस्य मतिरसौ पर्यवास्तिकः समन्ताद्गमनश्चानेकतारूपो गुणः, तस्यैव समन्ताद्गमनतया सम्यक् प्रख्यानात्, एकतारूपो गुणो न समन्ताद्गमनतया ख्यातः देशभेदेन भेदात्, सर्वप्रभेदनिर्भेदत्वेन समन्ताद्गमनासम्भवाच्च, तस्माद्रूपादय एवानेके परस्परविशिष्टा गुणाः सम्यक् प्रख्यानात् परितो गमनाच्च पर्यव उच्यत इति भावः। अथात्र वाक्यार्थं दर्शयति - पृथगिति । समुदायस्यासत्त्वात् स्वस्वार्थवन्ति पदान्येव वाक्यं न तु पदसंघातादि रूपम्, 25 देवदत्त ! गामभ्याज शुक्ला मित्यादौ देवदत्तादिपदान्येवार्थवन्ति वाक्यमुच्यत इत्याह- पृथक् पदानीति । तदर्थ एव वाक्यार्थ इत्याह- तेषामेवेति देवदत्तादिपदानामेवेत्यर्थः । पदसमूहस्य पदसंघातादेर्वा वाक्यत्वाभावे हेतुमाह-उक्तरूपादिति, समूहादिप्रकारेणाविद्यमानत्वात् समुदायादीनामसत्त्वादिति भावः । अस्य नयस्याधारभूतमागममाह- अस्य नयस्येति । भगवन् ! भावपरमाणवः कतिविधाः प्रज्ञप्ता इति प्रश्नस्योत्तरं भगवानाह गौतम ! चतुर्विधाः प्रज्ञप्ताः, तद्यथा-वर्णवन्तो रसवन्तो गन्धवन्तः स्पर्शवन्त इति, इदमागमवचनमाश्रित्यायं नयः प्रवृत्त इति भावः । ननु भावरूपाणां परमाणूनां प्रश्न किमिति तद्वतामनेकेषामर्थानां 30 व्याकरणं कृतमित्याशङ्कते - वर्णवन्तु इत्यादीति । समाधत्ते - न केचिदिति, न केचित्तद्वन्तोऽनेकेऽर्था व्याकृताः किन्तु परस्परसंसर्गवन्तो वर्णादय एव वर्णादिमन्त उक्ताः, यथा रसगन्धस्पर्शाः वर्णसंसर्गात् वर्णवन्त उच्यन्ते, तद्वत् वर्णगन्धस्पर्शा रससंसर्गात् रसवन्तः वर्णरसस्पर्शाः गन्धसंसर्गात् गन्धवन्तः, वर्णरसगन्धाः स्पर्शसंसर्गात् स्पर्शवन्त इति मतुप्प्रत्ययान्तेनोक्ता इति भावः । मतुप्प्रत्ययार्थमाह- यस्मादिति, अत्र हि मतुप् संसर्गेऽर्थे प्रयुक्तं वर्णादीनामन्योन्यसंसृष्टता प्रदर्शनार्थम् तेन वर्णाद्यन्यतमासंसृष्टो रसादिर्नास्तीति दर्शितं भवतीति भावः । संसर्गे मतुबित्यत्र महाभाष्यकृतां सम्मतिमाह - भूमनिन्देति । 35 इति विजयलब्धिसूरिविरचिते विषमपद विवेचने नयचक्रशास्त्रस्य दशमो नियमविधिनयारः समाप्तः ॥ १ सि.क्ष. छाडे. वर्णादिवेव । २ सि. क्ष. छा. डे. तद्वतोम्येकोऽथ व्याकृत इति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org