________________
وافاه
एतत्रयव्याख्या ]
द्वादशारनयचक्रम् प्तिन वस्त्वन्तरसंक्रान्तिरिति तन्न, कस्मात् ? प्रतिवस्तु तथाभवनस्य भूतत्वात्-रूपस्य रसाद्यात्मना रसस्य रूपाद्यात्मना गन्धस्यापि शेषात्मना-परस्परव्यावृत्तात्मना सर्वस्य वस्तु[नः]प्रतिनियतत्वात् , न च भवनेनापि व्याप्तिरस्त्येवमिति भवनं-भावः संक्रामत्यभावं भावाभाव इति महती संक्रान्तिः, तस्या एव हेतुतोऽवस्तुता, तस्मात् स्थित्युत्पत्तिविगतिनिरपेक्षा रूपादयः, तन्मात्ररूपं-तन्मात्रतत्त्वञ्चेदं तद्भावस्तन्मात्ररूपता, तस्याश्च स्थित्युत्पत्तिविगतिनिरपेक्षरूपादितन्मात्ररूपतायां सर्वसिद्धिः-सर्व सिद्ध्यति नात्र कश्चिदोषः, अन्यस्य शत-5 भेदसमभिरूढमध्यपतितस्य मूढसमभिरूढस्य दर्शनेन तूत्पादव्यययोग एव रूपादीनामिति सोऽप्यस्ति कश्चिदामूढः किं तेन ? इत्ययं तन्नेच्छत्यामूढत्वात् तस्य, एवं चायं गुणसमभिरूढनियमविधिरुक्तः, अत्राप्यवक्तव्यलक्षणस्याप्यनन्तरस्य नियमस्य विधेः ।
तद्भावनार्थमाह
एवं हि नियमो भवति यदि वस्तु, एष नयोऽनन्तरातीतनयप्रतिक्षेपेण पूर्वतरातीतविचार- 10 प्रसिद्धोत्सर्गविधिवृत्तात्मीयानाञ्चापवादेन नियमः क्रियते विधीयत इत्थंतयेति, पर्यव इति परिगमनं तच्चानेकता गुणः परितो गमनात् स एवास्तीति मतिरस्येति पर्यवास्तिकः ।
एवं हि नियमो भवतीत्यादि, कथं ? यदि वस्तु, तेन प्रकारेणाविद्यमानत्वात् सामान्यादयः समुदायश्च त्याज्याः किन्तु विशेषा एव रूपादयो देशभिन्नाः प्रत्यक्षादिप्रमाणगोचरत्वात् परिग्राह्या इत्युक्तं ततोऽधिकतरमसत् , तस्यासतो विक्षेपेण विधिरुच्यते यदि वस्तु ततोऽस्यैवं नियमो युज्यत इति, एष नियमस्य 15 विधिरनन्तरातीतनयप्रतिक्षेपेण पूर्वतरातीतविचारप्रसिद्धपुरुषादिवादोत्सर्गविधिवृत्तानां तदनन्तरातीतानाञ्च विध्युभयादिवृत्तानामात्मीयानामपवादेन नियमः क्रियते विधीयत इत्थंतया वा विचारप्रसिद्धोत्सर्गविधिवृत्तात्मीयापवादनियमक्रि[य]येति व्याख्या[तो]नयः, शब्दार्थस्तु पर्यव इति परिगमनं तच्चानेकता गुणः, वस्तुता स्थितेरित्याशङ्कते-अथ मन्यस इति । घटरूपरसादि प्रत्येकं वस्तु परस्परव्यावृत्तस्वरूपेण भूतमिति न तस्यैकरूपेण भवनेन व्याप्तिरस्तीयाशयेन समाधत्ते-प्रतिवस्त्विति । तथा भवनमेव दर्शयति-रूपस्येति, भवनस्य सङ्क्रमणे भावोऽभावं 20 सट्टामतीति भावाभावरूपं वस्तु स्यात् , न चैवम् , तस्मात् सङ्क्रान्तिस्वीकारेऽवस्तु भवेत् , अभावे भावस्य सङ्क्रमणेऽभावरूपत्वाद्वस्तु नेति स्थित्युत्पत्तिविनाशैरपि न सम्बध्यत इति भावः। तस्माद्विश्वमिदं स्थित्युत्पत्तिविनाशरहितरूपादिमात्रतत्त्वम् , तेनैव सर्वव्यवहार सिद्धिरिति दर्शयति-तस्मादिति । उत्पत्तिविनाशवद्रूपादिविषयोऽपि शतभेदेषु समभिरूढेषु कश्चित् समभिरूढोऽप्यस्ति, स नितरामामूढः-अतिविचित्रः स्यान्नाम स तथा, किं तेन, अयन्तु गुणसमभिरूढ उत्पादव्यययोग नेच्छतीति गुण समभिरूढनियमविधिरिति निरूपयति-अन्यस्येति। ननु सामान्यविशेषयोरेकत्वान्यत्वाद्यनुपपत्त्याऽवचनीयं वस्त्विति पूर्वनयोक्तनियमस्येत्थं-28 तया विधानान्नियमविधिरयं नय इति भावयति-एवं हीति । केन प्रकारेग नियमो भवति, तद्व्याकरोति-कथमिति, वस्तु सामान्यादिरूपेण समुदायरूपेण वा नास्ति यतोऽतः सामान्यादयस्त्याज्याः किन्तु विशेषा एव रूपादयो प्रत्यक्षादिप्रमाण सिद्धत्वात् ग्राह्याः, तेऽपि देशभेदेन भिन्ना इत्याह-यदि वस्त्विति । तर्हि केन प्रकारेण वस्तु विद्यमानमित्यत्राह-किन्तु विशेषा एवेति, यदा चैकदेशस्थं रूपादि चक्षुरादिना गृह्यते तदा नापरदेशस्थम् , तस्मात्तद्देशगतं रूपादि भिन्नम् , यद्येकं भवेत् सकलदेश-... गतमेकदैव गृह्येतातो देशभेदेन भिन्ना रूपादिविशेषाः परिग्राह्याः, तदितरेषां घटपटादीनामसत्त्वम् , सामान्यसमुदायादिरूपाणां 30 खस्वरूपेणासत्त्वादिति तत्प्रतिक्षेपेण वस्तु विधीयते, यदि वस्तु स्यात्तदैवं स्यादिति नियमो युज्यत इति नियमविधिरिति भावः । नियमविधिकार्यमाह-एष नियमस्य विधिरिति, अव्यवहितपूर्वनयः स्ववचनादिविरोधान्नैवं नियमो युज्यत इत्यादिना प्रतिक्षिप्यते, तथा सति विधिविधिनयविध्युभयादिनयप्रसिद्धोत्सर्गापवादभूतवस्तूनां वक्तव्यत्वं प्राप्तं तदप्यपोद्यते, ततश्च यदि स्यात्तदा रूपादय एव देशभिन्ना यथार्थाः स्वस्वरूपापरियागात्, न सामान्यादयः समुदायो वा यथार्थ इति नियमो विधीयत इत्ययं निय- .
mam
सि.क्ष. छा. डे. प्रत्युपहतस्वादन स्वभवमनापि ग्यातितिरस्त्ये देवमिति । २ सि.क्ष. छा. डे, रूखसमभिरूतस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org