________________
wwwwwwwww
wwwam
१०७६
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे भेदाः-विधिः १, विधिविधिः २ विध्युभयम् ३ विधिनियमः ४ उभयम् ५ उभयविधिः ६ उभयोभयम् ७ उभयनियमः ८ नियमः ९ नियमविधिः १० नियमोभयम् ११ नियमनियमः १२ इति द्वादशधा भिन्नस्य शतभेदसमभिरूलैकदेशस्यायं नियमविधिर्नामभेद इति ।
किञ्चान्यत्-यथा चायं वस्त्वन्तरसङ्क्रान्ति नेच्छति रूपादीनां तथा
अस्य नयस्य चोत्पत्तिविगतिस्थितिभिरपि नैव सम्बध्यते रूपादि, उत्पत्तिविगत्योस्तावत् प्रागभावप्रध्वंसाभावात्मकत्वादुभयमभूतं रूपादि च भूतम् , तयोर्वस्त्वन्तरसङ्कान्तेर्ननूभयं व्याहन्यते भूतश्चेत् कथमभूतम् ? अभूतश्चेत् कथं भूतं रूपादिवस्तु ? इति ।
(अस्य चेति) अस्य चोत्पत्ति वि]गतिस्थितिभिरपि नैव सम्बध्यते-नयस्योत्पादादित्रयसङ्क्रान्तेरप्यभावात् , यद्युत्पत्त्यादि वस्त्वन्तरसंक्रान्तिः स्यात् कुतोऽस्य समभिरूढता स्यादिति, कथमिति दर्शयति10 उत्पत्तिविगत्योस्तावत् प्रागभावप्रध्वंसा[भावा]त्मकत्वात्-उत्पत्तिः प्रागभावो विनाशः प्रध्वंसाभावः, तदुभयमभूतं रूपादि च भूतम् , तयोर्भूताभूतयोर्वस्त्वन्तरसंक्रान्तेस्तूभयं व्याहन्यते भूतश्चेत् कथमभूतम् ? अभूतश्चेत्कथं भूतं रूपादिवस्तु ? इति ।
उत्पत्तिविनाशानाश्रिता स्थितिर्भूतत्वान्न व्याहन्यते रूपादिने ति] चेदुच्यते सत्यम् -
भूता स्थितिरपि च भवनात्मिका सर्वत्र सङ्कामति वस्त्वन्तरमिति न वस्तुतैव, अथ तथा 16 तथा भाव एव भवतीति तस्यैवैकस्याभिव्याप्तिन वस्त्वन्तरसङ्क्रान्तिरिति तन्न, प्रतिवस्तु तथा
भवनस्य भूतत्वात् , परस्परव्यावृत्तात्मना सर्वस्य वस्तुनः प्रतिनियतत्वात् , न च भवनेनापि व्याप्तिरस्त्येवमिति स्थित्युत्पत्तिविगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिरिति।
(भूतेति) भूता स्थितिरपि च भवनात्मिका भवत्येव भवतीत्यतो भवनव्युत्पत्तेः सर्वप्रकारैः सर्व भवति घटोऽपि रूपमपि रसोऽपीत्यादिः, भवनं सर्वत्र सङ्क्रामति वस्त्वन्तरमिति न वस्तुतैव स्थितेरपीति, 20 अथ तथा तथेत्यादि, अथ मन्यसे तेन तेन प्रकारेण घटरूपरसादिभाव एव भवतीति तस्यैवैकस्याभिव्यासमभिरूढ उच्यते, पर्याया द्विविधाः क्रमभाविनः सहभाविन इति, सहभाविनो गुणाः, अतः क्रमभाविपर्यायसमभिरूढादन्यो गुणसमभिरूढः, स च विध्यादिरूपेण द्वादशधा भिन्नः, तत्र नियमविधिरयमन्तर्गत इति भावः । नयस्यास्याभिमतान्तरमाहयथा चायमिति। वस्त्वन्तरसंक्रान्तेरनभ्युपगमवद्रूपादेरुत्पत्तिस्थितिविगमैरपि न सम्बन्ध इत्याह-अस्य नयस्य चेति । व्याकरोति-अस्य चेति,अस्य नयस्य मते रूपादिवस्तु उत्पत्तिविगमस्थितिभिर्न सम्बध्यते, अयं नयो घटपटादिवस्त्वन्तरैः सह यथा 25 सङ्क्रान्ति सम्बन्धं नेच्छति रूपादेस्तथोत्पादादित्रिभिः सङ्क्रान्तिमपि नेच्छतीति भावः । यदि सङ्क्रमणमिच्छेत्तदा को दोष इत्यत्राहयद्युत्पत्त्यादीति, यद्युत्पत्त्यादिभिस्त्रिभिर्वस्त्वन्तरैः सङ्क्रान्तिमभिलषेत्तर्हि नयस्यास्य समभिरूढत्वं व्याहतं स्यात्, वस्त्वन्तरसङ्क्रान्त्या स्वस्वरूपे रूपादेरनवस्थितत्वेनावस्तुत्वापत्तेः, एवञ्च कोऽर्थ एकीभावेनाभिमुख्येन तां तां संज्ञामधिरोहेदिति भावः । उत्पादादिसङ्कमणेऽवस्तुत्वं रूपादीनां दर्शयति-उत्पत्तिविगत्योस्तावदिति. उत्पत्तिः प्रागभावात्मकः, विगतिः प्रध्वंसाभावात्मकः, उभयोरनयोरभावरूपत्वेन भवनात्मकत्वाभावादभूतत्वं रूपादि च भवनात्मकत्वाद्धृतमिति, तदुभयरूपाद्योः परस्पर30 सङ्क्रान्तेरभ्युपगमे भूताभूतत्वे व्याहन्यते भूतश्चेत् कथमभूतमभूतश्चेत् कथं भूतमिति तस्मान्नोत्पादादिवस्त्वन्तरसङ्क्रान्तियुज्यत 'इति भावः । ननु रूपादि स्थित्यात्मकं भवतु स्थितेरपि भूतत्वेन रूपादिना सहाविरोधादित्यत्राह-भूता स्थितिरपि चेति । रूपादि स्थितिं न सङ्कामति, स्थितेर्भवनात्मकत्वात् सर्वस्य वस्तुनः सर्वैः प्रकारर्भवनात् स्थितिरपि न वस्तुभूता, रूपमपि हि भवति रसोऽपि भवति घटोऽपि भवतीत्येवं भवनस्य सर्वत्र वस्त्वन्तरेषु सङ्क्रमणात् तस्य वखरूपेऽवस्थितिनास्तीत्यवस्तुभूता भवनामिका स्थितिरिति व्याकरोति-भूतेति । ननु भाव एव सर्वो घटरूपरसादिः, न तु भावो घटरूपरसादिवस्त्वन्तरं सङ्क्रामति, तस्मान
www wwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org