SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अस्य समभिरूढता] द्वादशारनयचक्रम् १०७५ नसिद्धिर्यथा तदतिरिक्तार्थाभावेऽपि तथा कर्मफलसम्बन्धादिसंव्यवहारप्रयोजनसिद्धिः पञ्चसु रूपादिषु स्कन्धेध्वेव, अतस्तदरिक्तात्मपरिकल्पनावैयर्थ्यमिति कुतः पुनरात्मग्राहः प्रवर्त्तत इत्यत्रोच्यते-औदासीन्याच्च तत्त्वेष्वित्यादि-तत्त्वविचारं प्रत्यौदासीन्यात् पञ्चस्कन्धतत्त्वविपरीतात्मपरिकल्पन[]या विपर्ययज्ञानीभूतत्वात् चित्तस्य मानातिमानादिसप्तमानान्तर्गताहंमानाकुशलसंस्कारानुशयादहमानाख्याकुशलधर्मनिक्षिप्तवासनापरिपाकादास्माऽस्तीत्यहङ्कारः प्रवर्त्तते, ततः पञ्चस्कन्धव्यतिरिक्तः पुरुष इति, एवं वस्तुतोऽस्य नयस्य दर्शनं प्रदर्शितम् । । ___अधुना कतमनयविकल्पोऽयमित्येतन्निश्चयार्थमाह एवञ्च रूपादितत्त्वस्य वस्त्वन्तरसङ्कान्तेरयथार्थत्वाद्वस्तुव्यवस्थागतिविनिर्मुक्तेरुभयावस्तुत्वमापादयेत् सेति प्रतिपत्तेः समभिरूढः, एकीभावेनाभिमुख्येनैक एव रूपादिरर्थस्तां तां संज्ञां समभिरूढः, यस्य शतसंख्यस्यापीदमेव लक्षणम् , 'वत्थूओ संकमणं होति अवत्थू णये समभिरूढे' (आव० नि० ७५७) इति, तत्रायं नियमविधिदिशधा भिन्नस्य शतभेदसमभि- 10 रूढेकदेशस्य गुणसमभिरूढस्य नामभेदः । - एवञ्च रूपादितत्त्वस्येत्यादि, एष नयो रूपादिमात्रमेव वस्तु, तच्च वस्त्वन्तरं समुदायाख्यं न सङ्क्रामतीत्यतो घटादिसमुदायवस्त्वन्तरसङ्गान्तेरयथार्थत्वदोषाद्वस्तुव्यवस्थाया या गतिस्तां विमुञ्चेदतो वस्तुव्यवस्थागतिविनिर्मुक्तेर्घटादिसमुदायवस्त्वन्तरसङ्क्रान्तिः स्यात् , स[]चोभयावस्तुत्वापादनायं स्यात्-रूपादयः समुदायश्वावस्तुनी स्याताम् , रूपादयः समुदायरूपापत्तेः स्वरूपेऽनवस्थितत्वादवस्तु, रूपादि-15 समुदायो रूपादिवत् स्वरूपेण तस्यानवस्थितत्वादवस्त्वित्युभयावस्तुत्वमापादयेत् सा-वस्त्वन्तरसङ्क्रान्तिरितिइत्थं प्रतिपत्तेः समभिरूढः-एवं मत्वैकीभावेनाभिमुख्येनैक एव रूपादिरर्थ एवेति या या संज्ञा तां तां समभिरूढः, यस्य शतसंख्यस्यापीदमेव लक्षणं-एक्केको य सतविहो० इति शतसंख्यं सप्रभेदमेवम्भूतं व्याप्नोतीत्येतल्लक्षणं तत्साक्षीभूतं तत्संवादिनियुक्तिलक्षणमाह-वत्थूओ संकमणं होति अवत्थू णये समभिरूढे' (आ.नि. ७५७) इति, तत्रायमित्यादि, तत्रैतल्लक्षणं 'वत्थूतो संकमणं होति अवत्थू णये समभिरूढे' इति तस्य शतभेदस्य, 20 सप्तनयशतारनयचक्रे समभिरूढे शतधा भिन्ने कतमः समभिरूढोऽयमिति मग्यमाणे गुणसमभिरूढो नामायं पर्यायसमभिरूढादन्यः, तत्प्रदेश[1]एव वक्ष्यमाणः[7] अयश्च नियमविधिरस्यैव, गुणसमभिरूढस्य पुनरिमे त्वमापादयतीत्याशयं वर्णयति-एष नय इति । रूपादेरवस्तुत्वं निरूपयति-रूपादय इति, वस्त्वन्तरसंक्रान्तेरभ्युपमे रूपादि समुदायरूपमापद्यते, अतः खस्वरूपेऽनवस्थितमित्यवस्तु भवेत्, समुदायोऽपि रूपादिवदेव स्वरूपेऽनवस्थितत्वादवस्तु भवेदित्युभयावस्तुत्वं वस्त्वन्तरसंक्रान्तिरापादयतीति प्रतिपद्यते समभिरूढनय इति भावः । समभिरूढशब्दार्थमाह-एवं मत्वेति, 25 समित्येकीभावे, अभीत्याभिमुख्ये, एकीभावेनाभिमुख्येनैको रूपादिरर्थ एव तां तां घटपटादिसंज्ञामधिरोहतीति समभिरूढ इति भावः। शतभेदः समभिरूढस्तत्र सर्वत्रेदं लक्षणमनुस्यूतमित्याह-यस्य शतसंख्यस्येति । शतसंख्यसमभिरूढत्वे मानमाहएकेको इति। समभिरूढलक्षणमागमोक्तं दर्शयति-वत्थओ इति, लक्षणमिदं शतमेदस्य समभिरूढस्येत्यर्थः। सप्तनयशतारनामा नयचक्रग्रन्थः, तस्मिन् शतधा भिन्ने समभिरूढेऽयं समभिरूढः कतम इति मृग्यमाणे यः पर्यायसमभिरूढादन्यः गुणसमभिरूढस्तस्य विध्यादिद्वादशप्रदेशा वक्ष्यमाणाः, तत्रान्तर्गतो नियमविधिरयमित्याह-सप्तनयशतारेति । गुणसमुदायप्रदेशानाह-30 गुणसमभिरूढस्येति । भावार्थमाह-द्वादशधेति, समभिरूढः द्रव्यपर्याययोर्मध्ये पर्यायाश्रितः, अत एव सः पर्याय सि.क्ष. छा.डे. दनायस्तत्समुदायपश्चादवस्तुनि। २ सि.क्ष.छा. . वत्थूणं। ३ छा. मृग्यमाणो। ४ छा. विधिविधिः २ नियमनियमः १२ इति । M Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy