________________
mom
२०७४
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे प्रयोगादेव नासन्नात्मेति शुद्धपदेन-शब्दान्तरेणोच्यमानत्वाद्रूपादिवदेव तेभ्योऽन्ये इत्येतच्च न, शब्दान्तरवाच्यत्वादेवानन्यत्वात् , तद्यथा[ऽन] न्या[नर] रथाश्वद्विपवतीत्यादि, शब्दान्तरवाच्यत्वानैकान्तिकोद्भावनार्थ तद्वैधापादनार्थमाह पुनरपि-नरादिपृथक्प्रवृत्तेस्तत्र स्यादसत्त्वं-तत्रात्मनि नराश्वादीनां पृथक् समूहात् प्रवृत्तिदर्शनात् तत्समूहादन्यत्रादर्शनात् सेनायाः स्यादसत्त्वम् , आत्मनस्तु नाभून्नाम, रूपापृथग्भा5 वात्तदात्मत्वाञ्च, तत्रोच्यते-एतदपि नोत्तरम् , अनन्यत्र [प्र]वृत्तेरपि समुदायिभ्यः समुदायस्यानर्थान्तरत्वात् , तद्यथा-यथा च शिखरादिभ्य इत्यादि ।
तत्रापि शिखरादिविभागादेव न स्यादिति चेन्न बुद्धिविभागेऽप्यनन्यत्वात् पानकवत् तद्यथा मरिचक्षोद...........
...............पानकम् , एवं ससम्प्रयु. क्तविज्ञानादिधर्मव्यतिरिक्त आत्मा नास्ति, तद्यथा सुखितो दुःखितो रक्तो द्विष्टोऽवाऽस्मीति 10 संव्यवहारसिद्धिर्विज्ञानादेव तथैव पुरुषकर्मफलसम्बन्धादिसंव्यवहारसिद्धिः पञ्चसु स्कन्धेष्वेव
कुतः पुनरात्मग्राहः प्रवर्तते ? अत्रोच्यते 'औदासीन्याच तत्त्वेषु' ( ) पंचस्कन्धतत्त्वविपरीतात्मकल्पनाया विपर्ययज्ञानीभूतत्वात् चित्तस्य सप्तमानान्तर्गताहंमानाकुशलसंस्कारानुशयात् , आत्माऽस्तीत्यहङ्कारः प्रवर्तते ततः पञ्चस्कन्धव्यतिरिक्तः पुरुष इति ।
(तत्रापीति) तत्रापि शिखरादिविभागादेव न स्यादिति चेत्-स्यान्मतं बुद्ध्या विभज्यमानाः 15 शिखरादयः पृथगुपलभ्यन्ते पृथक् च शिखरी, न तद्रूपादिभ्य आत्मेति, तदपि न, बुद्धिविभागेऽप्यनन्यत्वात् पानकवत् , तद्यथा-मरिचक्षोदेत्यादि यावत्पानकमिति दृष्टान्तवर्णनम् , दार्टान्तिकवर्णनन्तु ससम्प्रयुक्तविज्ञानादिधर्मव्यतिरिक्तात्माभावसाधर्म्यात् , तद्यथा सुखितो दुःखित इत्यादि, माधुर्येत्यादिपानकाङ्गद्रव्यगुणविचारोऽर्थान्तरसाधनाय नालमिति दृष्टान्तः, दान्तिकस्तथैव पुरुषेत्यादि, तृष्णाच्छेदादिप्रयोजस्कन्धेभ्योऽनन्यः आत्मा, शब्दान्तरवाच्यत्वात् सेनादिवदिति, यथा हस्त्यश्वरथपदातिभ्योऽनन्या सेना शब्दान्तरवाच्या च तथा 20 आत्मापीति न तेभ्योऽन्य इति भावः । समुदायात् समुदायिनां पृथक् प्रवृत्तिदर्शनात् समुदायोऽन्य इति शब्दान्तरवाच्यत्वस्य व्यभिचारिता, समुदायादन्यत्र सेनायाः प्रवृत्तेरदर्शनात्स्यादसत्त्वम् , आत्मा तु रूपाद्यात्मक एव रूपादिपृथग्भावाभावानासन् स्यादिति वैधापादनमित्याशयेन शङ्कते-शब्दान्तरवाच्यत्वेति । नरादीति, सेनापेक्षया तदवयवनररथादीनां पृथक् खात्मनि प्रवृत्तिदर्शनात् , सेनायाश्च समूहादन्यत्रादर्शनात् सेनाया असत्त्वं स्यान्नाम, आत्मनस्तु न समुदायिभ्यो भेदो रूपादेः पृथग विभागासम्भवेन रूपाद्यात्मकत्वाञ्चेति भावः । समाधत्ते-अनन्यत्रेति, पृथक् प्रवृत्त्यभावेऽपि समुदायसमुदायिनोर्न मेदः, यथा शिखरादिभ्यो विभागासम्भवेन पृथक् प्रवृत्त्यभावेऽपि शिखरिणो नान्यतेति भावः। ननु शिखरमिदं सानुरयं कटकोऽयमित्येवं 20 बुद्ध्या विभागसम्भवेन शिखरादेः शिखरिणश्च पृथगुपलम्भो यथाऽस्ति तथा रूपादिभ्य आत्माऽन्य इति शङ्कते-तत्रापीति । व्याकरोति-स्यान्मतमिति, बुद्ध्या विभज्यमानयोः शिखरादिशिखरिणोः पृथगुपलम्भोऽस्ति, नैवं रूपादिभ्य आत्मा पृथगुपलभ्यते
न्तु रूपादिरेवाऽऽत्मेति नासत्त्वमिति भावः । बुद्ध्या विभागेऽपि शिखरिशिखराद्यो न्यता, येन समुदायादन्यत्रादर्शनाच्छिखरिणोऽसत्त्वं स्यादित्युत्तरयति-बुद्धिविभागेऽपीति । नियमविधिनयेऽस्मिन् रूपादिमात्रमेव परमार्थभूतं वस्तु, तस्य च वस्त्वन्तरेण समुदायेन न सम्बन्धः, एवञ्च सति घटादिरूपो यो वस्त्वन्तररूपः समुदायस्तत्र रूपादिवस्तुसंक्रान्तेरयथार्थत्वं स्यात् , ततश्च 30 वस्तुव्यवस्था न स्यात् , तस्माद्धटादिसमुदायवस्त्वन्तरसंक्रान्तिरभ्युपेया, ततश्च सा वस्त्वन्तरसंक्रान्तिः रूपादेर्वस्त्वन्तरस्य चावस्तु
-, सि. क्ष. छा. डे. °देवमसदात्मेति । २ सि. क्ष. छा. हे. तेभ्योऽन्ये इत्येतरच न। ३ सि. क्ष. छा. रे. पृथगुछिखरीरतद्रूपादिभ्य आत्मनि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org