________________
समुदायरूपताऽऽत्मनः।] द्वादशारनयचक्रम्
१०७३ विरोध इति, किश्चान्यत् कारणकार्यसत्त्वन्याये तु स एवोभयसत्त्ववादोऽवश्यम्भावी, तत्र चोक्तदोषाःअतुल्यविकल्पत्वात् सतोऽन्यदेव तु कार्यमित्याद्युपक्रम्य चक्रकद्वये त एव चावस्थिता इति, एवं तावत्कार्यमेव सदित्यवधारणे दोषः।
अथ सदेव कार्यमित्येवकारात् सदनवधृतेः पूर्वदोष एवेति ।
(अथेति) अथ मा भूवन्नमी दोषा इति सदेव कार्यमित्यवधार्यते, यत एवकारस्ततोऽन्यत्रावधा- 5 रणमिति, सत्त्वेन कार्य नियतं सत्त्वन्त्वनियतम् , कारणस्यापि सत्त्वाभ्युपगमात् , सदनवधृतेः पूर्वदोष एत्र-उभयसत्त्ववाददोष एवेति ।।
यथा च पृथिव्यायेवमात्मापि संवृत्या तत्समुदाये प्रज्ञाप्यते तत्सन्ताने वा, 'राशिवत् सार्थवत् ,' ननु शुद्धपदप्रयोगादेव नासन्नात्मेति रूपादिवदेवाऽन्य इति चेन्न, शब्दान्तरवाच्यत्वादेवानन्यत्वात् , यथाऽनन्या नररथाश्वद्वीपवती शब्दान्तरवाच्या सेनेति, नरादिपृथक्प्रवृ-10 त्तेस्तत्र स्यादसत्त्वम् , आत्मनस्तु नाभूद्रूपापृथग्भावात्तदात्मत्वाच्च, तत्रोच्यते, अनन्यत्र प्रवृत्तेरपि समुदायस्यानर्थान्तरत्वात् , यथा च शिखरादिभ्यः शिखरिणो नार्थान्तरत्वम् ।
(यथा चेति) यथा च पृथिव्यायेवमात्मापि-यथा पृथिवीघटादीनि रूपादिभ्योऽन्यानि न सन्ति तथा रूपवेदनाविज्ञानसंज्ञानसंस्कारेभ्यः स्कन्धेभ्योऽन्य आत्मा नास्ति, किं तर्हि ? संवृत्त्या तत्समुदाये प्रज्ञाप्यते तत्संताने वा, यथा राशिवत् सार्थवदित्यादिदृष्टान्ताः समुदायासत्त्वप्रतिपादनार्थाः रूपादिमात्र- 18 वस्तुत्वप्रतिपादनाः, दृष्टान्तबाहुल्यं चेतसि भावनोत्पादनार्थं दृढीकरणार्थञ्च तदर्थस्य, अत्राह-ननु शुद्धपदस्यात् तदर्थपरिस्पन्दो व्यर्थः स्यात् , तथापि प्रयत्नसाफल्ये पश्चादपि प्रयत्नः स्यात् , पश्चायापाराभाववद्वा प्रागपि व्यापारो न स्यात्तेनानुमीयतेऽसत् कार्यमिति, इदानीं तस्य सत्त्वाभ्युपगमे तेनानुमानेन विरोध इति भावः । आदौ कार्य न दृश्यते पश्चात्तु दृश्यत इति प्रत्यक्षविरोधः सत्त्वाभ्युपगम इत्याह तथा दर्शनादिति । उक्तरीत्या कारणे कार्यसत्त्वन्यायाभ्युपगमे तु कारणकार्योभयसत्त्वपक्ष आपतितः, तत्र च चक्रकद्वयेनोक्ता दोषा इत्याह-कारणे कार्यसत्त्वेति । तदेवं कार्यमेव सदिति पक्षे 20 दोषा उक्ता इत्युपसंहरति-एवं तावदिति । अथ कार्यमेव सदिति पक्षे कार्यमवश्यं सदिति सत्त्वेन कार्यमवध्रियते कार्येण सत्त्वन्तु नावध्रियते कारणस्यापि सत्त्वादित्यभ्युपगमे त एवोभयसत्त्वपक्षदोषा अवस्थिता इत्याह-अथ सदेवेति । व्याचष्टेअथ मा भूवन्निति, तदेवं कार्यस्य सत्त्वपक्षे भङ्गद्वयेन विचारिते दोषाणां प्रसङ्गात् कार्यस्यासत्त्वमेव सिद्ध्यतीति भावः । यथा च शब्दस्पर्शरूपरसगन्धखरूपतत्त्वा एव पृथिव्यादयः, शब्दादीनामेवेयं पृथिवीमा आप इदं तेजोऽयं वायुरयमाकाश इति समुदायवचनमभिवचनमात्रमेवमात्माऽपीत्याह-यथा चेति । ननु यदस्ति तत्सर्वप्रमाणेभ्य उपलभ्यते यथा रूपादि, 25 अयमात्मा तु न तावत्प्रत्यक्षादित उपलभ्यते शब्दस्पर्शाधनात्मकत्वात् , न मानसेन त्रिगुणादिरहितस्य तदविषयत्वात् , . प्रत्यक्षाभावे इतरप्रमाणाप्रवृत्तस्तस्मान्न पञ्चस्कन्धातिरिक्त आत्माऽस्ति, किन्तु पृथिव्यादिघटादिवत् संवृत्त्या समुदाये सन्ताने वा परिकल्प्यत इति व्याचष्टे-यथा पृथिवीघटादीनीति । पञ्चस्कन्धानाह-रूपवेदनेति । क आत्मेत्यत्राह-संवृत्येति, रूपादिसमुदाये रूपादिसन्ताने वा संवृत्या पृथिव्यादि आत्मादि च प्रज्ञाप्यत इत्यर्थः । निदर्शनान्याह-यथा राशिवदिति, व्रीह्यादिसमुदाये व्रीहिराशेः प्रज्ञप्तिवदिति भावः। भावमाह-समुदायासत्त्वेति। अनेकदृष्टान्तप्रदर्शनफलमाह-80 दृष्टान्तेति । नन्वात्मेति शुद्धपदप्रयोगात् नासन् आत्मा, किन्तु रूपादिदत्य एव, शुद्धपदत्वं नामावयववाचकशब्दादन्यशब्देन वाच्यत्वमित्याशङ्कते-ननु शुद्धपदेति । शब्दान्तरवाच्यत्वमनन्यत्वमेव साधयतीत्याह-शब्दान्तरेति, पञ्च.
.सि. क्ष. छा. डे. कारणं कार्यसत्त्वन्यायोऽस्तु। २ सि. क्ष. डे. छा. °मात्स्वापि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org