________________
wimmmm
१०७२
न्यायागमानुसारिणीव्याख्यासमेतम् नियमविधिनयारे. कार्यमेव सत् सदेव कार्यमिति वा, तत्र कार्यमेव सदिति कार्यसमीप एवकारः क्रियते, यत एवकारस्ततोऽन्यत्रावधारणमिति कार्य सदेवेत्यवधार्यमाणे कार्यस्य सत्त्वेन नियमात्-सत्त्वस्य कार्येण[अ]नियमात् कारणेऽपि सत्त्वमिति पूर्वविचारितोभयसत्त्वपक्ष एवाऽऽपततीत्यवधारणवैफल्यं स्यात् , तच्चानिष्टम् , तस्मादेवकारप्रयत्नसाफल्यात् कार्यशब्दार्थादन्यत्र सच्छब्दार्थे न तत्प्रतियोगिनि नियमः कार्य सदेवेति, तद्दर्शयतिसत्त्वं कार्य एव नियतं नान्यत्सदिति, ततः किं' ? ततश्च रूपादि न सदिति ते प्रसक्तम् , तस्य-रूपादेः प्रत्यक्षमुपलभ्यमानस्यासत्त्वे कार्यस्यासतः प्रत्यक्षाद्यनुपलभ्यमानस्य सत्त्वे विपरीता स्वमनीषिकया संज्ञा क्रियते सतोऽसदित्यसतश्च सदिति, सङ्गत्याऽग्निमङ्गलनामवत्, पश्चिमापश्चिमत्ववत् । यदपि च कार्यसत्त्वं खरविषाणादीनां सदिति नामेति नामवन्नाममात्रमेव, नार्थ प्रति ।
किञ्च10 कार्यासत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधाः, कारणे कार्यसत्त्वन्याये तु स एवोभयसत्त्ववादः, तत्र चोक्ता दोषाः ।
(कार्यति) कार्यासत्त्वनिवृत्त्येकान्तत्यागाच्च-अभ्युपगतस्यैकान्तेन सत्कार्यमित्यस्य च त्यागः, न हि कार्यमसदपि केनचित्प्रकारेणेष्यते त्वयेत्यभ्युपगमविरोधवत् स्ववचनादिविरोधाः, यदि कार्य [असत् ] कथं
सक्रियते इति हि [स]कार्यमथ सत् कथं कार्यमिति स्ववचनविरोधः, लोके कार्यासत्त्वं मत्वा तत्सिद्ध्य15 [र्थ]प्रयत्नदर्शनात्, रूढेर्लोकविरोधः, कुम्भकारादिचेतन[[ss]दानादनुमानविरोधः, तथा दर्शनात् प्रत्यक्ष
गतिद्वयं भवेदन पक्ष इति भावः । कार्यमेव सदिति गतिं निराकरोति-तत्र कार्यमेवेति, यत एवकारः श्रूयते ततोऽन्यत्रावधारणमिति न्यायेन कार्यसमीपे श्रूयमाण एवकारः सत्त्वेन नियमयति कार्यम् , सत्त्वव्याप्यं कार्यमिति, न तु कार्यत्वव्याप्यं सत्त्वमिति सत्त्वस्य कार्यत्वेन न नियमः क्रियते, तथा च सत्त्वस्य कार्यादन्यत्र प्राप्तेरवारणात् कारणेऽपि सत्त्वमापतितमिति कार्यकारणोभयसत्त्वपक्ष एव पुनः प्राप्यते, तथा च कार्यमेव सदित्यवधारणस्य निष्फलता समायातेति भावः। एवकारप्रयत्न 20 सफलयितुं प्रकारान्तरेण नियमं दर्शयति-तस्मादेवकारेति, कार्यशब्देन समभिव्याहृत एवकारः कार्यादन्यत्र-कार्यप्रतियोगिनि कारणे सच्छब्दार्थ नियमयति-व्यावर्त्तयति । तद्भावार्थमाह-सत्त्वं कार्य एव नियतमिति, सत्त्वं कार्य न व्यभिचरतीत्यर्थः, तेन च कार्यादन्यस्मात् सत्त्वं व्यावर्तितं भवति नान्यत् सदिति, एवञ्च कार्यादन्यत् कारणं रूपादि तेऽसदिति प्राप्तमिति भावः । तत्र दोषमाह-ततश्चेति, तथासति कारणस्य रूपादेरसत्त्वं प्रसज्यते, प्रत्यक्षत उपलभ्यमानस्य तस्य रूपादेर
सत्त्वे प्रत्यक्षानुपलभ्यस्यासतः कार्यस्य सत्त्वे स्वमनीषिकयैव सतोऽसदित्यसतश्च सदिति विपरीता संज्ञा अग्नेमङ्गलनामवत् क्रियते 25 पश्चिमस्यापश्चिमसंज्ञावदिति भावः । यदपि चेति, कार्यसत्त्वमिति नाम खरविषाणादेः सदिति नामवदेव, नार्थे कश्चन विशेष
इति भावः । यदा चासतः कार्यस्य सदिति संज्ञा क्रियते तदा कार्यमेकान्तेन सदिति तवाभ्युपगमस्त्यक्तः स्यात्तथा च स्ववचनादि'विरोधाः स्युरित्याह-कार्यासत्वेति। व्याचष्टे-अभ्युपगतस्येति, त्वया केनचिदपि प्रकारेण कार्यमसदपीति नेष्यते तत्त्यागादभ्युपगमविरोधः, तथैव खवचनादिविरोधाश्चेति भावः । स्ववचनादिविरोधानेवाह-यदि कार्यमिति, यदि कार्यमसत्, तर्हि
तत् कथं सद्रूपेण क्रियते, असतः सद्रूपताकरणासम्भवात् , अन्यथाऽसतः खर विषाणादेः सद्रूपतया करणं स्यात् , तस्मात् कार्य 30 सदेषितव्यम्, अथ सत्तत् तर्हि कथं कार्यम् , कार्यसच्छब्दयोर्विरोधात् , कार्यशब्दः प्रागभूतस्यार्थस्य भावक्रममाह, सच्छब्दस्तु,
क्रियान्तरहेतुत्वमाह तदेवं परस्परविरोधात् खवचनविरोधः । उत्पत्तेः प्राक् कार्यमसदिति मत्वैव लोके तत्सिद्ध्यर्थ प्रयत्नदर्शना"दीदृशादेव रूढेर्लोकविरोध इत्याह-लोक इति । कुम्भकारादीति, कुम्भकारप्रभृतिचेतनैरादानात्-ग्रहणादित्यर्थः, व्यापारारम्भात् प्राक् कर्तारस्तस्मात् फलाकांक्षिणः कार्यविशेषनियतसामर्थ्य साधनव्यापार विदधते, तच्चेत् व्यापारात् प्रागपि कार्य सत
सि.स.के. छा. ततः किमतता । २ सि.क्ष.छा.मे. संप्रत्यक्ष रूप । सि.क्ष. डे.डा. संगीस्थानि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org