________________
सदसत्पशंदोषाः] द्वादशारनयचक्रम्
१०७१ पीति रूपादिसमुदायस्यावस्तुतेत्थमुक्ता, रूपाद्येव त्वित्यादि, यत्किञ्चिदिति सामान्यवचनात् विशिष्य पक्षीक्रियते-रूपमेव प्रत्यक्षं स्वत एवाविर्भवितृत्वात् , इतरवदिति सामान्यवचनाद्रसवदिति विशिष्य दृष्टान्तः, एवश्च शेषाणामपि रसादीनां विशिष्य प्रत्यक्षत्वमितरदृष्टान्तसाध्यत्वादविरुद्धम् , प्रत्यक्षपूर्वकत्वादनुमानत्वाद्यविरोधः, तस्मात् प्रत्यक्षत्वाद्यविरोधात्तदेव भवति-रूपाद्येव वस्त्विति सिद्धम् ।।
____ अथैवंदोषवदित्युभयसत्त्वपक्षं त्यक्त्वा कार्यासत्त्वाभ्युपगमपरिहारेण कार्यसत्त्वपक्षमे- 5 वाश्रयेः, ततः कार्यमेव सदित्यवधार्यमाणः पक्षः स्यात् , तत्र कार्यमेव सदिति कार्यसमीपे एवकारः क्रियते 'यत एवकारस्ततोऽन्यत्रावधारणात्' कार्यस्य सत्त्वेन नियमात् कार्य एव सत्त्वं नियतं नान्यत् सदिति नियम्यते ततश्च रूपादि न सदिति ते प्रसक्तम् , तस्यासत्त्वे कार्यस्यासतः सत्त्वे विपरीता संज्ञा क्रियते सतोऽसदित्यसतश्च सदित्यग्निमङ्गलनामवत्, कार्यसत्त्वमिति च नाममात्रमेव ।
(अथैवमिति ) अथैवंदोषवदित्युभयसत्त्वपक्षमुक्तदोषभयात्त्यक्त्वाऽन्यतरं सत् कारणं रूपादि, कार्य वाऽऽकाशादीतीष्यमाणे कार्यासद्वादिनो मे प्रातिपक्ष्येण कार्यासत्त्वाभ्युपगमे वादावसानं मा भूदिति कार्यासत्त्वाभ्युपगमपरिहारेण कारणसत्त्वपक्षं त्यक्त्वा कार्यसत्त्वपक्षमेकमेवाऽऽश्रयेस्त्वं ततः कार्यमेव सदित्यवधार्यमाणः पक्षः स्यात् तन्मतं, यः पुनर्वादी कार्यमेव सन्न कारणमिति प्रतिपद्यते, यस्य सिद्धान्ते रूपादयो न स्युराकाशादय एव स्युरिति, अत्रोच्यते, तस्यैवोभयसद्वादिनः सांख्यस्य कारणे कार्यसत्त्वसिद्धान्ता- 18 द्भवेदयं पक्षः, कारणाविनाभावित्वात् कार्यस्य कार्याभ्युपगमेऽभ्युपगतमेव कारणम् , किन्तु न नियम्यते कारणमसदेव सदेव]वेति, यदि स्यादस्तु को वारयति कार्यन्तु सत्त्वेन नियम्यते, तत्रापि च द्वयी गतिः
10
प्रत्यक्षता कस्येत्यत्राह-रूपायेव त्विति । रूपाद्येव तु यत्किञ्चित् प्रत्यक्षम् , स्वत एवाविर्भवितृत्वादितरवदिति मूलेन यत्किञ्चिदितरवदिति सामान्येनोक्तं विशिष्य दर्शयति-यत्किञ्चिदितीति, न च रूपरसगन्धस्पर्शशब्दाः प्रत्यक्षा इति वाच्यम् , प्रतिबन्ध-: बोधकदृष्टान्ताभावात् , किन्तु यत्किञ्चित् प्रत्यक्षमिति वाच्यम् , यदा यत्किञ्चित् पदेन रूपं विवक्षितं तदेतरवदित्यनेन रसादिवदिति 20 निर्देश्यम् , यदा तु रसो विवक्षितस्तदा रूपादिवदिति निद्देश्यमेवं गन्धादावपि भाव्यम् , हेतुश्च स्वत एवाविर्भवितृत्वात् , न तु पृथिव्यादेरिव पररूपाद्यपेक्षयाऽविर्भवितृत्वादिति भावः। एवञ्च रूपादीनां प्रत्यक्षत्वविरोधः सिद्धोऽत एवानुमानाद्यविरोधोऽपि सिद्ध्यति प्रत्य. क्षपूर्वकत्वादनुमानादेस्तस्माद्रूपायेव भवति वस्तु, न पृथिव्यादि, प्रमाणाविषयत्वादिति सिद्धमित्याह-एवञ्चेति । एवं कार्यकारणयोरुभयोः सत्त्वपक्षे प्रोक्तदोषप्रसङ्गभयात्तत्पक्षं परित्यज्य कार्यमेव सदिति पक्षो यदि परिगृह्यते तत्र दोषोदीरणाय तमेव पक्षमुत्थाप. यति-अथैवमिति । उभयसत्त्वमेवंदोषवदिति तत्पक्षे परित्यक्तेऽन्यतरसत्त्वपक्षः प्राप्नोति कारणमेव सत् , कार्यमेव वा सदिति, तत्र कार्यासत्त्वपक्षः कारणमेव सदित्येवंरूपो न त्वया परिग्रहीतुं शक्यः, तत्पक्षस्य मदिष्टत्वेन त्वयापि तस्मिन् परिगृहीते वादाभावात् , तद्वादावसानं मा भूदिति तत्पक्षं परित्यज्य तत्प्रतिपक्षभूतः कार्यमेव सदिति पक्षः कारणसत्त्वव्यावतको यदि परिगृह्यते तदापि दोषं वक्तुं पक्षं ग्राहयति-अथैवंदोषवदितीति । तदभिमतपक्षप्रदर्शनपूर्वकं तत्पक्षभावार्थमाह-ततः कार्यमेव सदितीति । कस्यायं पक्षः, यदि सांख्यस्य, तत्कथमित्यत्राह-तस्यैवेति, अयं पक्षः सांख्यस्यैव कारणे कार्यसत्त्वाभ्युपगन्नुभवेदिति भावः। तहि कार्यस्यैव सत्त्वनियमः कथमित्यत्राह-कारणाविनाभावित्वादिति, कारणं विना कार्य न भवति, येन च कार्यमभ्युपगम्यते तेन चावश्यं कारणमभ्युपगमनीयमेव, तस्मात् कारणं न सत् कार्य सदिति न कस्यापि सम्मतमः, किन्तु कारणमसदेवेति न नियम्यते कार्यमेव च सदिति तु नियम्यते, कारणं सद्वाऽसद्वेत्यत्र नाग्रहो यदि स्यात् कारणमस्तु नाम इति भावः । भन्न पक्षे विचारार्थ विकल्पयति-तत्रापि चेति, कार्य सत्वेम नियम्यत इति पक्षे चेत्यर्थः, कार्यमेव सत्, सदेव कार्यमिति
द्वा.न.१.(१३५) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org