________________
१०७०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे रसोऽपि रूपरूपं तथा स्पर्शशब्दगन्धाः परस्पररूपम् , किन्तु स्वेनैव रूपेणाविर्भवन्ति तथाऽऽकाशादिकार्यमपि स्वरूपेणैवाविर्भवेत् , पररूपेण त्वेकाद्युत्तरकार्याण्याविर्भवन्तीत्यनिष्टस्तुल्याविर्भावस्ते प्राप्तः, सत्त्वाद्रूपादिवदित्येवं प्रादुर्भाववैलक्षण्यादतुल्यविकल्पत्वमापादितं सङ्ग्यो रूपादिभ्यः कार्यस्य ।
। तदनिच्छतः प्रादुर्भावाविशेषप्रसङ्गपर्यवसानं चक्रकं तत्रैव प्रसङ्गे स्थितं सत्त्वाद्रूपादिव6 दित्युत्थाप्य सत्त्वाद्रूपादिवदित्येवं विपर्ययेण गमनीयम् , तस्मात् सतोऽन्यस्वभावमेव कार्यम् ,
एवन्तु रूपादिप्रतिनियतचक्षुराद्यविषयत्वात् पृथिव्यादयो न प्रत्यक्षाः, अनाविर्भाव्यत्वात् खपुष्पवत् , रूपायेव तु यत्किञ्चित् प्रत्यक्षं स्वत एवाविभवितृत्वात् , इतरवदिति प्रत्यक्षत्वाद्यविरोधात्तदेव भवतीति ।
(तदनिच्छत इति) तदनिच्छतः प्रादुर्भावाविशेषप्रसङ्गपर्यवसानं चक्रकं तत्रैव प्रसङ्गे स्थितं 10 सत्त्वाद्रूपादिवदित्युत्थाप्य सत्त्वाद्रूपादिवदित्येवं-पुनरिदानी भूम्यादिप्रादुर्भावतुल्यरूपादिप्रादुर्भावकार्यासत्त्वं
यावत् स्थितं तथैव भूम्यादिकार्यासत्त्वं सद्वैलक्षण्यादस्वरूपोत्पत्तेरुत्थाप्य तत्पर्यवसानमेव चक्रकं तद्विपर्ययेण यावद्भूम्यादिवदिति गमनीयम् , तस्मादतुल्यविकल्पत्वात् सतोऽन्यस्वभावमेव कार्यमिति उपसंहारार्थः, किश्चान्यत्-एवन्त्वित्यादि, रूपादिषु विषयेषु चक्षुरादीनां प्रतिनियतं ग्रहणम् , चक्षुषा रूपमेव जिह्वया रसमेवेत्यादिग्रहणं व्यक्तिराविर्भावः स न स्यात् , चक्षुराद्यविषयत्वात् , रूपादय एव हि प्रत्यर्थं नियताश्च15 क्षुरादीनां विषयाः, पृथिव्यादयस्तु न प्रतिविविक्तरूपादिस्वतत्त्वा इत्यनाविर्भाव्याः, तस्मादनाविर्भाव्यत्वात् न प्रत्यक्षव्यक्तयः पृथिव्यादयः, प्रतिनियतचक्षुराद्यविषयत्वात् खपुष्पवत् , आदिग्रहणादनुमानाद्यविषयता
स्यैतदसत्त्वदोषपरिहाराय सत्त्वमेव यद्यभ्युपगम्यते तर्हि खत एव तस्य प्रादुर्भावो भवेत् , न तु पररूपाद्यपेक्षया प्रादुर्भावः, रूपादेरिवेत्याशयेनाह-अथ मा भूदिति । दृष्टान्तं घटयति-यथा रूपमिति, रूपं रसादिस्वरूपमनादृत्य रसादिरपि रूपस्वरूप
मनाहत्य खेनैव रूपेणाविर्भवति तथाऽऽकाशादिकार्यमपि परभूतं शब्दादिस्वरूपमनादाय स्खेनैव रूपेण भवेत् , न चैवम् , एकोत्तर20 रूपादिपररूपेणाविर्भावस्येष्टत्वादिति भावः । अनेन ग्रन्थेन कार्यस्य रूपादिभ्योऽतुल्यविकल्पत्वं प्रादुर्भाववैलक्षण्यादापादितमित्याह
सत्त्वाद्र्पादिवदितीति । एवं प्रादुर्भावाविशेषप्रसङ्ग आपादित इति भावः । स्वत एव प्रादुर्भावानभ्युपगमे तूक्तचक्रकमेव पुनः पुनः प्राप्नोतीत्यतिदिशति-तदनिच्छत इति । उक्तचक्रकमेव विपर्ययेणात्र भाव्यमिति दिशा दर्शयति-पुनरिदानीमिति, एवञ्च कार्यस्य रूपादिभ्योऽतुल्यविकल्पत्वात् सतोऽन्यत्वमेवेति सिद्धमिति चक्रकसारार्थः । दोषान्तरमाह-एवन्त्वित्यादीति,
पृथिव्यादीनां रूपाद्यनात्मकत्वे प्रतिनियतचक्षुराद्यविषयत्वादप्रत्यक्षत्वमेव, चक्षुरादयो हि प्रतिनियतविषयग्राहकाः, चक्षु रूपमेव 23 गृह्णाति, जिह्वा रसमेव, घ्राणं गन्धमेव, त्वक् स्पर्शमेव, श्रोत्रं शब्दमेवेति प्रतिनियतविषयग्राहकाणीन्द्रियाणि, रूपादीनामेव च
चक्षुरादिना ग्रहणात् पृथिव्यादीनां प्रतिविविक्तरूपादिस्वतत्त्वानात्मकानां ग्रहणं व्यक्तिराविर्भावो न स्यात्, ततश्चानाविर्भाव्यत्वान प्रत्यक्षाः पृथिव्यादयः, अनुमानाद्यविषया अपि, प्रत्यक्षगृहीतप्रतिबन्धासम्बन्धित्वादिति भावः । इदमेव समर्थयति-रूपादिविति, रूपादीनां मध्ये चक्षुरादयः प्रतिनियतमेव गृह्णन्ति आविर्भावयन्ति, रूपादयः प्रतिनियतचक्षुरादिविषयाः, पृथिव्यादयस्तु
न प्रतिविविक्तरूपादिखतत्त्वाः, अतश्चक्षुरादिना न ग्राह्या आविर्भाव्या वा, अनाविर्भाव्यत्वाच्च ते न चक्षुरादिना प्रत्यक्षाः, प्रति30 नियतचक्षुराद्यविषयत्वात् , खपुष्पवदिति भावः । एवं प्रत्यक्षाविषयत्वेऽनुमानाविषयत्वात् प्रमाणाविषयतया रूपादिसमुदायविशेषस्य
पृथिव्यादेरवस्तुत्वमेवेत्याह-आदिग्रहणादिति, प्रतिनियतचक्षुराद्यविषयत्वादित्यत्रादिपदेनेत्यर्थः । पृथिव्यादीनामप्रत्यक्षत्वे ।
१ छा. त्वेकायुत्कार्याणाविर्भवतीतीष्टः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org