________________
रूपादिभूम्यादेवैलक्षण्यम् ]
एतत्प्रसङ्गभयात्
अथ वैषम्य रहितविविक्तस्वरूपरूपादिप्रादुर्भाववन्न भूम्यादिप्रादुर्भावः तच्च कार्य सदेवेति निश्चितं ततः कार्यमेव सदस्तु, रूपाद्यसत् स्यात् सद्विलक्षणत्वात् खपुष्पवत्, स्वरू पतत्त्वेन भूतत्वाद्रूपादेः पररूपतत्त्वाविर्भाविनः सतः कार्याद्विलक्षणत्वात्, अथेदमपि सत् स्वतत्त्वप्रादुर्भावात्मकञ्चेष्यते ततस्तद्वैलक्षण्यात् कार्यमसत् प्राप्नोति, अस्वतत्त्वाविर्भावात्मकत्वात्, अलातचक्रवत्, अथ मा भूद्दोष इति सदेव कार्यमिष्यते ततः स्वत एव प्रादुर्भवेत्, सत्त्वाद्रूपादिवदिति तुल्याविर्भावस्ते प्राप्तः ।
wwwwwwwm
ww
( अथेति ) अथ न भूम्यादीति, एकोत्तररूपादिपररूपोत्कर्षापकर्षवैषम्य र हितविविक्तस्वरूपरूपादिप्रादुर्भाववद्भूम्यादिप्रादुर्भावो वैलक्षण्यादतुल्यविकल्पतेतीष्यते तच्च कार्यं सदेवेति निश्चितं ततः कार्यमेव सदस्तु, न रूपादि, स्वपररूपप्रादुर्भाववैलक्षण्यादनयोरसतः सद्विलक्षणत्वाद्रूपाद्यसत् स्यात् सद्विलक्षणत्वात् खपुष्पवत्, सद्विलक्षणत्वं हेतोर्दर्शयति - स्वरूपतत्त्वेन भूतत्वात् रूपादेः पररूपतत्त्वाविर्भाविन: 10 सतः कार्याद्विलक्षणत्वादिति, अथेद्मपीत्यादि - रूपादिस्वतत्त्वप्रादुर्भाववैलक्षण्येऽपि रूपादि सत् स्वतत्वप्रादुर्भावात्मकश्चेष्यते ततस्तद्वैलक्षण्यात् कार्यमसत्प्राप्नोति अस्तत्त्वाविर्भावात्मकत्वात् - एकोत्तररूपादिपररूपतत्त्वोत्पत्तिर स्वतत्त्वाविर्भावः तच सद्वैलक्षण्यं कस्येवेत्यत आह-अलातचक्रवदिति - यथोल्मुकं भ्राम्यमाणं कणमात्रस्वतत्त्वत्यागेन चक्राभासमुत्पद्यमान[म] सदेवं कार्यमपीति, अथ मा भूद् दोष इति देव कार्यमिष्यते, ततः सत्त्वे स्वत एव प्रादुर्भवेत् कार्यम्, यथारूपं सदसरूपमनादाय प्रादुर्भवति 15
wwwwwwww
www
द्वादशारनयचक्रम्
Jain Education International 2010_04
७
काशादिप्रादुर्भावो नेष्यते कार्यमपि च सदेव निश्चितमिति असत्प्रसङ्गदोषभयादुच्यत इत्याशङ्कते - अथ नेति । अथ वैषम्येति, रूपादेः प्रादुर्भावो यथा न तथा भूम्यादिप्रादुर्भावः, रूपादिर्हि एकोत्तररूपादिवैषम्यरहितः, पररूपोत्कर्षापकर्षरहितश्च विविक्तखरूपश्चापि, भूम्यादयस्तु एकोत्तररूपादिवैषम्यवन्तः, पृथ्वी पञ्चगुणा, आपश्चतुर्गुणाः, त्रिगुणं तेजः, द्विगुणो वायुः, एकगुण आकाश इत्यभ्युपगमात्, तन्मात्रेषु परेषु यौ रूप देरुत्कर्षापकर्षो तद्रूपवैषम्यवन्तो भूम्यादयः, पृथिव्या अनुष्णाशीतस्पर्शः कृष्णं रूपं साधारणो रसः गन्धश्व, अपां शीतः स्पर्शः शुक्लभास्वरं रूपं मधुरो रसः, तेजस उष्णः स्पर्शः शुक्लभास्वरं रूपम्, 20 वायोश्चाशीतः स्पर्शः, शब्दमात्रगुणमाकाशमित्येवं रूपादेरुत्कर्षापकर्षों, एतौ च तदवयवानुप्रवेशाद्भवत इत्यवयवरूपादिना रूपादिमन्तो भूम्यादयः, अत एव रूपादयो न भूम्यादिखतत्त्वा इति भूम्यादिप्रादुर्भावो रूप | दिप्रादुर्भावविलक्षणः, तस्मात् रूपादितुल्यता न भूम्यादेः एवमपि खपुष्पवदसत्त्वं कार्यस्य नाभ्युपगच्छामः, किन्तु सत्त्वमेवेति निश्चितमिति भावः । तथा सति कारणं रूपादि सन्न स्यात्, सद्विलक्षणत्वात्, खपुष्पवदिति दूषयति - ततः कार्यमेवेति, यद्येवमनयोवलक्षण्यं कार्यश्च सदिष्यते तर्हि कार्यमेव सत् स्यान्न तु कारणमिति भावः । कीदृशं वैलक्षण्यमनयोरित्यत्राह - स्वपरेति, रूपादिप्रादुर्भावः स्वरूपप्रादुर्भावः भूम्यादिप्रादुर्भावः 26 पररूपप्रादुर्भाव इति वैलक्षण्यमिति भावः । एवं वैलक्षण्ये सत्स्वरूपतायामपि वैलक्षण्यं स्यात्, कार्यञ्च सदिष्यते, तस्मात् सत्त्वविलक्षणमसत्त्वं रूपादीनां स्यादित्याह - असत इति । कथं सद्विलक्षणत्वमित्यत्राह - स्वरूपतत्त्वेनेति । यदि च रूपादेः स्वरूपतत्त्वेनाविर्भूतत्वलक्षणवैलक्षण्ये सत्यपि रूपादि सदेव स्वतत्त्वप्रादुर्भावात्मकञ्चेतीष्यते तर्हि तद्विलक्षणं कार्यं कथं सत् स्यादित्याह - अथेदमपीत्यादीति । हेतुमाह - अस्वतत्त्वेति, पररूपतत्त्वेन कार्यस्य भूम्यादेराविर्भावः - अस्वतत्त्वाविर्भावः, तदात्मकत्वात् तेषां, अस्वतत्त्वविर्भावश्च सद्विलक्षण इति भावः । निदर्शनमाह-अलातचक्रवदितीति । घटयति-यथोल्मुकमिति । कार्य - 30 १ सि.क्ष. छा. डे. 'रूपामादु० । २ सि. क्ष. छा. डे. अथतत्त्वा० ।
For Private & Personal Use Only
१०६९
www.jainelibrary.org