________________
२०६८
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमविधिनयारे तद्यदि तावदुभयसत्त्वं सत्त्वाविशेषात् कार्यकारणयोरविशेषः, सति चाविशेषे यथा स्वरूपतत्त्वा एव शब्दादय उत्पद्यन्तेऽभिव्यज्यन्ते वा तथाऽऽकाशादयोऽप्युत्पधेरन् सत्त्वाविशेषात् , रूपादिवत्, शब्दस्पर्शायेकोत्तरपरतत्त्वोत्पत्तिो भूत् , इष्यते चासौ, तस्मात्तदतुल्यविकल्पता सिद्धा ततस्ततोऽन्यस्वभावं कार्यम् ।
(यदेतदिति) यदेतत् सन्नाम ततोऽन्यदेव तु कार्यम् , सद्व्यतिरिक्तस्वभावं-सत् स्वभावं न भवतीत्यर्थः, [ तदतुल्यविकल्पत्वात् ] किमिव ? रूपादिखपुष्पवत्-यथा रूपादयः सन्तः खपुष्पमसत् , ततस्तैस्तुल्यविकल्पं न भवति तथा कारणैः सद्भिः रूपादिभिः कार्यमाकाशादि तुल्यविकल्पं न भवति, तस्मात् खपुष्पवत् सतस्ततोऽन्यस्वभावमिति, एतस्य साधनस्यासिद्धपक्षधर्मशङ्कानिराकरणार्थं व्याख्यापयितुकामः स्वयमेव पृच्छति परोक्त्या व्याख्यापयितुम् कथमतुल्यविकल्प इति, चतुर्यु भङ्गेषु द्वौ भङ्गावुपयोज्याविति 10 तदेवोपन्यस्यति-इह शब्दादीनामित्यादि, इह शब्दादयः कारणानि वियदादयः कार्याणि तेषामुभयेषामपि
सत्त्वमित्येको विकल्पः, द्वितीयः कार्याण्याकाशादीन्येव सन्तीति, न कारणसत्त्वकार्यासत्त्वविकल्पो नोभयासत्त्वविकल्पो वा, कस्मात् ? उक्ताभ्यामितरयोरभ्युपगतस्य सत्कार्यवादस्य प्रतिपक्षत्वादेसपक्षत्वमेवातो वादाभावादेतौ द्वावेवोपयोज्यौ, तत्रापि तद्यदि तावदुभयसत्त्वं प्रथमविकल्प इष्टः सत्त्वाविशेषात् कारणानां
शब्दादीनां कार्याणाञ्चाकाशादीनामविशेषः, सति चाविशेषे यथा स्वरूपतत्त्वा एव-शब्दस्पर्शरूपरसगन्ध15 तत्त्वा एव शब्दादय उत्पद्यन्तेऽभिव्यज्यन्ते वा तथाऽऽकाशादयोऽपि तत्स्वभावा एवोत्पधेरैन् नाधिकख६भावाः, कस्मात् ? सत्त्वाविशेषात् , रूपादिवत् , शब्दस्पर्शायेकोत्तरपरतत्त्वोत्पत्तिर्मा भूत् , इष्यते चासौ,
तस्मात्तदतुल्यविकल्पता सिद्धा, ततस्ततोऽन्यस्वभावं कार्यमाकाशाद्यसदित्यर्थः । प्रक्रियावशाद्भिन्नत्वं साधयति-यदेतदिति । कार्यस्यासत्त्वं साधयति-यदेतत् सन्नामेति, यदेतत्कार्यमुच्यते घटपटादि तत्
सद्यतिरिक्तस्वभावं भवति सत्स्वभावं न भवति यथा रूपादयः सद्रूपाः सत्स्वभावाः गगनकुसुमादयस्तु असद्रूपाः असत्स्वभावाः, 10 तस्मात् सतो रूपादेरतुल्यमाकाशकुसुमादि, तथैव सद्रुपैः कारणैः कार्यमाकाशादि न तुल्यमतः खपुष्पवत् सतोऽन्यखभावमिति
भावः । तदतुल्यविकल्पत्वं न पक्षधर्मः कार्ये तदसिद्धरित्याशङ्कां निवारयितुं परोक्त्यैव सत् ख्यापयितुं पृच्छतीत्याह-एतस्य साधनस्येति । तदतुल्यविकल्पत्वसाधनस्येत्यर्थः । कारणकार्ययोः सत्त्वं कारणस्यैव सत्त्वं कार्यस्यैव सत्त्वं कार्यकारणयोरुभयोरसत्त्वमिति चतुर्विधेषु भङ्गेषु अभिमतानभिमतविकल्पविवेकमादर्शयति-चतुविति । अनिष्टभङ्गावाह-नेति, कारणं सत् कार्यमसत्,
कारणमसत् , कार्यमसदिति भङ्गो नेष्टावित्यर्थः । कारणमाह-उक्ताभ्यामिति, कार्यकारणयोरसत्त्वं, कार्यस्यैव सत्त्वमित्युक्ताभ्या96 मन्ययोर्विकल्पयोरभ्युपगतसत्कार्यवादप्रतिपक्षत्वादसपक्षत्वमतो न तत्र वादः, उक्तविकल्पयोरेव विवादात् तावेवोपयुक्ताविति भावः।
उक्तभङ्गयोरुभयसत्त्वभङ्गमाश्रित्य विचारयति-तद्यदि तावदिति । तत्र कारणकार्ययोरुभयोर्यदि सत्त्वमिष्टं तर्हि सत्त्वाविशेषाणां शब्दादीनामाकाशादीनाञ्च विशेषो न स्यात्, इष्यते च विशेषः, कारणावस्थायां शब्दादय आविर्भूता आकाशादयोऽनाविभूताः, शब्दादयो निगुणा आकाशादय एकद्वित्र्यादिगुणा इत्यादि, अविशेषे तु शब्दादयो यथा स्वरूपतत्त्वा एवोत्पद्यन्तेऽभिव्यज्यन्ते वा तथाऽकाशादयोऽपि तथा स्वभावा एवोत्पद्येरन , अभिव्यज्येरन् वा, न त्वेकद्वित्र्यादिगुणस्वभावेन, सत्त्वाविशेषात् , इष्यते च विशेषः, 30 तस्माच्छब्दादित आकाशादेरतुल्यविकल्पता सिद्धेति भावः । अविशेषाभ्युपगमे दोषमाह-सति चाविशेष इति । एवञ्च कारणाच्छब्दादेः कार्यस्याकाशादेरतुल्यत्वादतत्स्वभावत्वेनासत्त्वं सिद्धमित्याह-ततस्तत इति । नन्वविशेषे सत्यपि रूपादिप्रादुर्भाववदा
सि.क्ष. छा. डे. व्याख्यानमाप्तुकामः । २ सि.क्ष. छा. डे. त्वान्मतपक्षत्व० । ३ सि. क्ष. छा डे. तत्स्वतत्वा एवोभ्यदोरतो.।
wnwr
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org