________________
mmmmmmm
wimmonanewwwwwanimanawmom
wwwwwwanamam
wwwwwww
कार्यासत्त्वसाधनम्] द्वादशारनयचक्रम् .
१०६७ सम् शब्दार्थमात्रमेव, परिकल्पमात्रार्थत्वात् शब्दस्य, किमिव ? संसारानुबन्धवत्-यथा संसारस्यानुबन्धहेतुर्माता मे पिता मे भ्राता भार्या पुत्र इत्यादिरनुपकारिष्वप्युपकारिबुद्ध्या व्यवहारोऽतत्त्वः प्रेमवासनावशाद्भवति तथा समुदायोऽतत्त्वव्यवहारवासनया त्वसन क्रियते, नात्र कश्चित् परमार्थः, कस्तर्हि परमार्थः ? परमार्थतस्तु पश्चात् पूर्वञ्च भावादङ्गेषु प्राक् चक्राक्षादिसंयोगात् यथा रथस्यात्मा नास्ति, चक्रादिविसंयोगीकृतेषु च पश्चान्नास्ति तथा संयुक्तावस्थायामप्यङ्गेषु स्वात्मरहितत्वान्नास्ति रथ इति, यथोच्ये[ते]त्यादि, अनेनैव न्यायेन किञ्चित्कार्यं घटपटादि बुद्धिपूर्वकं पुरुषेण क्रियते, स्वत एवं च कारणात् कार्यमुत्पद्यत इत्येतस्मृषेत्येतदुक्तं भवति, ततः पुनः कार्यमुत्पद्यते कारणादिति यथाऽन्ये मन्यन्ते तथाऽनुयुज्यत इति प्रदर्शनार्थमाहतैर्यथोच्यते सत् कार्यम् , तद्यथा-रूपादिभिरित्यादि, शब्दादितन्मात्राण्यत्र रूपादिग्रहणेन गृहीतानि, वाचोयुक्तिमात्रेण प्रक्रियावशाद्भिन्नत्वादि[ति] यथाऽऽकाशादीनां भूतानां शब्दाद्यकोत्तरोत्कर्षेण सन्निवेशात् , प्रक्रिया प्रागरान्तरे व्याख्यातत्वान्न पुनर्व्याख्यायते ।
10 __ साधनम्
यदेतत् सन्नाम ततोऽन्यदेव तु कार्यम् , तदतुल्यविकल्पत्वात् , रूपादिखपुष्पवत् , कथमतुल्यविकल्पः? इह शब्दादीनां कारणानामाकाशादीनां कार्याणामुभयेषां सत्त्वं कार्याणामाकाशादीनामेव सत्त्वमिति द्वौ भङ्गावुपयोज्यौ, इतरयोरभ्युपगतप्रतिपक्षत्वाद्वादाभावात्, संसारानुबन्धवदिति । घटयति-यथेति, खरूपत आत्मनां न परस्परं कश्चन परमार्थभूतः सम्बन्धोऽस्ति, अत एव ते 16
रिणः, किन्त्वनादिप्रेमवासनावशादयं मे पिता भ्राता भार्या मातेत्यादिरूपेणोपकारित्वबुद्ध्या संसारभ्रमणानुकूलोऽतत्त्वभूतो व्यवहारः प्रवर्त्तते यथा तथैवातत्त्वभूतः समुदायोऽनादिवासनावशाद्वयवहारविषयो भवति, नात्र व्यवहारे कश्चन परमार्थो विद्यत इति भावः । तर्हि परमार्थभूतं वस्तु कीदृगिति शङ्कते-कस्तीति । यदि व्यवहारविषयीभूतो वासनाकल्पितत्वादसन् तर्हि परमार्थभूतं वस्तु किमिति भावः । वस्तुतस्तु रथ इति न कश्चिदस्ति पूर्व पश्चाच्चाङ्गेष्वभावात् , न हि रथस्य कश्चिदात्मा चक्राक्षाद्यवयवसंयोगदशायामस्ति, चक्राक्षादिसंयोगात् प्राक् चक्राक्षादिवियोगाच पश्चात् यथा न रथस्य कश्चनात्मा 20 दृश्यते, यश्च पूर्व पश्चाच्च नास्ति स वत्तेमानदशायामपि नास्ति, रूपादि च पूर्व पश्चादपि विद्यते तस्माद्वत्तेमानदशायामपि तदेवास्ति तस्माद्रूपादय एव परमार्थः रूपादिसमुदायरूपो घटपटरथादिः काल्पनिकोऽवस्तुभूत इत्याशयेनाह-परमार्थतस्त्विति। अनेनैव न्यायेन कैश्चिदुच्यते घटपटादिरूपं किश्चित् कार्य पुरुषेण बुद्धिपूर्वकमेव क्रियते, खत एव तु कारणात् , कार्यमुत्पद्यत इत्येतत्तु मृषेति तर्शयति-यथोच्येतेत्यादीति । कार्य स्वत एव कारणादुत्पद्यत इति यैर्मन्यते तन्मतं दर्शयति-तैर्यथोच्यत इति । कार्य सदुत्पद्यते, सदेव कार्य नासत् , यथा रूपादिभिराकाशादीनां भूतानामुत्पत्तिरिति निरूपयति-सत् कार्यमिति । 25 रूपादिपदविवक्षितमाह-शब्दादीति, शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमेतेभ्यः पञ्चभूतान्युत्पद्यन्ते; तद्यथा-शब्दगुणाच्छन्दतन्मात्रादाकाशमेकगुणं शब्दस्पर्शगुणात् स्पर्शतन्मात्राद् द्विगुणो वायुः, शब्दस्पर्शरूपगुणात् रूपतन्मात्रात् त्रिगुणं तेजः, शब्दस्पर्शरूपरसगुणात् रसतन्मात्रात् चतुर्गुणा आपः, शब्दस्पर्शरूपरसगन्धगुणात् गन्धतन्मात्रात् पञ्चगुणा पृथिवीत्येकोत्तरोत्कर्षेण भूतविशेषाणामुत्पत्तिः, तेऽप्याकाशादिभूतविशेषाः संनिवेशविशेषा एवेति सांख्यप्रक्रियेति भावः । तदेतन्मतं निराकरोति-वाचोयुक्तिमात्रेणेति, मतमिदं प्रौढवादमात्रेण प्रक्रियाभेदेनैवास्मन्मताद्भिन्नम् , न तु विशेषः 30 कश्चिदस्ति, सन्निवेशविशेषस्य कार्यस्य समुदायात्मनः कारणादवयवादर्थान्तरताया अनिष्टत्वाद्रूपादेरेव तत्त्वात् समुदायस्य चातत्त्वादिति भावः। सांख्यस्येयं प्रक्रिया प्रागुदितारान्तरे व्याख्याताऽतोऽत्र न व्याख्यायत इत्याह-प्रक्रियेति । वाचोयुक्तिमात्रेण
सि.xx।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org