________________
११०३
तस्येति षष्ठयनुपपत्तिः] द्वादशारनयचक्रम्
किश्चान्यत्
यदप्युक्तं तस्यैव भावस्य व्ययत्वात् विनाशेनोत्पादस्य क्षणोऽस्यास्तीति क्षणिक इति व्यपदेशो न्यायादनपेत इति तदपि न किश्चित् , उत्पद्यमानविनश्यतोरपि तावत् भावयोस्त्वन्मतेऽभूतत्वात् सम्बन्धाभावः, किमङ्गपुनस्तत्प्रभावलभ्ययोरुत्पादविनाशयोः सम्बन्धकथा? तयोरसत्त्वभूतत्वादवस्तुत्वाच्च, असम्भाव्यप्रवृत्त्योः, अपि चात्रापि तस्यैव भावस्य । व्यय इति षष्ठ्यर्थानुपपत्तिरपि, असम्बन्धात्, सम्बन्धाभावश्चासहभावात् । । ___ यदप्युक्तमित्यादि, तस्यैव भावस्य व्ययत्वात् विनाशेनोत्पादस्य क्षणोऽस्यास्तीति क्षणिक इति व्यपदेशो न्यायादनपेत इति त्वया यदुक्तं तदपि न किञ्चित् नार्थो न नायुक्तत्वात् , तद्दर्शयतिउत्पद्यमानविनश्यतोरपि तावदित्यादि, यावेतावुत्पत्तृविनंष्टारौ भावौ तावेतावपि त्वन्मते न स्तः, उत्पाद एवाङ्कर इति वचनात् , तयोश्चाभूतत्वादभावत्वं खपुष्पयोरिव सम्बन्धाभावः, तस्मादुत्पत्तैव विनंष्टेत्ययुक्तं 10 वक्तम् , किमङ्ग! पुनरित्यादि, दूरत एवोत्पद्यमानविनश्यदर्थाभावे तत्प्रभावलभ्ययोरुत्पादविनाशयोः सम्बन्धकथा कुतः ? तयोरसत्त्वभूतत्वात् , असत्त्वभूतत्वं अवस्तुत्वाच्च,-न वस्तुनी स्तः ययोस्तावुत्पादविनाशौ अवस्तू तद्भावादवस्तुत्वात् , तौ चासम्भाव्यप्रवृत्ती खपुष्पवत् , असम्भाव्यप्रवृत्त्योरेव सम्बन्धाभाव इति वर्त्तते, किञ्चान्यत्-अपि चात्रापीत्यादि, यथैवास्यस्तिमत्सम्बन्धाभावादसहभाविनोरुत्पादविनाशयोः क्षणिक इति ठन्प्रत्ययाभावः तथा तस्यैव भावस्य व्यय इति षष्ठयर्थानुपपत्तिरपि, असम्बन्धात् , सम्बन्धलक्षणा हि कारकवि- 15 भक्तयः, कारकाविवक्षायां शेषसम्बन्धे प्रातिपदिकार्थव्यतिरेके षष्ठीविधानात् , सम्बन्धाभावश्चासहभावादिति।
wwwimwww
एवापदेश इति तन्निराकरणायाह-यदप्युक्तमिति । विनाशस्तस्यैव मावस्योत्पादस्य धर्म इति तस्योत्पादस्य क्षणिकत्वेन व्यपदेशो न्याययुक्त एवेति पूर्वपक्षिणोक्तमिति दर्शयति-तस्यैव भावस्येति । अयुक्तत्वमेवाह-उत्पद्यमानेति, उत्पत्त्याश्रयस्स विनाशाश्रयस्य च भावस्य तव मतेनासत्त्वमेव, पर्यायमात्राभ्युपगन्तृत्वात् , उत्पाद एवाकुर इति त्वयैवोक्तत्वात् , तस्मात्तथाविधभावस्य खपुष्पवदभावत्वात् कथमुत्पत्तुरेव विनंष्टता, अभावरूपयोः परस्पर सम्बन्धाभावादिति भावः। यदा चोत्पत्तविनंष्ट्रभावा- 20 भावस्तदा कि वक्तव्यं तत्प्रभावेण लभ्ययोरुत्पादविनाशयोः सम्बन्धे इत्याह-किमङ्गेति । हेतुमाह-तयोरिति, उत्पादविनाशयोरित्यर्थः । तयोरसत्त्वञ्चोत्पादविनाशाश्रयस्य खात्मलाभप्रयोजकस्थावस्तुभूतत्वादित्याह-असत्त्वभूतत्वमिति । एवञ्च तयोः प्रवृत्त्यसम्भवात् सम्बन्धस्तयोर्न सम्भवतीत्याह-तौ चेति । उत्पादविनाशावित्यर्थः । यथा चोत्पादविनाशयोः सहभावाभावादस्त्यस्तिमत्सम्बन्धबोधकठन्प्रत्ययासम्भवः क्षणशब्दादुक्तस्तथैव तस्यैव भावस्य व्यय इत्यत्रापि भावस्येत्यत्र षष्ठी न सार्थिका. भावव्यययोरसहभावित्वेन सम्बन्धासम्भवादित्याह-अपि चेति । भावस्येत्यत्र षष्ठी शेषे भवति, कारकविभक्तित्वात् , 'सामान्यं 25 कारकं तस्य सप्ताद्या मेदयोनयः' इत्युक्तत्वात् , क्रियानिवृत्तौ कतकर्मादीनां हेतुत्वात् हेतुत्वस्य च सम्बन्धमन्तरेणासम्भवात् सर्वाः कारकविभक्तयः सम्बन्धरूपा एव, कर्तृत्वकर्मत्वादिरूपतः सम्बन्धः षष्ट्यतिरिक्तविभक्त्यर्थः, सम्बन्धत्वेन रूपेण सम्बन्धः स्वखामिभावादिः षष्ठ्यर्थः, तस्य कर्मादिविशेषलक्षणेभ्यः षड्भ्योऽन्यत्वाच्छेषत्वम् , अत एव कारकाणामविवक्षा शेष इत्युच्यते क्रियाकारकपूर्वकत्वाच्च कारकत्वमस्येत्याशयेनाह-सम्बन्धलक्षणा हीति, यथा राजा पुरुषाय ददाति, अत्र राज्ञः पुरुष इति खखामिभावोऽवतिष्ठते, तत्र क्रियाकारकसम्बन्धः कारणभूतः, शेषसम्बन्धस्तु फलभूतः, क्रियाकारकसम्बन्धी हि वृत्तः खाश्रये 30 शेषसम्बन्धं फलं निवेश्योपरमते तत्र पूर्व कर्तृसम्प्रदानरूपी राजपुरुषावभूताम् , शेषसम्बन्धकाले कादिविशेषरूपतानवगम इति तच्छेषभूतं सामान्यकारकत्वमवतिष्ठत एवेति शेषे षष्ठी विज्ञेया, प्रथमा चाभिहितकारकविभक्तिः प्रातिपदिकार्थमात्रे एवेति न तत्र षष्ठीति विज्ञेयम् । तदेतदभिप्रायेणाह-कारकाविवक्षायामिति । कुतोऽसम्बन्ध इत्यत्राह-सम्बन्धाभावश्चेति ।
द्वा० न०१४ (१३९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org