SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ११०४ आह न्यायागमानुसारिणीव्याख्यासमेतम् नन्वसहभवनेऽपि षष्ठी विकारविषया, प्रकृत्युपमर्दश्च विकारः, तद्यथा - धानानां सक्तवः, तण्डुलानामोदन इति, न ह्यत्र प्रकृतिर्विकृत्यवस्थायामस्ति, अथ च प्रकृतौ षष्ठी श्रूयते धानानां तण्डुलानामिति एतदपि न, द्रव्यपर्यायसहवृत्तेः, धानातण्डुलादिप्रकृतेरेव 5 सक्त्वोदनत्वादिविकार परिणामात्तथातथाऽवस्थानात्, विनाशो घटस्य इव, तस्मात् स्वजात्यपरित्यागवृत्तेराविर्भावतिरोभावौ सर्वभावानामतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी भावस्य व्यय इति भावो विधीयते भवन्नेव वर्त्तते वोदेति वेत्युक्तं भवति, अतोऽन्यथा ह्यद्रव्ययोरुत्पादविनाशयोर्वस्त्ववक्तव्यमिति भाव एव स नेति कुतोऽस्योत्पादो विनाशो वा ? ( नन्विति ) नन्वसह भवनेऽपि विकारविषया - विकारलक्षणा, प्रकृत्युपमर्दश्व विकारः, तद्यथा10 धानानां सक्तवः, तण्डुलानामोदन इति, न ह्यत्र प्रकृतिर्विकृत्यवस्थायामस्ति, अथ च प्रकृतौ षष्ठी श्रूयते धानानां तण्डुलानामिति, अत्र ब्रूमः, एतदपि न, कस्मात् ? द्रव्यपर्यायसहवृत्तेः द्रव्यं प्रकृतिर्धानातण्डुलादिः पर्यायेण विशेषेण विकारेण सह वर्त्तते धानातण्डुलादिप्रकृतेरेव सक्त्वोदनादिविकार परिणामात् तथातथा व्यवस्थानात्, किमिव ? घटस्य विनाश इति, यथा मृद्रव्यस्यैव पिण्डशिवकादिक्रमभाविधर्मणः रूपादिसहभाविधर्मणश्च घटस्यैवं कपालत्वेन मृदात्मनः परमाण्वादिसंघातपरिणाम्यवयवसंस्थानान्तरेण वर्त्तनं 15 विनाशो घटस्येवेत्युच्यते, तस्मात्स्वजात्यपरित्यागवृत्तेराविर्भावतिरोभावौ सर्वभावानामतः सहभाविनोरेव सम्बन्धादुपपद्यतेऽत्रापि षष्ठी भावस्य व्यय इति भावो व्ययते भवन्नेव वर्त्तते वो उदेति वेत्युक्तम्भवति द्रव्यार्था परित्यागेनैवोत्पादव्ययवृत्तेः, अतोऽन्यथा ह्यद्रव्ययोस्तूत्पादविनाशयोर्निर्बीजयोर्वस्तु अवक्तव्यमिति Jain Education International 2010_04 [ नियमनियमनयः मन्वसहभावित्वेऽपि सम्बन्धो दृश्यते यथा धानानां सक्तत्रः, तण्डुलानामोदन इत्यादि, विकार्यं प्रकृत्युच्छेदेन सम्भूतम्, निरन्वयविनाशात् प्रकृतेरुच्छेदः यथा काष्ठादेर्भस्मादि, भस्मादि कार्यं काष्ठादिकमुपमर्योपजातमिति प्रतीतेर्विकार्यम् एवञ्च काष्टस्य भस्म 20 इत्यादौ विकृत्यवस्थायां प्रकृतेरभावादसहभावेऽपि षष्ठी दृश्यत इति न दोष इति शङ्कते - नन्वसहभवनेऽपीति । व्याचष्टेविकारलक्षणेति, धानातण्डुलानां भर्जन पेषणविक्लित्त्यादिक्रिययोपमर्दात् सत्त्वोदनकाले तेषामभावात् असहभावेऽपि प्रकृतौ षष्ठी श्रूयत एव न हि सक्त्वादिकाले धानादीनां स्वस्वरूपेण सद्भाव इति भावः । अत्राप्यसहवृत्तित्वमसिद्धम्, द्रव्यात्मना धानातण्डुलादीनां स्वस्वपर्यांयभूतसक्त्वोदनादिकालेऽपि अवस्थानादित्याशयेन समाधत्ते - द्रव्यपर्यायेति, द्रव्यं धानातण्डुलादि, पर्यायः सत्वोदनादि तयोः सहभावात्, न हि तयोः सहभावाभावे विकार्यविकारिभावोऽस्यायं विकारोऽयश्च विकारीति व्यपदेशः 25 सम्भवति, अन्यथाऽन्यस्यापि घटादेः सत्त्वादिविकारित्वापत्तेः तस्माद्धानादिरेव तथा तथा परिणमत इति सहभावोऽस्त्येवेति भावः । निदर्शनमाह - घटस्य विनाश इति, पिण्डशिवकादिक्रमभाविपर्याय रूपरसादिसहभाविपर्यायविशिष्टभृद्दव्यस्वरूपघटादेरेव कपालात्मकेन परमाणुसंघातपरिणामरूपावयवसंस्थानान्तरेण वर्त्तनं घटस्य विनाश उच्यते तस्मादुत्पादविनाशौ स्वजात्यपरित्यागेन मृद्रव्यादेराविर्भावतिरोभावावेवेति द्रव्यपर्यायसहवृत्तितेति भावः । तस्मात् सहभाविनोरेव सम्बन्धे षष्ठयुपपत्तेर्भावस्य व्यय इत्यत्रापि भावव्यययोः सहभावित्वात् षष्ठीति भावो भवन्नेव व्ययते वर्त्तते उदेति च द्रव्यापरित्यागेनोत्पादविना30 शयोर्भावादित्याह-अतः सहभाविनोरेवेति । द्रव्यार्थपरित्यागे तु उत्पादव्यययोर्निर्बीजत्वेनास्योत्पादो व्ययो वेति वक्तुमेवाशक्यम्, नहि खपुष्पस्योत्पादो व्ययो वा वक्तुं शक्य इत्याह-अतोऽन्यथा हीति । द्रव्यार्थापरित्यागेन तयोर्वृत्तेर्वैपरीत्ये हीत्यर्थः । १ सि. क्ष. डे. धा. भावाचियते । २ सि. क्ष. धा. डे. चेत्कदेति । ३ सि. क्ष. धा. डे. वक्रवक्तव्य० । For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy