________________
कालत्रयेऽप्यभावो भावस्य ] द्वादशारनयचक्रम्
११०५ वक्तुमेवाशक्यमेतत्, भाव एवासौ वस्तुत्वाभिमतो नास्ति, कुतोऽस्योत्पादो विनाशो वा धर्मो द्रव्यार्थस्याभावे ? खपुष्पस्येव ।
तद्वैधhण द्रव्यार्थवादिन एवोत्पादविनाशोपपत्तिप्रदर्शनार्थमाह
भवन्ती हि मृत् भवति उत्पद्यते तद्यथा शिवकस्य स्तूपकीभावः सैव च मृत् भवन्ती व्येति, स्तूपकत्वेनोत्पद्यमाना शिवकत्वाद्येति, भवनाद्धि भावः, भावस्य व्यय इत्यत्र भाव- 5 शब्दोऽप्येवं घटते नान्यथा, एवन्तु त्वयोक्तो भावः स भाव एव न, पूर्वमभावात् पश्चादभावात् पूर्व पश्चाच्चाभावात् वंध्यापुत्रवत्।
(भवन्तीति) भवन्ती हि मृत्-द्रव्यार्थेन भवन्त्येव भवन्ती-स्वरूपमत्यजन्ती भवत्युत्पद्यते, तद्यथा-शिवकस्य स्तूपकीभावः उत्पादे स्तूपक इति निदर्शनम् , सैव च मृत् भवन्ती व्येति, तन्निदर्शनंस्तूपकत्वेनोत्पद्यमाना शिवकत्वात् व्येतीति, भवनाद्धि भावः, भावस्य व्यय इत्यत्र योऽयं भावशब्दः 10 सोऽप्येवमस्मदुक्तद्रव्यार्थविषय एव घटते, यदर्थस्य व्यय उच्यते, नान्यथा-यत्त्वभवत् खपुष्पाद्यद्रव्यं तन्नोत्पद्यते न व्येति वा, एवन्त्वित्यादि, इत्थमुक्तन्यायेन त्वयोक्तो भावः स भाव एव न भवति, कस्मात् ? पूर्वमभावात्-भवनाभावादित्यर्थः, भाव एव स नेति वर्त्तते, एवमेतौ प्रत्येकं हेतू , समुदितावपि-तद्यथापूर्व पश्चाच्चाभावादिति, त्रयाणामपि हेतूनां वन्ध्यापुत्रवदित्येक एव दृष्टान्तः, त्वन्मतेनैव वा एते हेतवः सिद्धाः, उत्पादक्षणस्यैव सत्त्वाभ्युपगमात्, अतो भाव एव न स इति साधूक्तम् ।। _ स्यात् प्रत्याशा वर्तमानक्षणे भावो भवितुमर्हतीति सापि न कार्या, त्वदुबाह एव, प्राक् पश्चात् मध्ये चाभावात् , त्वद्वचनादेव भावस्येति षष्ठी यदि कर्तृलक्षणा, स एव भावःउत्पादः व्येति-विनश्यति न भवति इत्युक्तं भवति, यदि कर्मलक्षणा, विनाशोऽकत्तका केनोत्पादो निवत्यैतेत्ययुक्त एव भावः, तस्मात्स एव न भवतीति मध्येऽप्यभावः ।
(स्यादिति) स्यात् प्रत्याशा वर्तमानक्षणे भावो भवितुमर्हतीति, साऽपि न कार्या-प्रत्याशा, 20 कस्यामप्यवस्थायामसत्त्वात्, तत आह-यथा-त्वदुद्राह एव, प्राक् पश्चान्मध्ये चाभावात् , भाव एव न स
•ommmmmm
MM
15
namawm
द्रव्यार्थपरित्यागवैधयेणैवोत्पादविनाशायुपपद्यते इति प्रदर्शय इति-भवन्ती हीति । मृत् खखरूपमत्यजन्ती शिवकादिरूपा स्तूपकत्वेनोत्पद्यते सैव स्तूपकत्वेनोत्पद्यमाना मृत् शिवकत्वेन व्यति, तेन तेन प्रकारेण भवनादेव हि मृदादिर्भाव उच्यत इत्याशयेन व्याकरोति-द्रव्यार्थेन भवन्त्येवेति । भावस्य व्यय इत्यत्रापि तथा तथा भवन्नेव भावो द्रव्यार्थविषय एव, नान्यथा व्ययः सङ्गच्छत इत्याह-भावस्य व्यय इत्यत्रेति । अभवतो नोत्पादव्ययौ स्तः खपुष्पस्येवेत्याह-नान्यथेति । त्वत्सम्मतस्तु भावो 25 भवनाभावाद्भाव एव न सम्भवति न हि स भाव उत्पादाभिमतः पूर्वमस्ति पश्चादस्ति पूर्व पश्चाचास्ति वा वन्ध्यापुत्रवदित्याहइत्थमुक्तन्यायेनेति । हेतुमाह-पूर्वमभावादिति, उत्पादक्षणपूर्वमभावादित्यर्थः, यः केवलं पूर्व न भवति पश्चान्न भवति पूर्व पश्चाच्च न भवति स भाव एव न भवति वन्ध्यापुत्रादिवदित्यर्थः । हेतूनामसिद्धिं व्युदस्यति-त्वन्मतेनैवेति । पूर्व पश्चाद्वाऽभवनेऽपि उत्पादक्षणे स भवत्येवेत्याशङ्कते-स्यात् प्रत्याशेति । वर्तमानक्षणे भावो भवतीत्याशाऽपि मा कुरु, तदानीमपि तस्यासत्त्वादिति समाधत्ते-कस्यामपीति, प्रागवस्थायां पश्चादवस्थायां वर्तमानावस्थायामप्यसत्त्वादित्यर्थः । तदेव समर्थयति-यथा त्वदुद्भाह 30
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org