________________
wwmaamanwr
११०६
न्यायगमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः इति वर्त्तते, प्राक् पश्चाच्चाभावत्वमद्रव्यत्वादस्मन्मतेनोक्तम् , अधुना त्वन्मते वर्तमानक्षणेऽप्यसत्त्वं साध्यते प्राक् पश्चाच्चाभावत्वं सिद्धमेव भवतीति तत्साधयितुमाह त्वद्वचनादेव-तद्यथा-त्वया ह्युच्यते तस्यैव चासौ भावस्य व्यय इति, व्यपदेशप्रसिद्धिसाधनार्थेन वचनेन, तस्य चायमर्थो भावस्येति कर्तृलक्षणा षष्ठी स्यात् कर्मलक्षणा वा, यदि कर्तृलक्षणा स एव भाव उत्पादो व्येति विनश्यति न भवति तेनैव विधीयते न 6 भूयते विनश्यतीत्युक्तं भवति, कोऽसौ न भवति, ? उत्पाद एव, यदि कर्मलक्षणा ततो विनाश[5]कर्तृकः केनोत्पादो निवत्यैतेत्ययुक्त एव भावः, तस्मात् स एव न भवति-उत्पाद इति मध्येऽप्यभावः, तस्मात् प्राक् पश्चान्मध्ये चाभावात् भावस्य व्यय इति वचनात् क्षणिकशब्दो नार्थवान् स्यात् ।
अपि च तण्डुलानामोदन इत्यत्रोदनस्य स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेः __ सम्भवेदियं गतिः, त्वन्मते तु तद्वैधात्तदासावसन्निहित एव भावः कथं व्यतीत्युच्यते ? 10 यदि यदा सन्निहितस्तदैव व्येति नैव तर्जुत्पद्यते, अथोत्पद्यते न तर्हि व्येति, उत्पादव्यययोविप्रतिषेधात् कुत एव तत् ?
(अपि चेति) अपि च तण्डुलानामोदन इत्यत्रोदनस्य विकारस्याऽऽत्मलाभकाले द्रव्यार्थतः तण्डुलानां समवस्थायित्वादोदनेन सह स्थास्नुत्वा द्विकारान्तरमोदनत्वं तत्र द्रव्ये वृत्तं गच्छेयुरापोरन तण्डुलाः, सम्भवेदियं गतिरीदृशी, त्वन्मते तु तस्या अपि स्वकालसमवस्थायिद्रव्यवृत्तविकारान्तरगतेर16 सम्भवात् तद्वैधात् तदासावसन्निहित एव भावः-उत्पादः त्वदिष्टोऽसन्नेव कथं व्येतीत्युच्यते,-खपुष्पवदसन्निहितः केन न्यायेन व्येतीति शक्यते वक्तुम् , स्यान्मतं यदा सन्निहितस्तदा व्येतीत्युच्यत इति,
एवेति, त्वदभिमतः स भावो भाव एव न भवति प्राक् पश्चान्मध्ये चाभावात् , प्राकू पश्चाच्चाभावो द्रव्यानभ्युपगमात् , नास्ति द्रव्यमाश्रयतया यस्य तस्य भावत्वादद्रव्यत्वादिति मयाऽऽपादितम् , मध्येऽपि स न भाव इति भावस्य व्यय इति
त्वदीयवचनेनैव सिद्ध्यतीति भावः। प्राक् पश्चाच्चाभावत्वमुभयमतेन सिद्धमेवातो मध्येऽभावमेव साधयितुं प्रयत इत्याह-प्राक 20 पश्चाश्चेति । तस्यैव चासौ भावस्य व्यय इति त्वया क्षणिकत्वव्यपदेशप्रसिद्ध्यर्थं वचनमुक्तम् , तत्र च भावस्येति षष्ठी श्रूयते
सा च कृत्प्रत्ययान्तव्ययशब्दयोगेन कर्तुः कर्मणो वा भवति, तत्र कस्मिन्नर्थे षष्ठीयमिति पृच्छति-तस्य चायमर्थ इति । कर्तृषष्ठ्यभ्युपगमे भावः कर्ता स्यात् , तथा च भावो व्येति-विनश्यति-न भवतीति भावकर्तृको विनाशो भवनाभावो वाक्येन तेन विधीयते भावेन न भूयते भावो विनश्यतीत्युक्तं भवति, तस्मान्मध्यावस्थायामपि उत्पादस्याभावस्तेन वचनेनोक्त इति भावः ।
यदि भावस्य व्यय इति कर्मलक्षणा षष्ठीत्युच्यते तर्हि भावो न विनाशं प्रति कर्ता स्यात् , तस्य कर्मत्वाभ्युपगमात् , अन्यस्य तु 25 कर्तृत्वं नाभ्युपगम्यते 'जातिरेव हि भावानां विनाशे हेतुरिष्यते' इति त्वयैवोक्तत्वात् , तथा च विनाशोऽकर्तृक इति विनाशा
सम्भवात् , क्षणस्य भावस्य निवृत्तिरेव न स्यात् , निवर्तकाभावादित्याशयेनाह-यदि कर्मलक्षणेति । उपसंहरति-तस्मात् प्रागिति, भावस्य व्यय इति वचनेन क्षणिकशब्दस्यार्थवत्तासाधनं न सम्भवतीति भावः । द्रव्यार्थपक्ष एव तण्डुलानामोदन इत्यादि निर्देशः सम्भवति, ओदनादिविकारकाले द्रव्यस्य वृत्तेर्विकारान्तरगमनसम्भवादित्याह-अपि चेति । व्याचष्टे-अपि च
तण्डुलानामिति, ओदनादिविकारकाले द्रव्यार्थतया तण्डुलादेः वर्तमानत्वात् तत्र विकारस्य वृत्तत्वेन तण्डुला ओदनत्वमापद्यन्त 30 इति भावः। तव मते द्रव्यस्य तथाविधविकारान्तरगमनं न सम्भवति विकारकाले विकारिणोऽभावात् एवञ्च कथं भावस्य व्यय
इत्याह-त्वन्मते स्विति । यदा भावः सन्निहितस्तदैव व्यतीत्युच्यत इत्याशङ्कते-स्यान्मतमिति । ननूक्तमेव त्वया किन्तु स
१ सि. क्ष. छा. डे. °प्यसत्त्वे साध्येते । २ सि. क्ष. छा. डे. विनाशकर्तृकः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org