________________
स्थितद्रव्यार्थसत्त्वापादनम् ] द्वादशारनयचक्रम्
११०७ ननूक्तमत्रोच्यते सम्प्रधारः स एव वर्तते तदैवायुक्तमिति, यदि यदा सन्निहितस्तदैव व्येति नैव तद्युत्पद्यते न सन्निहितः न भवति-नास्तीत्यर्थः, अथोत्पद्यते भवति सन्निहितो न तर्हि व्येति, कस्मात् ? उत्पादव्यययोविप्रतिषेधाद्विरुद्धः प्रतिषेधो विप्रतिषेधः, उत्पादो व्ययेन विरुध्यते व्ययश्चोत्पादेन, अतो विरुद्धत्वात् परस्परनिवारितत्वाद्विप्रतिषेधात् कुत एव तत् ?-तद्वचनं तस्यैव भावस्य व्यय इति, दूरत एव न घटतेऽभावादिति, एवं तावदुत्पादक्षण एव विनाशक्षण इति वक्तुमयुक्तम् , विप्रतिषेधात् ।
न केवलमयमेव न घटते किं तर्हि ?
एवश्ोत्तरोऽप्यस्य विनाशक्षणो नैव भवति, यतः तदपेक्षः क्षणोऽस्यास्तीति क्षणिक उच्यते, अनुत्पन्नत्वात् खपुष्पवत् , आकाशवद्वा, द्वयाभावे तु यदि सदेव चेद्वस्त्विष्यते तत आहेतमताभिमतस्थितद्रव्यार्थसद्भावे क्षणे क्षणे पर्यायनयसद्भावे चोत्पादविनाशाभ्युपगमात् क्षणिकशब्दार्थवत्तोपपद्यते नान्यथेति, एवमेव च 'जातिरेव हीति' श्लोक इत्थं पठितव्यः, 10 तद्यथा-'जातिरेव हि भावानामनाशे हेतुरिष्यते' इति, यस्मात् स्थित एवार्थ उत्पद्यते नास्थितः तस्मादुत्पत्तिरेवावस्थाने कारणं जातमवस्थितश्चेत्यतो न ध्वस्तमिति ।
(एवश्चेति) एवञ्चोत्तरोऽप्यस्य विनाशक्षणो नैव भवति, यतस्तदपेक्षः क्षणोऽस्यास्तीति क्षणिक उच्यते-तस्याभावादेव न घटत इत्यर्थः, कस्मात् ? अनुत्पन्नत्वात् खपुष्पवदिति गतार्थम् , सौत्रान्तिकं प्रत्या]काशवदिति वा, एवं तावदुत्पादविनाशौ न युक्तावेकक्षणे क्षणान्तरे वा क्षणिकशब्दाभिधेयो यत: 15 स्यात् , तथा च द्वयाभावे तु-उत्पादविनाशक्षणाभावेऽपि यदि सदेव चेद्वस्त्विष्यते तत इदमापनमाहेतमताभिमतस्थितद्रव्यार्थसद्भावे क्षणे क्षणे पर्यायनयसद्भावे चोत्पादविनाशाभ्युपगमात् क्षणिकाः सर्वभावा
womammmmmam
wwwmummwww
विरुद्धार्थः स एव वर्तते तदैव विनश्यतीत्याह-ननूक्तमिति। स एव वर्तत इति यदुच्यते तदेवायुक्तमित्यर्थः। कथमयुक्ततेत्यत्राहयदि यदेति, उत्पादव्यययोरेककालत्वे उत्पाद एव न भवति विनाशप्रतिरुद्धत्वादुत्पादस्यासन्निहितत्वादिति भावः। यदि चोत्पादो भवति न तर्हि विनाशः स्यादुत्पादप्रतिरुद्धत्वेनासन्निहितत्वादित्याह-अथोत्पद्यत इति । प्रतिरोधः कथमित्यत्राह-उत्पाद- 20 व्यययोरिति, तयोः परस्परं विरोधादेकसद्भावेऽपरः प्रतिरुध्यत इति भावः । विरोधं दर्शयति-उत्पाद इति । उत्पादो भवनरूपो विनाशश्च भवनविघातक इति भवनतद्विघातयोरेकदाऽसम्भवात् युगपत्परस्परप्रतिषिद्धप्रसरत्वमिति भावः । अतो भावस्य व्यय इति वचनमेककालावच्छेदेन न संजाघटीतीति दर्शयति-कुत एव तदिति । उपसंहरति-एवं तावदिति । दोषान्तरमप्याह-एवश्चति, उत्पादक्षण एव विनाशक्षण इत्यस्यासम्भवेन चेत्यर्थः । उत्पादस्योत्तरक्षणो विनाशोऽपि न सम्भवति, यदपेक्षयोत्पादक्षणस्तेन क्षणिकः स्यादित्याह-एवञ्चोत्तरोऽपीति । अनुत्पन्नत्वादिति, न हि उत्पादक्षणे विनाशक्षण 25 उत्पन्नः, अनुत्पन्नेन च तद्वत्ताऽसम्भवात् , उत्पादस्योत्तरक्षणो विनाशो न भवति, अनुत्पन्नत्वात् , योऽनुत्पन्नः स न कस्याप्युत्तरक्षणो भवितुमर्हति खपुष्पादिवत् , सौत्रान्तिकं बौद्धं प्रत्याकाशवत् , तन्मते संस्कृतस्यैव क्षणिकत्वात् , आकाशादेरसंस्कृतत्वेनाभावमात्रत्वात् , उक्तमपि शङ्कराचार्यब्रह्मसूत्रे द्वितीयाध्याये भाष्ये “अपि च वैनाशिकाः कल्पयन्ति 'बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकञ्च' इति तदपि च त्रयं प्रतिसंख्याप्रतिसंख्यानिरोधावाकाशश्चेत्याचक्षते, त्रयमपि चैतदवस्तु अभावमात्र निरुपाख्यमिति मन्यन्ते" इति । तदेवमेकस्मिन् क्षणे क्षणान्तरे वोत्पादविनाशौ न युक्तौ यत उत्पादः क्षणिकशब्दाभिधेयः स्यादित्याह-एवं तावदिति । 30 एवमुक्तप्रकारेणोत्पादविनाशाभावेऽपि वस्तु सदेवेत्यभ्युपगम्यते तार्हतमताभ्युपगतवस्तुत्वप्रसङ्गः स्थितद्रव्यार्थसद्भाव एवोत्पादविनाशयोरभ्युपगमादित्याह-तथा चेति, द्रव्यार्थतः स्थितद्रव्यसद्भाव एव पर्यायार्थतः प्रतिक्षणमुत्पादविनाशाभ्युपगम एव सर्व
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org