________________
११०८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमनियमनयः
इति क्षणिकशब्दार्थवत्तोपपद्यते नान्यथेति, एवमेव च - यथा व्याख्यातं तथा जातिरेव हीति श्लोक इत्थं पठितव्यः तद्यथा-जातिरेव हि भावानामनाशे हेतुरिष्यते, ' पश्चाद्धं तदेव त्वया तु भावानामनाश इत्यत्र संहितापाठतो मकारो विकारसहित पाठाद्विनाशितः, केनचिदजानता दुर्लिखितत्वाद्वा, अन्येन दुरुपदेशाद्वा, यस्मादुक्तविधिना स्थित एवार्थ उत्पद्यते नास्थित इति प्रतिपादितं तस्मादुत्पत्तिरेवावस्थाने कारणम्, 6 अवस्थितस्यैवोत्पत्तेः जातमवस्थितञ्चेत्यतो न ध्वस्तम्, तस्योत्पत्तिकाल एवानष्टस्य सतोऽवस्थानात्मकस्य पश्चात् को विनाशहेतुरिति न कदाचिदपि विनाशः ।
मा मंस्थाः साहसमिदं स्थितं जायते जातञ्च न ध्वंसत इति, तदर्थं प्रतिज्ञायते
स्थितश्च जायते च न च ध्वंसते घटः द्रव्यार्थात्मा, न तावदस्थितः, अनुत्पादविनाशात्मकत्वात् यदुत्पादात्मकं विनाशात्मकञ्च न भवति तन्नास्थितमेव, असंस्कृतत्रयवत्, 10 तद्धि बोध्यत्वाद्रूपादिवत् सत्, सच्च नास्थितञ्च, उत्पादविनाश मात्रात्मकतायान्तु निर्बीजायां तयोरभावः, तस्यैव चासौ भाव इत्येतदपि न किञ्चित् स्थितमेवोत्पद्यते विनश्यति चेत्यादि भावितवदिति, योऽपि श्लोकः 'क्षणिकाः सर्वसंस्काराः' इत्यादिः सोऽप्येवं पठितव्यः तद्यथा - 'सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया ?” । तद्वयाख्या - भावाः वस्तूनि इति पर्यायाः ते सर्वेऽप्यक्षणिकाः स्थित्या क्रियया चोत्पत्तिविनाशात्मिकया सततभवनक्रियात्मका 15 एव, अतस्ताभ्यामक्षणिका इति ।
( स्थितश्चेति ) स्थितश्च जायते च न च ध्वंसते घटः द्रव्यार्थात्मेति, तस्य युगपत् प्रतिपादयितुमशक्यत्वात् क्रमेण प्रतिपाद्यते, स्थितत्वं तावत् - न तावदस्थित इति प्रतिज्ञायते - अस्थितत्वप्रतिषेधे स्थितत्वं सिद्ध्यतीति, कस्मात् ? अनुत्पादविनाशात्मकत्वात्, यदुत्पादात्मकं विनाशात्मकञ्च न भवति
wwwww
भावानां क्षणिकत्वमिति क्षणिकशब्दस्यार्थवत्त्वं सूपपद्यते, अन्यथा तु नैव उपपद्यत इति भावः । एवञ्चेदानीं 'जातिरेव हि भावानां 20 विनाशे हेतुरिष्यते । पश्चाद्विनाशकाभावान्न विनश्येत् कदाचन' इति कारिका त्वयोक्ता 'जातिरेव हि भावानामनाशे हेतुरिष्यते । पश्वाद्विनाशकाभावान्न विनश्येत् कदाचन' इत्थं पठनीयेत्याह-एवमेव चेति । इत्थमेव कारिकापाठो योग्यः, तत्र त्वया 'भावानामनाशे' इत्यत्रानुखारं विहाय मकारस्थाने विपदं योजयित्वा स पाठो विनाशितः, यद्वा केनचिद्दुर्बुद्धेन तथा पाठ उल्लिखितः स्यात्, यतस्त्वमपि तथैवाङ्गीचकर्थ, अथवा केनापि त्वं दुरुपदिष्टो वेत्याह- त्वया त्विति । कारिकां व्याचष्टे - यस्मादिति । स्थितस्यैवोत्पादो नास्थितस्येति यतोऽत एव जातिरेव - उत्पत्तिरेव अनाशे - अवस्थाने कारणम्, अवस्थानञ्चोत्पत्ताविति जातमवस्थितञ्च 25 द्वयरूपमेव वस्तु, न तु ध्वंसस्यावकाशः, जनेः सत्त्वात् स्थितेः सत्त्वाच्च जनेरेव भावात्, जनिकालेऽपि वस्त्ववस्थानात् विनाशकारणाभावाच न कदाचिदपि विनाशावसर इति भावः । स्थितं जायते जातश्च न ध्वंसत इति साधयति - स्थितश्चेति । द्रव्यार्थात्मा स्थित एव घटः पिण्ड शिवकस्थासकघटकपालकपालिकादिरूपेण जायते तस्माद् द्रव्यभावात्मकं वस्तु, न च ध्वंसते-न च निरन्वयविनाशी, न चास्थितः न क्षणिक एव जायते, न प्रागसत उत्पादो न वा निरन्वयो विनाश इति भावः । तथा स्थित एव जायते नास्थितो जायत इत्यर्थद्वयं युगपत् प्रतिपादयितुमशक्यत्वात् क्रमेण प्रतिपाद्यते तत्रास्थितो न जायत 30 इत्युक्तौ स्थित एव जायत इति सिद्ध्यत्येवेति तथैव प्रतिज्ञायते न तावदस्थित इति, द्रव्यार्थात्मा घटो न तावदस्थित एवेत्यर्थः । हेतुमाह-अनुत्पादेति, उत्पादविनाशात्मकत्वाभावादित्यर्थः, असत आत्मलाभो निरन्वयविनाशश्च यतो न भवतीति भावः । व्याप्तिं ग्राहयति-यदुत्पादेति । असंस्कृतेति, सर्वास्तित्ववादिबौद्धमते संस्कृताः - हेतुप्रत्ययजनिताः क्षणिकाः क्षणमात्रमेवैषां कालो न परतः, त एते रूपादयः पञ्चस्कन्धाः द्वादशचक्षुराद्यायतनानि चक्षुराद्यष्टादश धातवश्च हेतुप्रत्ययं विनैव बुद्धिबोध्या असंस्कृता आकाशप्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधास्त्रयः, एते च न क्षणिकाः अनुत्पादविनाशात्मकाः बुद्धि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org