________________
व्यापाररिक्तता] द्वादशारनयचक्रम्
११०९ तन्नास्थितमेव, असंस्कृतत्रयवत् यथा प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधः, आकाशमित्येतत्रयं बोध्यत्वाद्रूपादिवत् सत्प्रत्ययेनाजनितत्वादसंस्कृतं त्रयमिति संख्यात्रयवाच्यत्वाच्च सञ्च नास्थितञ्च तथा घटोऽपीति, त्वन्मतेन चोत्पादविनाशमात्रात्मकतायान्तु निर्बीजायां-स्थितार्थशून्यायां तयोः उत्पादविनाशयोरभावः प्राप्तः, यदप्युक्तं तस्यैव चासौ भाव इति, एतदपि न किञ्चित् इत्युपक्रम्य शब्दतोऽर्थतश्च यावद्विप्रतिषेधादिति भावितेन तुल्यं भावितवदित्यतिदिशति स्थितमेवोत्पद्यते विनश्यति चेत्यादि, योऽपि 5 श्लोकः- 'क्षणिकाः सर्वसंस्काराः' इत्यादिः सोऽप्येवं पठितव्यः एतस्मात् कारणात् , इतिशब्दस्य हेत्वर्थत्वात् , तद्यथा-'सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया' पश्चार्धं त्वत्पाठवत् , उत्पन्नस्याविनाशप्रतिपादनार्थः श्लोकः, तद्व्याख्या-भावाः वस्तूनीति पर्यायाः ते सर्वेऽप्यक्षणिकाः, स्थित्या क्रियया चोत्पत्तिविनाशात्मिकया सततभवनक्रियात्मका इत्युक्ता एव, अतः स्थितिक्रियाभ्यामक्षणिका इत्युपसंहृतार्थव्याख्यैव ।
त्वन्मतवद्यदि क्षणिकाः स्युस्तत एषामुत्पादविनाशौ नैव स्याताम् , व्यापारस्थिति- 10 रिक्तत्वात् खपुष्पवत् , यद्यक्षणिकाः तत उत्पादविनाशासम्भवात्तदतिरिक्तत्वं, उत्पादविनाशातिरिक्तत्वात्ते न स्थिता एव, खपुष्पवदस्थितानां कुतः क्रियेत्युक्तम् , सा हि युज्यते संवृत्त्यैवेति चेन्न भूतिर्येषां क्रिया सैव भवतीत्यभ्युपगतैव प्राक् व्यापारारिक्तता द्रव्यार्थवस्तुनः, भूतेरेव ।
(त्वन्मतवदिति) त्वन्मतवद्यदि क्षणिकाः स्युस्तत एषामुत्पादविनाशौ नैव स्याताम् , 15 व्यापारस्थितिरिक्तत्वात् खपुष्पवदित्यनिष्टापादनसाधनमिदं गतार्थम् , तस्मात् स्थितस्यैवोत्पादविनाशसिद्धेरक्षणिका भावाः, अत्राह-यद्यक्षणिका इत्यादि यदि स्थितोऽक्षणिकश्च भावः तस्योत्पादविनाशौ न बोध्यत्वाद्रूपादिवत् सन्तश्च नास्थिताः, एवं घटोऽपीतिभावः । बोध्यत्वं प्रकाशयति-त्रयमितीति । त्वन्मते च स्थितेरभावात् उत्पादविनाशयोरभाव एव स्यात् निर्बीजत्वादित्याह-त्वन्मतेन चेति, तयोरवस्तुत्वेनासत्त्वभूतत्वादिति भावः । भावितमेवैतत् प्राक् स्थितमेवोत्पद्यते उत्पन्नञ्च विनश्यतीति निरूपणावसरे तस्यैव चासौ भावस्य व्यय इत्यादि यावद्विप्रतिषेधादिति 20 ग्रन्थेनेत्याह-यदप्युक्तमिति । प्रत्ययजन्मानः संस्काराः रूपादयः सर्वे क्षणिका क्षणमात्रस्थायिनो द्वितीयादिक्षणानवस्थायिन इत्येतदर्थकारिका त्वया योक्ता 'क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया ? । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥ इति साऽपि 'सर्वेऽप्यक्षणिका भावाः क्षणिकानां कुतः क्रिया ? भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥' इति पठनीया इत्याहयोऽपि श्लोक इति, उत्पन्नस्य विनाशो न भवतीत्येतदर्थकोऽयं श्लोक इत्याह-उत्पन्नस्येति । श्लोकं व्याचष्टे-तद्वथाख्येति । भावमात्रमक्षणिक स्थितिभवनरूपं स्थितस्यैव पिण्डशिवकस्थासकोशकुशूलघटकपालकपालिकाद्यात्मकत्वात् , तत्र पूर्व- 25 पूर्वभवनस्योत्पादात्मकत्वादुत्तरोत्तरभवनस्य विनाशात्मकत्वात् , तस्मात् स्थितिभवनाभ्यामक्षणिकाः स्थितं जायते न च ध्वंसत इति भावः। तव मते तु भावाःक्षणिकाः स्थितिव्यापाररहिताः कथं तेषामुत्पादविनाशौ स्यातामित्याह-त्वन्मतवदिति, तवाभिप्रायवदित्यर्थः । खपुष्पं हि व्यापारेण स्थित्या च रिक्तं नोत्पद्यते न विनश्यति च, एवं यदि भावाः क्षणिकाः स्युः तदा नोत्पधेरन् न च विनश्येयुर्व्यापार स्थितिरिक्तत्वात् , तस्मात् स्थितस्यैव व्यापारसम्भवादक्षणिका भावा इत्याह-यदि क्षणिकाः स्युरिति, एवञ्च क्षणिकानां कुतः क्रियैतिव्याख्यातम् । ननु यदि भावः स्थितोऽक्षणिकश्च ततः सिद्धखरूपस्य तस्योत्पादविनाशी न भवतः, 30 आभ्यां व्यतिरिक्तान काचित् क्रियाऽस्ति, अतो व्यापाररिक्तः स्थितोभावो वाच्यः, एवञ्चोत्पादविनाशरिक्तत्वादनुत्पन्नत्वादविनष्टत्वाच नासौ स्थित एव, यदुत्पादात्मकं विनाशात्मकञ्च न भवति तन्न स्थितमेव किन्तु क्षणिक एव भावः, भावस्य क्षणिकत्वे च त्वदुक्तविधिना खपुष्पवदस्थितानां कुतः क्रिया स्यादत एवास्माभिरस्थितानां कुतः क्रियेत्युच्यत इति शङ्कते-यदि स्थित इति. एवञ्च
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org