________________
१११०
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः स्तः, उत्पादविनाशव्यतिरिक्तश्च नान्यः कश्चिद्व्यापारः सम्भवति, तदसम्भवात्तदतिरिक्तत्वं-उत्पादविनाशातिरिक्तत्वम् , उत्पादविनाशातिरिक्तत्वात् अनुत्पन्नविनष्टत्वादपि ते न स्थिता एव, युष्मद्युक्तविधिना खपुष्पवदस्थितानां कुतः क्रियेत्युक्तं पुनर्व्यापाररिक्ता निर्व्यापारक्षणिकतैव, [सा हि युज्यते ] संवृत्त्यैवेत्यत्रोच्यते, एतदपि नैव युक्तं भूतिर्येषां क्रिया सैव भवतीत्यभ्युपगतमस्माभिः प्रागेव-स्थितश्च जायते च न ध्वंसते 6 चेति व्यापारारिक्तता- व्यापारयुक्ततैव हि द्रव्यार्थवस्तुनः कस्मात् ? भूतेरेव, एवं हि भवद्वस्तु भवेत् यदि भवत्येव भवति ।
तत्पुनर्भवनं त्वदिष्टं निर्बीजमनवस्थितं न भवति जन्मेति तदर्शयति
अभ्युपगतमपि चैतत् भूतिर्येषां भावानां स एव व्यापार इति, उत्पादविनाशावाविर्भावतिरोभावाववस्थितस्यैवेति, अत एव कारकं सैव भूतिः, भव्यभवनद्रव्यार्थत्वात् , एवञ्च 10 तदप्यकस्मात् दुःखं यत् पठ्यते 'नंष्टा चेन्नाशविघ्नः कः.............॥( ) इति ।
अभ्युपगतमपि चैतदित्यादि, मयाऽभ्युपगतमेव प्रागुक्ता भूतियेषां भावानां स एव व्यापार इति, नाभूतिरभावः प्रागसदुत्पादो नाप्युत्पन्नस्यात्यन्तविनाशः प्रध्वंसाभावः कौ तर्हि तौ उत्पादविनाशौ ? आविर्भावतिरोभावाववस्थितस्यैवेति विस्तरशः चरितार्थम् , तस्मादेवंविधक्रियामुक्तत्वान्निापारा[:]. क्षणिका न भवन्ति भावाः, नाप्यस्थितक्षणिकाः, अत एव कारकं सैव च-भूतिः कारकं आविर्भावति15 रोभीवात्मकस्थितस्यैव, कस्मात् ? भव्यभवनद्रव्यार्थत्वात्-भवतीति भव्यं कर्त्तरि, भूयते यत्तेन तद्भवनं मावे, कर्तृभावसाधनलभ्यात्मनोऽङ्गुलिवकर्तृत्ववदात्मनैवात्मनः साध्यसाधनत्वात्, एवञ्च तदप्यकस्मात्
निर्व्यापारक्षणिकताऽस्माकमभीष्टैवेति भावः । तर्हि क्रिया घटः क्रियते घटं करोति कुम्भकार इति क्व भवति, अत्रोच्यते संवृत्त्या व्यवहार इत्याशङ्कायामाह-एतदपि नैव युक्तमिति, स्थितस्य क्रियाशून्यत्वं यदापादितं तन्न युक्तं येषां भूतिः-भवनं सैव क्रिया भवतीति स्थितञ्च जायते तेन तेन प्रकारेण न च ध्वंसत इति प्रागेव क्रियावत्त्वस्योपपादितत्वात्, तस्मात् द्रव्यार्थभूतं 20 वस्तु व्यापारयुक्तमेव भवत एव वस्तुनो तथा तथा भवनादिति भावः। कारणमाह-भूतेरेवेति, द्रव्यार्थस्य भवनादेवेत्यर्थः, यदि भवत्येव भवति-यदि स्थितमेव जायते तदैव हि भवद्वस्तु भवेदित्यर्थः । त्वत्सम्मतं भवनं तु स्थितार्थरिक्तत्वान्निर्बीज
पादरूपं भवेदित्याह-अभ्यपगतमपीति । व्याचष्टे-मयेति, भतिर्येषां क्रिया सैवेति भावानामवस्थितानामेव नात्यन्ताभावानां खपुष्पादीनां न वा प्रागसतामुत्पादस्याभ्युपगतत्वान्न व्यापाररिक्ता स्थितिः, नवोत्पन्नस्यात्यन्तविनाशः मे मत इति भावः । उत्पादविनाशयोः प्रागभावप्रध्वंसाभावानात्मकत्वे कीदृशौ तौ भवत इत्यत्राह-आविर्भावतिरोभावाविति, विद्यमानस्यैव घटादेः प्रदीपात् प्रकाशनवत् स्थितस्यैवाऽऽविर्भावतिरोभावावुत्पादविनाशावित्युच्यते, प्ररूपितञ्चैतद्र्व्यार्थनयेषु प्रागिति भावः । त्वया तु निर्व्यापारक्षणिकताभ्युपगमात् ते क्षणिका न भवन्ति नाप्यवतिष्ठन्त इत्याह-एवंविधेति, आविर्भावतिरोभावरूपेत्यर्थः, निव्योपारक्षणिकताऽस्थितक्षणिकता च न युक्ता, तादृशस्य भवनासम्भवादिति भावः । कारकं सैव चोच्यते इति पादं व्याचष्टे-अत एवेति, भवतो भावस्य भवनादेवेत्यर्थः, करोतीति कारक द्रव्यं, सैव भूतिर्भवनमाविर्भावतिरोभावो,
तथा चाविर्भावतिरोभावात्मकस्थितमेव कारकभावरूपमित्यर्थः । हेतुमाह-भव्यति, भव्यं द्रव्यं भवनं भावः, कर्तृभवनात्मको 30 द्रव्यार्थः सैव भवति भावश्च यथाऽङ्गुलिरेव वक्रा ऋज्वी भवतीति खेनैव खस्य साध्यत्वं साधनत्वञ्चेति भावः। एवञ्च
नष्टा चेन्नाशविन्नः क इत्यादिश्लोकं यत् पठति भवान् तदप्यकस्माद्दुःखमेव खेद एवेत्याह-एवञ्च तदपीति, विनाशाभावादेव
...छा. क्रियायुक्तत्वा० । २ सि.क्ष. छा. डे. °रावात्मिकास्थितः । ३ सि.क्ष. छा. डे. °कस्मादित्वं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org