________________
wamnwww
विपक्षे दोषः] द्वादशारनयचक्रम्
११११ दुःखं, एवं स्थितार्थाविर्भावतिरोभावमात्रोत्पादविनाशत्वे यत् पठ्यते-'नष्टा चेत्' इत्यादिश्लोकः सोऽप्यकस्मात् खेदः।
स्थितस्यैवोन्मईनमुत्पादो विशेषेणादर्शनं विनाशः, को नष्टाऽअत्यन्तादृश्यात्मना ? को नाशः प्रध्वंसाभावात्मको यस्य विघ्नश्चिन्त्यते ? को विनंक्ष्यति ? विनाश एव नास्ति कुतोऽस्य हेतुर्यत उच्यते 'साध्यं विनाशहेतुत्वमिति ? अपि च वयमित्थं पठामः, तद्यथा- 5 'भवितुर्भावविघ्नः को न चेन्नैव तथा भवेत्' इति प्रतिपक्षसंस्पर्शविनिर्मुक्तो भाव एव भाव इति निर्धार्यः, यथा हि भाव उत्पन्नः स भविता, भूतोऽस्ति चेत् पुनरस्य तथाभवने को विघ्नः ? यदि हि भावो भूतः कोऽस्योत्तरकालमपि भवने विघ्नः ? सदा हि तेन भवता भावेन भवितव्यम् , न न भवितव्यं कदाचित् , 'न चेन्नैव तथा भवेत्' अथ पुनरेवं नेष्यते अतोऽसावभवनधर्मा ततश्चाधनापि नैव भवेत।
(स्थितस्यैवेति) स्थितस्यैवार्थस्योन्मर्दनमुत्पादो विशेषेणादर्शनं विनाशोऽन्यथादर्शनं प्राग्वददर्शनम् , को नंष्टाऽत्यन्तादृश्यात्मना त्वन्मतः ? को नाशः प्रध्वंसाभावात्मवो यस्यैवं लक्षणस्य विघ्नश्चिन्त्यते ? को विनंक्ष्यति ? न कश्चिदपि भावो विनंक्ष्यतीत्यर्थः, कस्मात् , विनाशाभावादेव, एतत्सर्वमुन्मत्तकप्रलपितस्थानीयमविचारक्षमम् , अत आह-विनाश एव नास्ति कुतोऽस्य हेतुः? यत उच्यते-'साध्यं विनाशहेतुत्वमिति', अपि च वयमित्थं पठामो भ्रष्टाम्नायस्तु त्वदीयः पाठः, मदीयस्त्वभ्रष्टः श्रूयताम् तद्यथा 'भवितुः' इत्यादि- 15 श्लोकः, अस्य व्याख्या-प्रतिपक्षसंस्पर्शविनिर्मुक्त इत्यादि, द्रव्यार्थनित्यत्वात् भाव एव भाव इति निर्धार्यः, न प्रतिपक्षः क्षणिकः, तं प्रागभावप्रध्वंसाभावात्मकं संस्पृश्य प्रतिपक्षं भवत्येव भवतीति निर्धार्यः, कथं निर्धार्यते ? यथा हि भाव उत्पन्नः स भविता, भूतोऽस्ति चेत् पुनरस्य तथा भवने को विघ्नः ? नास्त्येवेत्यभिप्रायः, तद्विवृणोति-यदि हि भावो भूतः कोऽस्योत्तरकालमपि भवने विघ्नः ? सदा हि-पूर्वं पश्चात्तदानीञ्च त्रिष्वपि कालेषु तेन भवता भावेन भवितव्यं, न न भवितव्यं कदाचित्, 'न चेन्नैव तथा भवेत् तद्व्याख्या- 20
10
mummm
नष्टेत्यादिश्लोकपठनमपीत्यर्थः । उत्पादविनाशौ दर्शनादर्शने, वर्तमानघटादिविशेषेण द्रव्यस्य दर्शनमेवोत्पाद आविर्भावः पूर्वोत्तरविशेषेणादर्शनमेव विनाशस्तिरोधानम् , यद्वस्तु दृष्टमदृष्टञ्च तदेकरूपमेव, य एव हि वर्तमानरूपेण दर्शनविषयः स एव पूर्वोत्तर. रूपाभ्यामदर्शनविषयः न हि निरन्वयध्वंसिनः कदाप्युत्पादः सम्भवति, तिरोभावात्तु स्यादुत्पत्तिः, तस्मान्न प्रध्वंसाभावात्मको विनाशोऽस्ति न वाऽत्यन्तादृश्यात्मना नष्टाऽस्ति यदर्थं विघ्नचिन्ता भवेदित्याशयेनाह-स्थितस्यैवेति । व्याचष्टे-स्थितस्यैवार्थस्येति, उत्पादो वर्तमानविशेषेण दर्शनम् , विशेषेणादर्शनमन्यथा दर्शनं प्राग्वददर्शनं वा विनाशः, न त्वत्यन्तादर्शनं 25 तथा चात्यन्तादृश्यात्मना नंष्टा न कोऽपि, न वा प्रध्वंसाभावात्मको विनाशस्त्वत्सम्मतोऽस्ति येन विनाशे विघ्नश्चिन्त्यः स्यात् , विनाशाभावादेव विनंष्टापि न कश्चिदस्ति, तस्मात् नेष्टा चेन्नाशविघ्नः क इत्यादिप्रयासो वृथैवेति भावः । विनाशाभावेन तत्विसिद्धत्वादेव त्वयाऽप्युच्यते 'साध्यं विनाशहेतुत्वमित्यादीत्याह-विनाश एवेति । एवञ्च नंष्टा चेदित्यादिकारिकापाठो भ्रष्टाम्नायः, कारिका चेत्थं पठनीयेयाह-अपि चेति । 'भवितुर्भावविघ्नः कः न चेन्नैव तथा भवेत्' इति स्यात् कारिकापाठः । तां व्याचष्टे-प्रतिपक्षेति, द्रव्यार्थपक्षे वस्तुनो नित्यत्वे भाव एव भावो भवति, न भावस्य कश्चित् प्रतिपक्षः क्षणिकः प्रागभाव- 30 प्रध्वंसाभावरूपो विद्यते, तस्मात् स स्वप्रतिपक्षक्षणिकसंस्पर्शेन विनिर्मुक्तः सदा भवन्नेव भवति कदाचिदपि न न भवति, न ह्येकदा भवितुर्भावस्य पुनर्भवने कश्चिद्विघ्नोऽस्तीति भावः। एवमेव व्याचष्टे-यदि हि भाव इति, एवञ्च त्रिष्वपि कालेषु भवत्येव, भवनस्वभावत्वात् , पूर्वभवनवदिति भावः । विपक्षे दोषमाह-न चेन्नैव तथा भवेदिति । तस्य भाष्यमाह-अथ पुनरित्या
द्वा० न० १५ (१४०)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org