________________
इतरावाहतुः
अस्ति भवने विघ्नः स्वयं विनाशो वा कः कस्य विनाशहेतुर्वेति निदश्यौं, वैशेषिको ब्रूयात् घटादीनामश्माद्यभिघातो विनाशहेतुः, अग्निसंयोगः पार्थिवानां रूपादीनामपाञ्च तत्सान्निध्ये विनाशोऽसान्निध्येऽवस्थानमिति, बौद्धोऽपि 'जुहुक्खित्तं मिलेडम्मि' इति तन्न ‘साध्ये विनाशतत्त्वे स्तः' अन्यतरासिद्धे कथं निर्धार्यमयं हेतुरेवेति, अस्ति विशेष हेतुस्तस्मिन् सति पश्चादग्रहणादिति ।
(अस्तीति) अस्ति भवने विघ्नः, बौद्धवैशेषिकौ यथासंख्यं स्वयं विनाशो विनाशहेतुसान्निध्यमिति च वाशब्दात्, वयमेवं पृच्छामो यथा कः कस्य विनाशहेतुर्वेति निदर्श्याविति अशक्यमित्यभिप्रायः, वैशेषिको ब्रूयात् यथा घटादीनामरमाद्यभिघात इत्यादि पूर्वनयवत् निदर्शनो गतार्थः, बौद्धोऽपि 'जुहुक्खित्तं मिलेड म्मि' इत्यादि जन्मैव च विनाश इति ब्रूयात् तयोर्युगपदुत्तरं 'साध्ये विनाशतत्त्वे स्त' इत्यादि, क्षणिकवादी ब्रूयात्वं जातस्य स्वयं विनाशः प्रागभावप्रध्वंसाभावलक्षण इति, वयं तु ब्रूमः प्रतिलय इत्युक्तन्यायेन, वैशेषिकस्त्वं 15 ब्रूयाः तेनाश्माभिघाताग्निसंयोगादिना घटपार्थिवरूपोदकानां विनाश इति वयं ब्रूमः स्वयमेव प्रतिलय इति ततः कथमिदमन्यतरासिद्धान्निर्धार्यते, अन्यतरासिद्धिव्युदासार्थमाहतुः - तस्मिन् सति पश्चादग्रहणादिति पूर्वनयव्याख्यावदनुगन्तव्यम् ।
5
१११२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ नियमनियमनयः
अथ पुनरित्यादि, अथैवं नेष्यते - अधुना भवितृत्वात् त्रिष्वपि कालेषु भवत्येवेत्यतोऽसावभवनधर्मा, ततश्चाभवनधर्मवादधुनाऽपि नैव भवेत् - इदानीं भवितृत्वेन दृष्टः स नैव कदाचिदपि भवेत् तथाधुनात्वेन खपुष्पवदित्याद्यापन्नमनिष्टचैतत् ।
10
दीति, अधुना भवितृत्वात् त्रिष्वपि कालेषु भवत्येवेति यदि नेष्यते तर्हि स भावोऽभवनधर्मा स्यात्, ततश्चाभवनधर्मत्वादधुनाऽपि नैव भवेत् खपुष्पवदिति भावः । आपाद्यं व्याचष्टे - इदानीमिति, इदानीं भवितृत्वेन स दृष्टोऽपि न कदाचिदपि तथा भवेत्, 20 तथा - अधुनात्वेन, खपुष्पवदनिष्टश्चैतदिति भावः । अथ कालान्तरावस्थाय्यनित्यत्ववादी वैशेषिकः क्षणविनश्वरवादी बौद्धश्च भवने
विनं शङ्केते-अस्ति भवने विघ्न इति । बौद्धवैशेषिकौ यथाक्रमं स्वयं विनाशं विनाशहेतुसान्निध्यं वा विघ्नं भवने आहतुरित्याहबौद्धेति, वाशब्दाद्वादिद्वयं लभ्यत इति भावः । युवाभ्यां कः कस्य विनाशे हेतुरिति विनाशहेतू निदर्श्याविति द्रव्यार्थवादी पृच्छतिवयमेवमिति, तद्दर्शनमशक्यमिति पृच्छकस्याभिप्रायः । अश्माद्यभिघातो घटादिविनाशस्य वह्यादिसंयोगः पार्थिवानां रूपादीनामपाञ्चान्वयव्यतिरेकाभ्यां हेतुः सिद्ध इति वैशेषिकोक्तिं दर्शयति-वैशेषिक इति । बौद्धोक्तं विनाशहेतुमादर्शयति- बौद्धोऽ25 पीति, जन्मैव भावानां विनाशहेतुरिति भावः । ननु विनाशो विनाशहेतुत्वञ्च न सिद्धे, अपि तु ते साध्ये इत्याह- तयोर्युगपदुत्तरमिति, बौद्धवैशेषिकयोरुभयोरेको क्त्यैवोत्तरमुच्यत इति भावः अत्र 'साध्ये विनाशतत्त्वे स्तः, पश्चादग्रहणं यतः । स्वयं लयेऽपि तुल्यत्वात्तथाऽनुत्पत्तितो ग्रहः' इति कारिका स्यात् । बौद्धं प्रति विनाशस्य साध्यत्वं तावद्दर्शयति-क्षणिकवादीति, जातस्य पूर्वभावस्य स्वयं विनाशः स्वयं प्रध्वंसाभाव इति बौद्धो ब्रवीति, वयन्तु न विनाशो निरन्वयः, किन्तु तिरोभावलक्षणः प्रतिलय एव विनाश इति ब्रूमः, अत एवास्माकं तथाविधविनाशोऽसिद्ध इति भावः । वैशेषिकं प्रति विनाशहेतुत्वस्य साध्यत्वं 30 दर्शयति-वैशेषिक इति । नाश्मादिसंयोगादिना घटादेर्विनाशः, किन्तु स्वयमेव प्रतिलयो भवतीत्यस्मदभीष्टम्, तस्मादन्यतरासिद्धत्वाद्विनाशतत्कारणत्वयोर्निर्धारणमशक्यमित्याह-वयं ब्रूम इति । विनाशे विनाशहेतौ वा सति पश्चात्तद्विशेषस्या ग्रहणात्तदसान्निध्ये ग्रहणाच्च घटादिविनाशः तत्कारणञ्च सिद्ध्यतीत्याशयेनाह - अन्यतरासिद्धीति, पश्चादप्रहणस्योभयोः सिद्धत्वाद्विनाशः १ सि.क्ष. छा. डे. सन् नैव० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org