________________
प्रतिलयवर्णनम् ] द्वादशारनयचक्रम्
१११३ तत्रोत्तरं द्वयोरपि
इदमसंज्ञापकं स्वयं विनाशेऽपि हि भावेऽकृतके क्रमनियमप्राप्तवृत्तौ प्राग्दृष्टो घटभावः कपालत्वेनाविर्भवंस्तिरोभवंश्च घटत्वेन न गृह्यते कपालत्वेन गृह्यते, अतः सिद्ध्यत्येवास्मन्मतेन घटपार्थिवरूपाचुदकानां तिरोभूतौ तेन रूपेणानुपलब्धिः, कथं कृत्वा ? यथासंख्यनिर्देशा हि मृद्रूपादयः, उभयेऽपि शिवकाख्यां लभन्ते, स्वेन रूपेणाविनष्टाः तत्तत्स्वभावभूतेरेव पिण्डत्वेन । लीनाः,कर्तृप्रत्ययवशाच्चोत्पन्नाः स्तूपकत्वेन स्तूपक इत्युच्यन्ते,अभिघातादिप्रत्ययवशाद्वा कपालानीति, सर्वज्ञो हि तथा तथा पश्यति, अतस्तस्य शिवकादेरग्रहणं न स्वयमभावाद्विनाशाद्वा।
इदमिति । इदमसंज्ञापकं यस्मात् स्वयं विनाशेऽपि भावे-स्वयं विनाशो हि भावस्याविर्भावतिरोभावात्मकः प्रतिलयो भाव उक्तः, स चोक्तवद्भावत्वादेवाकृतकः तस्मिंश्चाकृतके भावे क्रमनियमप्राप्तवृत्ती क्रमेण नियमः क्रमनियमः, क्रमनियमेन प्राप्ता वृत्तिर्यस्य सःक्रमनियमप्राप्तवृत्तिर्भावोऽकृतको मृत्पिण्डशिवकस्था-10 सकादिक्रमेण नियता च वृत्तिः प्राप्यते, पिण्डाच्छिवकः, शिवकात् स्तूपक इत्यादि स्वयमेव, कादि. कारकान्तराण्यपि नियतमृत्पिण्डचक्रसूत्रोदककुलालादिरूपाणि क्रमेण भवन्त्येव भवन्ति, तस्मिंश्च क्रमनियमप्राप्तवृत्तौ भावे प्राग् दृष्टो घटभावः कपालत्वेनाविर्भवंस्तिरोभवंश्च घटत्वेनाश्माभिघातादिनिमित्तभवनप्रकारेण न गृह्यते घटत्वेन, कपालत्वेन गृह्यते, अतस्तेषां सिद्ध्यत्येवास्मन्मतेन तिरोभूतावग्रहणं घटपार्थिवरूपाद्युदकानाम् , तेन रूपेणानुपलब्धिर्विनाशो विशेषेणादर्शनमन्यथोपलब्धिरेवानुपलब्धिरिति, तस्य भावनाप्रश्नः 15 कथं कृत्वेति, व्याकरणं-यथासंख्यनिर्देशा हीत्यादि, मृदिति द्रव्यार्थभवनैक्यादेकसंख्ययोच्यते, रूपादय इत्याविर्भावतिरोभावपर्यायभवनभेदात् बहुत्वसंख्ययोच्यन्ते,उभयेऽपि शिवकाख्यां लभन्ते, स्वेन रूपेण चाविनष्टाः, कस्मादविनष्टा आत्मनेति इति चेत्, तत्तत्स्वभावभूतेरेव-तेन पिं[डा]श्माभिघातादिस्वपरापेक्षेण स्वभावेन
तद्धेतुश्च सिद्ध एवेति भावः। द्वयोरप्युत्तर स्वयं प्रतिलयेऽप्यग्रहणस्य तुल्यत्वात् पश्चादग्रहणमसंज्ञापकमित्याह-इदमसंज्ञापकमिति। आविर्भावतिरोभावात्मकः प्रतिलय एव विनाशो भावानाम् , आविर्भावतिरोभावात्मकभावत्वादेवाकृतकः, अकृतकत्वादेव मृदादिर्भावः 20 क्रमेण नियमेनच वर्तत इत्याशयेन व्याचष्टे-यस्मात् स्वयं विनाशेऽपीति। अकृतको भावः क्रमेण पिण्डशिवकस्तूपकस्थासकादिना नियतां वृत्तिं प्राप्नोति स्वयमेव, पिण्डाच्छिबक; ततः स्तूपकः, ततः स्थासक इतीति दर्शयति-क्रमनियमेति । कारकान्तराण्यपि दण्डचक्रसूत्रसलिलकुलालादिरूपाणि भवन्त्येव तेन सह भवन्ति क्रमनियमेन, खपरापेक्षभवनखभावत्वात् , पिण्डशिबकादिभवनस्य कारकान्तरापेक्षखभावत्वात् , इत्थं क्रमेण पिण्डशिबकादिरूपेण स्वपरापेक्षभवनरूपेण विशेषाणां प्राप्तवृत्तौ भावे पूर्वदृष्टघटपर्यायस्य कपालत्वेनाविर्भावे अश्माभिघातादिनिमित्तभवनरूपेण घटभावस्य तिरोभवनात् तदानीं न तस्य ग्रहणं भवतीत्याह-कर्नादीति। 25 तस्मात् परनिमित्तापेक्षभवनखभावत्वात्तिरोभावस्य तद्भवने चास्मन्मतेनाग्रहणं घटपार्थिवरूपसलिलादीनामित्याह-अतस्तेषामिति, भावस्याविर्भावतिरोभावयोः स्वपरापेक्षभवनस्वभावत्वादेव घटपार्थिवरूपादीनां घटत्वादिनाऽनुपलब्धिः, सैव विनाशो विशेषेणादर्शनमन्यथोपलब्धिरुच्यते पर्युदासवृत्त्या, न तु प्रसज्यप्रतिषेधेनोपलब्ध्यभावः तस्य निःस्वभावत्वादिति भावः। उक्तमेव भावयतिकथं कृत्वेति, मृत् कथं कृत्वा शिबकाद्याख्यां लभत इत्यर्थः । भावयति-यथासंख्येति रूपादिविशिष्टा मृदेव शिबकायाख्यां लभते स्वखरूपमजहती यथासंख्यता च मृदो द्रव्यत्वेनैकविधभवनात्मकत्वादेकवचनान्तनिर्देशः, रूपादय इत्याविर्भावतिरोभावपर्यायाः 30 तद्भवनस्यानेकविधत्वात् बहुवचनान्तनिर्देशः तत्र शिबकादिसंज्ञा न मृद एव न वा रूपादीनामेव किन्तूभये शिवकादिसंज्ञा लभन्ते तत्रापि ते न स्वयं विनष्टाः सन्तः, किन्तु खखरूपमत्यजन्तः, कुतो हेतोः स्वखरूपेणाविनष्टाः तेन तेन स्वभावेन खपरापेक्षेण भव
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org