Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
________________
११८६
न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् तवृत्तेः ससाधननाभिक्रिया-तस्याः शाश्वताशाश्वतधर्मस्वतत्त्वायाः कारणाभ्यां द्रव्यार्थपर्यायार्थाभ्यां कारितं, स्वतत्त्वं विदधतो जिनवचनस्यानुगमात् ।
एषामित्यादि, एषामशेषनयानां किं निबन्धनमिति चेदुच्यते, एषामशेषशासननयाराणां-अशेषशासनान्येव जैमिनीयोपनिषदादीनि नयाः-अरस्थानीयानि स्याद्वादतुम्बस्य नयचक्रस्य, तेषामशेषशासन5 नयाराणां च भगवदर्हद्वचनमुपनिबन्धनम् , जिनवचनमहासमुद्रस्यैव तरङ्गा एते, तथा च तत्र तत्र भावितम् , यथाऽऽचार्यसिद्धसेनश्वाह-'भदं मिच्छादसणसमूहमइयस्स अमयसारस्स । जिणवयणस्स भगवओ संविग्गसुहाहिगम्मस्स ॥ (सं० का० गा० ५९) इति तेषाञ्चाशेषशासन[नया]राणां द्रव्यार्थपर्यायार्थनयौ द्वौ समासतो मूलभेदौ, तत्प्रभेदाः सङ्ग्रहादयः 'तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दव्वट्ठियो य पज्जवणयो य सेसा विकप्पासिं' (सं० का० १ गा० ३) इत्यादिव्याख्यानात् , तत्र द्रव्यार्थस्य 10 विकल्पाः षट् संक्षेपेणात्रोक्ताः, पर्यायार्थस्य षट् , तेषामुपग्राहकं जिनवचनं तद्यथा-'इमाणं भंते ! रयण
प्पभा पुढवी किं सासता असासता, इति पृष्टे व्याकरणं 'सिया सासता सिया असासता' इति समग्रादेशात्, पुनः से केणटेणं भंते ! एतं एवं वुञ्चति सिता सासता सिता असासता' इति व्याख्यातार्थः प्रश्नः, तस्य विकलादेशाद्व्याकरणं रत्नप्रभायाः स्वतत्त्वमुभयात्मकं विभागेन विदधाति, तद्यथा 'दव्वट्ठताए सासता वण्णपज्जवेहिं गंधपजवेहिं रसपज्जवेहिं फासपज्जवेहिं संठाणपज्जवेहिं असासता' (जीवा० सू० 15 ३-१-७८) इति तदनुपातवृत्तेः ससाधननाभिक्रिया, तस्या रत्नप्रभायाः शाश्वताशाश्वतधर्मस्वतत्त्वायाः
कारणाभ्यां द्रव्यार्थपर्यायार्थाभ्यां प्रत्येकषड्विकल्पाभ्यां कारितं स्वतत्त्वमनेकान्तात्मकं विदधतो जिनवचनस्यानुगमात् । मित्याह-एषामिति । व्याचष्टे-अशेषशासनान्येवेति, अशेषशासनान्येव नया वस्त्वेकदेशविषयत्वात् , तानि च शासनानि
जैमिनिप्रोक्तं मीमांसाशास्त्रमुपनिषत्-पुरुषादिशास्त्रं कपिलकणादादिप्रोक्तानि सांख्यवैशेषिकादीनि च, तान्येव स्याद्वादतुम्बस्यार20 कल्पानि तेषां च शास्त्राणां मूलमर्हद्वचनमेव, निखिलशास्त्राणि तरङ्गाः अवयवाः भगवच्छासनं महासमुद्रोऽवयवीति भावः ।
अत्रार्थे सिद्धसेनाचार्यवचनमुपन्यस्यति-यथा चेति, भद्रं मिथ्यादर्शनसमूहमयस्यामृतसारस्य । जिनवचनस्य भगवतः संविग्नसुखाधिगम्यस्य ॥स्पष्टोऽर्थः । अशेषशासनान्येतानि द्रव्यार्थपर्यायार्थतया संक्षेपेण विभक्कानि, ययोः प्रभेदाः सङ्ग्रहव्यवहारनैगमर्जुसूत्रशब्दसमभिरूद्वैवम्भूता इत्याह-तेषाञ्चेति । आचार्यसिद्धसेनवचनमाह-तित्थयर इति, तीर्थकरवचनसङ्ग्रहविशेषप्रस्तार
मूलव्याकरणी। द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकपा एषाम् ॥ भगवदर्हद्वचनमाचारादि तस्य सङ्ग्रहविशेषौ सामान्यविशेषा25 वभिधेयभूतौ, तयोः प्रस्तारः सङ्ग्रहव्यवहारादिः, तस्य मूलतो व्याकर्ता आद्यवक्ता ज्ञाता वा द्रव्यार्थिकः पर्यायार्थिकश्च, तयोश्च
नैगमसङ्ग्रहादयो विकल्पा भेदा इति तदर्थः। अस्मिन् शास्त्रे द्रव्यस्य विकल्पा विध्यादयः षण्णयाः, पर्यायार्थिकस्य चोभयोभयनयादयः षट् इत्याह-तत्रेति । तेषां द्वादशानामुपनिबन्धनं जिनवचनं दर्शयति-तेषामुपग्राहकमिति, रत्नप्रभां पृथिवीमाश्रित्य तत्त्वज्ञानार्थ सा किं शाश्वती उताशाश्वतीति प्रश्ने द्रव्यार्थपर्यायााँभयस्वरूपसमग्रादेशाझ्याकरोति स्याच्छाश्वती स्यादशाश्वतीति, इदमेवाह-'इमाणं' इति । समग्रादेशाद्विदिततत्त्वत्वेऽपि तत्तदादेशे किंवरूपा भवतीति विज्ञानाय केनाभिप्रायेण शाश्वतत्त्वम30 शाश्वतत्वं वा प्रोच्यत इति पृच्छति-'सेकेण' इति । रत्नप्रभायाः शाश्वतत्वाशाश्वतत्वोभयात्मकं सत्त्वं विकलादेशमाश्रित्य विभागेन व्यवस्थापयति-द्रव्वट्ठताए इति । तदनुपातवृत्तेरिति, उक्तार्थस्य साधनपूर्वकनाभिक्रियां दर्शयति, शाश्वताशाश्वतौ
१ सि. डे. क्ष. स्वतत्त्वानु०मात्मकं । २ सि. क्ष. डे. वृत्ते साधनमधननाभिग । छा. वृत्तेसासधननाभि०। ३ सि. क्ष. छा.डे. द्रव्येकषड् ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364