Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 307
________________ .mommmmmmm १९८४ न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् च तैः प्रत्येकं विधिविधिना शून्यवादे प्रतिषिद्धे यथारुचितमभिसम्बन्धः, शून्यवादस्यापि येन केनचिदेकादशानामन्यतमेनान्तरितस्य सम्बन्धोपपत्तेः। (तदिति) तदेकान्तायुक्तत्वस्थापना त्वेकान्तवादानां परस्परसंयुक्तत्वमापाद्य प्रत्येकशो द्विशो यावद् द्वादशारशः सप्रभेदस्तेषामुपरि विधिनयः, प्रथमोक्तो द्रष्टव्यः, तत्स्मारणं यथालोकपरिग्रहमेव 5 वस्त्वितीति तदुत्थानादिग्रन्थग्रहणात् समस्तारसूचनम् , तद्व्यावर्त्तितेत्यादि-तेन विधिनयेन व्यावर्तितयोः सविकल्पयोः सामान्यविशेषयोरुद्धारार्थ विधिनियमविधिः, ततः तन्निवर्त्तनार्थमुभयोभयनय इत्ययमपि क्रमो यावत् पुनरयं विधिविधिरिति, यथा चानेनेत्यादि, यथा चानेन विधिविधिनयेनैकान्तायुक्तत्ववादिना शून्यवादपूर्वपक्षस्य सम्बन्धः तथैवैकैकेन तद्विधेन द्रव्या भेदेन], यथा च तैरित्यादि-यथा च द्रव्यार्थभेदैः प्रत्येकं विधिविधिनयेनैव योगः शून्यवादस्य, तथा शून्यवादे प्रतिषिद्धेऽपि तदनन्तरमेव विध्यादीनां द्वादशा10 नामप्यराणां यथारुचितमभिसम्बन्धः, शून्यवादस्यापि येन केनचित् , एकादशानामन्यतमेनान्तरितस्य सम्बन्धोपपत्तेः, प्रत्येकं जगत्स्वभावप्रतिपादनसमर्थानां व्यापिनां येनकेनचिदिति वचनात् , यदि विध्यरनयादीनां समनन्तरेणैकाद्यन्तरितेनोत्तरेषाञ्च पूर्वेण समनन्तरातीतेनैकाद्यन्तरितातीतेनेत्यविरुद्धक्रमेण उत्क्रमक्रमाभ्यां वा सम्बन्धोऽस्तीत्यर्थः । तस्माच्च द्वादशान्यतमारानन्तरोत्थानक्रमसम्बन्धेन सर्वकुमतपक्षाणां व्यवस्थायाश्चेश mmmmmmm 15 द्वाभ्यां त्रिभिश्चतुभिर्यावदेकादशभिमिलित्वा एकान्तेन शून्यताया वादस्यायुक्तत्वं स्थापयन्ति, तथा विवदमानानां तेषामुपरि विधिनयः समुजम्भते किमर्थ यूयमित्थं विवदध्वे यथा लोकग्राहमेव वस्तु भवति नहि तल्लोकाभिप्रायमतिवत्तते, परीक्षकाणान्तु सामान्यविशेषयोः स्वपरविषयतायामनुपपत्तेरसत्त्वाल्लोकाभिप्रायात्तयोविवेकाय शास्त्रेषु यत्नो वृथैवेतीत्याशयेनाह-तदेकान्तायुक्तत्वेति, शून्यवादैकान्तायुक्तत्वेत्यर्थः । विधिनयोक्तिमेव स्मारयति-यथा लोकेति । वचनमिदं विधिनयोत्थापकमादिवाक्यम् , तस्यैवात्र प्रदर्शनात् , सामान्यविशेषौ हि खविषयौ परविषयौ वा स्यातामिति ग्रन्थमारभ्य निखिलो ग्रन्थो विधिनयारे वर्णितो भाव्य इति 20 सूचयतीत्याह-इति तदुत्थानेति, इत्याकारकतदुत्थानेत्यर्थः । तदेवं विधिनयेन स्वपरविषयविकल्पविशिष्टयोः सामान्यविशेषयोः प्रतिषिद्धयोः समुद्धरणाय समानकक्षसामान्यविशेषद्वयात्मकनिखिलवस्तुप्रतिपादकविधिनियमविधिनयस्य षष्ठस्य समुत्थानं तन्निराकरणाय सप्तमस्य तदुद्धारायाष्टमस्येत्येवं यावदयं शून्यवादैकान्तनिरासको विधिविधिनय इत्येवं क्रमोऽपि भवतीत्याह-तेन विधिनयेनेति । शून्यवादस्य साक्षात् सम्बन्धो द्रव्यार्थेन विधिविधिनयेनैव. तदितरद्रव्यार्थमेदैस्तु तद्वारेणेत्याह-यथा चानेनेति शून्यवादरूपस्य पूर्वपक्षस्य एकान्तायुक्तत्ववादिना विधिविधिनयेन सह सम्बन्धो यथास्ति तथैवैकैकद्रव्यार्थनयेनैकान्तायुक्तत्व25 वादिना सहापि सम्बन्धोऽस्त्येवेत्यर्थः । कथं सम्बन्धोऽस्तीत्यत्राह-यथा चेति । द्रव्यार्थभेदानामन्यतमेन सहितेन विधिविधिनयेनैव शून्यवादस्य योगः, एकद्रव्यार्थमेदविशिष्टविधिविधिनयेन शून्यवादे निराकृते तदुपरि विध्यादिद्वादशानामराणां मध्ये यथारुचि येन केनचित् नयेन सह विधिविधिनयोऽभिसम्बध्यते प्रतिक्षेपकतया,न ह्यनेनैव नयेन सहितेन विधिविधिनयेन सह शून्यवादस्य सम्बन्ध इत्यस्ति नियमः किन्तु येन केनचित् युक्तेन विधिविधिना सह, अत एव यथारुचितमभिसम्बन्ध इत्युक्तमिति भावः। सर्वे हि नयाः जगत्स्वरूपं प्रतिपादयितुं क्षमा व्यापिनश्च, तेष्वेकेन येन केनचिदन्तरितेन शून्यवादस्य सम्बन्धो भवतीति दर्शयति-शून्यवा30 दस्यापीति । येन केनचिदित्यस्य भावमेवाचष्टे-यदीति, विधिनयादेविधिविधिनयादिना विधिविधिनियमनयादिना वाऽविरुद्ध क्रमेण सम्बन्धः, एवमुत्तरेषां विधिविधिनियमादिनयानां वाव्यवहितपूर्वेण विधिविध्यादिनयेन, तत्पूर्वेण विध्यादिनयेन वाऽविरुद्धोत्क्रमेण सम्बन्धो विज्ञेय इति प्रतिभाति । तेषां द्वादशानां नयानामीशनायेदं नयचक्रशास्त्रमित्याह-तस्साच्चेति । १ छा. ययालोकपरिसहमेव वस्त्वितिरिति । २ सि.क्ष. छा. यावत्पुनरयमविधिरिति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364