Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
________________
११८५
नयोपग्रह कार्षवचनम् ]
द्वादशारनयचक्रम्
नार्थ सर्वमिदं नयचक्रशास्त्रं क्रमते, एवमेवास्य शास्त्रस्य नयानां चक्रं नयचक्रं नयसमूह इत्यन्वर्थसंज्ञा स्यात्, यथा चास्मादेवं सर्वेभ्योऽपि सर्वनयानामुत्थानमविरुद्धम् ।
wwwwww
( तस्माच्चेति) तस्माच्च - सर्व [[ ] भावव्यावर्त्तनान्तर सम्बन्धा [त] द्वादशानामन्यतमादरादनन्तरस्योत्थानं तत्तदरदूषणार्थं क्रमः, तेन क्रमेण सम्बन्धेन सर्वकुमतपक्षाणां - मिथ्यादृष्टिप्रणीतशास्त्राणां व्यवस्थायाश्वेशनार्थं सर्वमिदं नयचक्रशास्त्रं क्रमते, सर्वैक्यभावापादितस्याद्वादानपेक्ष सर्वनयमिध्यादृष्टि- 5 त्वात्, तत्र तत्र च तद्दौर्विहितस्य प्रतिपादितत्वात् परस्परविहितपक्षाणां क्रमेणोक्तार्थानुसारेण सर्वेषामन्योन्यदूषणत्वात्, एवमेवेत्यादि - एवञ्च कृत्वाऽस्य शास्त्रस्य नयादीनां चक्रं नयचक्रं नयसमूह इत्यन्वर्थसंज्ञा नयानां स्वपरमतसाधनदूषणसमर्थानां समूहत्वात् नयन्तेऽर्थान् प्रापयन्ति नयन्ति गमयन्तीति नयाः, वस्तुनोऽनेकात्मकस्यान्य त मैकात्म कैकान्तपरिग्रहात्मका नया इति तेषां चक्रम्, एवं तावदस्मादन्त्याच्छ्रन्यवादात् सर्वनयोत्थानं न विरुध्यते, यथा चास्मादेवं सर्वेभ्योऽपि - यथैवैतस्मान्नायादुत्थानं सर्वनयानाम - 10 न्त्यादविरुद्धं तथा सर्वेभ्योऽपि सर्वस्मादेकैकस्मादपि नयात् सर्वनयानामुत्थानमविरुद्धमेव, सर्वस्य सर्वेण सह विरोधित्वे सति विवादसद्भावात् ।
स्यात्,
एषामशेषशासननयाराणामुपग्राहकं जिनवचनं तद्यथा - इमाणं भंते ! रयणप्पभा पुढवी किं सासता असासता इति पृष्टे व्याकरणं सिया सासता सिया असासता इति समग्रादेशात्, पुनः, से केणणं भंते एतं एवं वुच्चति सिया सासता सिया असासता, तस्य विकलादेशाद्व्याकरणं, रत्नप्रभायाः स्वतत्त्वमुभयात्मकं विभागेन विदधाति तद्यथा दव्वट्टताए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं संठाणपज्जवेहिं असासता इति तदनुपा
विधिविधिनयेन सर्वाभावो व्यावर्त्तितः, तदनन्तरं तेन सम्बद्धात् द्वादशानामराणामन्यतमादरादनन्तरस्यारस्योत्थानं तदरप्रतिक्षेपाय भवति, ततस्तदुत्तरनयोत्थानमपि तदरप्रतिक्षेपायेत्येवं क्रमः, एवं क्रमेण विवदमानाः सर्वे पक्षाः कुमतान्येव, मिथ्यादृष्टित्वात्, तानेतान् पक्षान् व्यवस्थापयितुमीशनार्थं इदं सर्वं नयचक्रशास्त्रं प्रवर्त्तत इति व्याकरोति तस्माच्च सर्वाभावेति । 20 हेतुमाह सर्वं कुमतपक्षाणां मिथ्यादृष्टित्वे - सर्वैक्येति, स्याद्वादो हि सर्वेषां पक्षाणामैक्यमापादयति, उदासीनमध्यनृपतिवत् परार्पणस्वरूपात्संश्रयगुणाद्विजिगीषूणां परस्परविरुद्धानां परिपालनात्, स हि स्याद्वादः सर्ववादभेदयाथार्थ्योपग्राहयिता परस्परसाम्यावस्थापनेन परिपालनात् त्राता, एवंविधस्याद्वादानपेक्षया प्रवृत्ताः सर्वे नयाः सम्यग्दर्शनविलोपकत्वान्मिथ्यादृष्टय इति भावः । तत्र तत्रेति, विध्यादिनयनिरूपणावसरे तेषां मिथ्यादृशां दुर्विहितत्वं प्रतिपादितमेवेति भावः । विध्यादिक्रमेणैकेन प्रतिष्ठापितार्थस्य परेण दूषणादव्यवस्थितार्थत्वमित्याह - परस्परेति, प्रोक्तक्रमेण परस्परेण विहितपक्षाणां अन्योन्येन दूषितत्वादिति भावः । यत 25 एव नयाः क्रमोक्रमाभ्यां परस्परपक्षदूषण स्वमतव्यवस्थापनपराः अत एव स्वपरमतसाधनदूषणसमर्थानां नयानां समुदाय - रूपत्वादेतच्छास्त्रं नयचक्रमुच्यत इत्याह-एवञ्च कृत्वेति । नयशब्दार्थमाह- नयन्त इति । वस्तु सामान्यविशेषाद्यनेकात्मकम्, तदेकदेशभूतं यं कश्चिदशमुपादायैकान्तेन तस्यैव समर्थनरूपत्वान्नयानामिदं प्रथमत्वं न कस्यापीति यस्मात्कस्मादपि नयादारभ्येतरेषामुत्थानं सम्भवतीत्याह एवं तावदिति, उत्थाने नियामकाभावात् विरोधाभावाश्च यस्मात् कस्मादपि नयादितरेषा - मुत्थानं सम्भवति सर्वेषां नयानां सर्वैः सह विरोधेन विवादसद्भावात् न ह्ययं नयोऽनेनैव विरुध्यत इत्यस्ति नियम इति भावः । 30 एते नया न स्वतंत्रा न वा निर्मूलाः किन्तु जिनवचनमहासमुद्रस्य तरङ्गरूपाः, अत एव सर्वनयानां जिन प्रवचनमेव निबन्धन
१ सि. क्ष. छा. डे. सम्बन्धा । २ सि. क्ष. छा. डे. या श्रेष्टेनार्थं ।
Jain Education International 2010_04
15
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364