Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 298
________________ wwww घटादेरभिव्यक्तिकथनम्] द्वादशारनयचक्रम् ११७५ तस्मात् सततम[व]स्थानमेव वस्तुनः, तदुपसंहरति-अतोऽसौ तथाऽवस्थित एकस्वभावो निर्भेद इति भेदासम्भवात्-भेदसम्भवकारणाभावात् , तद्दर्शयति वैधप॑ण-उत्पादविनाशाभ्यां हि भेदः सम्भाव्येत, स तूक्तविधिनाऽनाद्यनन्तत्वान्न भवतीति । . अत्राऽऽह. नन्वनिष्ठितं प्राक् पश्चादारम्भात् , आरम्भवचनात् , तत्र यदि निष्ठितं स्यात् निष्ठितत्वा- 5 नारभ्येत निष्पन्नघटवदिति, इदं विप्रतिषिद्धं यद्यनिष्ठितं अनिष्ठितत्वादसत् खपुष्पवत् , इतरो घटवत्, यथा घटो मृद्रूपादित्वेन निष्ठित एव सन्नाकारान्तरव्यक्तिरूपतो व्यज्यते, यदि न तथाऽऽरभ्येत किं न खपुष्पादद्रव्यादेवोऽऽरभ्यते । नन्वनिष्ठितमित्यादि, ननूक्तं 'द्रव्याणि द्रव्यान्तरमारभन्ते-पृथिव्यादिपरमाणुद्रव्याणि स्वतः खात्मनि द्वे बहूनि वा परस्परसंयोगापेक्षाणि आरभन्ते, कार्यद्रव्यमन्यत्, गुणाश्चारम्भकचतुर्विधद्रव्यसम-10 वेताः स्वैरारब्धे कार्यद्रव्ये नियम[त] एव स्वतः परात्मनि गुणान्तरमारभन्ते, कर्म संयोगविभागसंस्कारानारभते परतः परात्मनि' ( ) इत्यादिनाऽऽरम्भवचनेनानिष्ठितं प्राक् पश्चादारम्भात् क्रिया क्रियातो निष्ठेत्यनिष्ठितम् , तत्र यदि निष्ठितं स्यात् निष्ठितत्वान्नारभ्येत निष्पन्नघटवदित्यत्र ब्रूमः-इदं विप्रतिषिद्धमित्यादि, विप्रतिषेधं भावयति-यद्यनिष्ठितमित्यादिना, अनिष्ठितत्वादसत् खपुष्पवत् , असत्त्वात्तद्वन्नारभ्यते, इतरो घटवदिति वैधHदृष्टान्तः यथा घटो मृद्रूपादित्वेन निष्ठित एव सन्नाकारान्तर-15 wwwmummmm अनाद्यनन्ता मूर्तिर्येषां मूर्तीनां तद्वदमूर्तमप्यनाद्यनन्तमेव, स्वस्वरूपापरित्यागादिति भावः । एवञ्च मू"मूर्तीनां सततास्तित्वमेवेयेकवभावत्वमत एव च निर्भेदरूपत्वमित्याह-अतोऽसाविति । हेतुमाह-भेदासम्भवादिति, भेदस्य सम्भवे कारणमेव नास्तीति भावः। किं कारणं भेदस्य सम्भवे स्यात् यदभावान्निर्भेदमेकरूपं स्यादित्यत्राह-उत्पादेति, यदि ह्युत्पादविनाशौ स्तो भावस्य तदायं घटो न पटो भिनखभावत्वात् , अयन्तु पट एव न घटो भिन्नस्वभावत्वादिति भेदः सम्भाव्येत, यदा तु खस्वरूपापरियागादनाद्यनन्तत्वं तदा कथं भेदस्य सम्भव इति भावः । ननु वस्तुनः स्थित्यैकरूपत्वाभ्युपगमे आरम्भोऽप्यभ्युपगत एव 20 निष्ठानस्यारम्भपूर्वकक्रियापूर्वकत्वात् अभ्युपगते त्वारम्भे ततः प्राक् पश्चादनिष्ठितत्वं प्राप्नोतीति शङ्कते-नन्वनिष्ठितमिति । वैशेषिकशास्त्रे द्रव्यस्यारम्भ उक्त इति वर्णयति-ननूक्त मिति, द्रव्याणि द्रव्यान्तरमारभन्ते इति वचनं व्याचष्टे-पृथिव्यादीति, पार्थिवादिचतुर्विधपरमाणुद्रव्याणि खतो भिन्नं कार्यद्रव्यं समवायिकारणरूपे स्वात्मनि परस्परसंयोगस्वरूपासमवायिकारणमपेक्ष्याऽऽरभन्ते द्वे परमाणुद्रव्ये व्यणुकं बहूनि व्यगुरुद्रव्याणि त्र्यणुकं बहूनि व्यणुकद्रव्याणि चतुरणुकमिाते भावः । पार्थिवादिचतुर्विधपरमाणुगता रूपादयो गुणाः परमाणुभिरारब्धे कार्यद्रव्ये परात्मनि स्वसजातीयगुणारम्भकत्वनियमात् गुणान्तरराण्यारभन्त 25 इत्याह-गुणाश्चेति । कर्म संयोगं विभागं वेगं स्थितिस्थापकञ्च द्रव्ये आरभत इत्याह-कर्मेति, द्रव्यं खतः खात्मनि द्रव्यान्तरमारभते गुणः स्वतः परात्मनि गुणान्तरम् , कर्म च परतः परात्मनि संयोगादीनिति भावः । अनेनारम्भंवंचनेनाऽऽरम्भात् पूर्व पश्चाच्च वस्त्वनिष्ठितमित्याह-इत्यादिनेति। कुतस्तथाऽनिष्ठितमित्यत्राह-आरम्भादिति, निष्ठानस्याऽऽरम्भपूर्वकक्रियापूर्वकत्वादित्यर्थः । यद्यनिष्ठितत्वमनङ्गीकृत्य निष्ठितत्वमेवेयभ्युपगम्यते तारम्भ एव न स्यात् निर्वृत्तघटवदित्याह-तत्र यदीति, एवञ्चारम्भात् प्राक् पश्चाच वस्तुनोऽनिष्ठितत्वेन मध्येऽप्यनिष्ठिनत्वं स्यादिति शून्यवाद्यभिप्रायः । अनिष्ठितस्यैवाऽऽरम्भो भवति 3) निष्ठितस्य नारम्भो निष्ठितत्वादिति मतमेव विप्रतिषिद्धमिति समाधत्ते-इदमिति । वस्तुनोऽनिष्ठितत्वे खपुष्पवदसत् स्याद्वस्तु तथासति च खपुष्पवदेव नारम्भविषयोऽसत्त्वादित्याह-अनिष्ठितत्वादिति । निष्ठितमेवारभ्यत इति वैधयं दर्शयति-यथेति. मृदादिरूपेण निष्ठित एव घटः, तस्मादेव चाऽऽकारान्तरस्य पृथुबुनादेर्व्यक्तिः-व्यञ्जनं प्रकाशो भवति, तेन रूपेण पृथिव्यादिना घटादि द्वा० न० २३ (१४८) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364