Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 299
________________ wwwww ११७६ न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् व्यक्तिरूपतो व्यज्यते पृथुबुध्नोर्द्धग्रीवादिना, [यदि] न तथारभ्येतेति, तद्व्यक्तिः, किं न खपुष्पादद्रव्यादेर्वाऽऽरभ्यत इति, द्रव्यगुणकर्मादिभेदवद्वस्तुविपरीतात् कुतश्चिदनारम्भानिष्ठितत्वादेव उत्पत्तिरभिव्यक्तिरारम्भः । एतदुक्तं भवति संक्षेपतस्तद्रूपशक्तिविवर्त्तमात्रन्त्वेतत्सर्वम् , भावैकत्वात्, अतो 5 नानिष्ठितं निष्ठितमेव वस्तु, अनारब्धारब्धत्वात् , यच्चानारब्धारब्धं तन्निष्ठितमेव, शिक्यकादिवत् , यथाऽनारब्धमपि शिक्यकत्वेन सूत्रं शक्तत्वान्निष्ठितमेवमन्यदपि वस्तु, अथैवमपि नेष्यते अनारब्धानि तानि, अनिष्ठितत्वात् खपुष्पवत् । (एतदिति) एतदुक्तं भवति संक्षेपतः तद्रूपशक्तिविवर्त्तमात्रन्त्वेतत् सर्वमिति किं कारणं ? भावैकत्वात्-एकस्यैव पुरुषादेर्भावस्य कारणमात्रस्य विजम्भितत्वात् कार्यत्वावस्थामात्रभेदेन, तदुपसंहृत्याह10 अतो नानिष्ठितमित्यादि, निष्ठितमेव वस्तु नानिष्ठितम्, कस्मात् ? अनारब्धारब्धत्वात्-अनारब्धं कर्माभि व्यक्तिरूपेण, आरब्धं केवलकारणकालीनशक्त्यवस्थत्वेन, यच्चानारब्धारब्धं तन्निष्ठितमेव नानिष्ठितम् , किमिव ? शिक्यकादिवत्-यथाऽनारब्धमपि शिक्यकत्वेन सूत्रं शक्तत्वान्निष्ठितमेवमन्यदपि वस्त्विति, यथा यज्ञोपवीतसूत्रादिदृष्टान्तैर्भावयितव्यम् , अथैवमपीत्यादि-इत्थं युक्त्या प्रतिपादितमप्यवस्थानं वस्तुनो य॑ज्यत इति भावः । इत्थमेव निष्ठितादारम्भो नान्यथा, यदि तु निष्ठितात्तथा नारभ्येत तदा खपुष्पादद्रव्यादेर्वा कुतो नारभ्यते 15 किञ्चिदित्याह-यदि न तथेति, तव्यक्तिरिति शेषः । उपसंहरति-द्रव्यगुणेति, द्रव्यं गुणः कर्म वा मेदवद्वस्तु, द्रव्याणीत्यादि दर्शितवचनात् , ततो विपरीतात् कुतश्चिदारम्भो न भवति, द्रव्यगुणकर्माणि च निष्ठितानि, तस्मादेव चोत्पत्तिर्वाऽभिव्यक्तिर्वाऽऽरम्भपदवाच्या भवतीति भावः । पुरुषविवर्त्तमात्रं पृथिव्यादि सर्वम् , तस्यैव मूर्तामूर्तमेदेन विपरिवृत्तरित्याह-एतदुक्तं भवतीति । पुरुषो हि चेतनाचेतनरूपेग भवनशकः तस्यैवैतत्सर्व वित्तमात्रम्, जाग्रत्सुप्तसुषुप्ततुरीयाख्यचतुरवस्थं जगत् ताश्चावस्था: पुरु षस्य ज्ञस्यैव भवनोपपत्तेरन्यस्य भवितुरभावात् पुरुषो भाव एकश्च तस्यैव च कार्यभूतावस्थाभेदेनेदं सर्व विजृम्भितमियाशयेनाह20 एतदुक्तमिति । हेतुमाह-भावकत्वादिति, पुरुष एवाद्वितीयो भावो घटपटादिविचित्रकार्यजननयोग्यतात्मकशक्तिमत्त्वेन शक्तिवैचित्र्यात् जाग्रदादिविचित्रावस्थारूपेण कार्यात्मतया विज़म्भते, पुरुषस्यैकत्वाच्च सर्वकार्यजातस्यैकत्वं तस्यैव विजंभितत्वाजगतः स जगचैको भवतीति भाव इति तात्पर्यम् । एवञ्च पुरुषात्मकं वस्तु आरब्धमनारब्धमपि यदा पुरुषः कार्यरूपेगाभिव्यक्तो भवति तदानारब्धः, यदा च तच्छक्तिरूपेण कारणात्मनाऽस्ते तदाऽऽरब्धः तथा चानारब्धारब्धत्वानिष्टित मेव वस्तु नानिष्ठितमित्याह-अतो नानिष्ठितमित्यादीति, जगतो विचित्रशक्तिमत्पुरुषविज़म्भणमात्रत्वादेवेत्यर्थः । 25 हेतुमाह-अनारब्धेति । कथं वस्त्वनारब्धमित्यत्राह-अनारब्धमिति, कार्यात्मनाऽभिव्यक्त्यवस्थं वस्तु अनारब्धमित्यर्थः । कथमारब्धमित्यत्राह-आरब्धमिति, कार्याभिव्यक्तिप्राक्कालीनं कार्यशक्त्यवस्थं वस्त्वारब्धमित्यर्थः । एवञ्चानारब्धारब्धत्वाद्वस्तु निष्ठितमेव भवति, शिक्यकादिवदित्याह-यञ्चति । दृष्टान्तं घटयति-यथेति, यथा हि सूत्रं कारणं शिक्यक कार्यम् , यदा सूत्रं शिक्यकत्वेन न विजम्भितमनारब्धं केवलं तच्छक्त्यवस्थमारब्धं तदा तन्निष्ठितमेव भवति, तथा मृदाद्यपि वस्तु निष्ठितमेवेति भावः। आदिपदग्राह्याणि दृष्टान्तान्तराण्यपि भाव्यानीत्याह-यथा यज्ञोपवीतेति, यज्ञोपवीतसूत्रवत् तन्तुपटवत् , सर्पस्फटाटोपमुकुलप्र. 30 सारणकुण्डलीकरणवदित्यादयो दृष्टान्ताः, पूर्वोत्तरावस्थाभ्यां हि विच्छिन्नं न किञ्चिद्वस्त्वस्ति, यज्ञोपवीतपटस्फटाटोपाद्यवस्थानापन्नसू- तन्तुसणां तच्छक्त्यवस्थत्वान्निष्ठितत्वं यथेति भावः । इत्थं प्रमाणैरुपपादितमपि वस्तुनो निष्ठितत्वं यदि न मन्यते तदा दोषमाह इत्थं युक्त्येति, द्रव्याणि द्रव्यान्तरमारभन्त इति यदुक्तं तत्रारब्धाभिमतानि द्रव्यान्तराण्यप्यनारब्धान्येव स्युः, अनिष्ठि सि०२० डे. छा० वध्यते । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364