________________
wwwww
११७६
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् व्यक्तिरूपतो व्यज्यते पृथुबुध्नोर्द्धग्रीवादिना, [यदि] न तथारभ्येतेति, तद्व्यक्तिः, किं न खपुष्पादद्रव्यादेर्वाऽऽरभ्यत इति, द्रव्यगुणकर्मादिभेदवद्वस्तुविपरीतात् कुतश्चिदनारम्भानिष्ठितत्वादेव उत्पत्तिरभिव्यक्तिरारम्भः ।
एतदुक्तं भवति संक्षेपतस्तद्रूपशक्तिविवर्त्तमात्रन्त्वेतत्सर्वम् , भावैकत्वात्, अतो 5 नानिष्ठितं निष्ठितमेव वस्तु, अनारब्धारब्धत्वात् , यच्चानारब्धारब्धं तन्निष्ठितमेव, शिक्यकादिवत् , यथाऽनारब्धमपि शिक्यकत्वेन सूत्रं शक्तत्वान्निष्ठितमेवमन्यदपि वस्तु, अथैवमपि नेष्यते अनारब्धानि तानि, अनिष्ठितत्वात् खपुष्पवत् ।
(एतदिति) एतदुक्तं भवति संक्षेपतः तद्रूपशक्तिविवर्त्तमात्रन्त्वेतत् सर्वमिति किं कारणं ? भावैकत्वात्-एकस्यैव पुरुषादेर्भावस्य कारणमात्रस्य विजम्भितत्वात् कार्यत्वावस्थामात्रभेदेन, तदुपसंहृत्याह10 अतो नानिष्ठितमित्यादि, निष्ठितमेव वस्तु नानिष्ठितम्, कस्मात् ? अनारब्धारब्धत्वात्-अनारब्धं कर्माभि
व्यक्तिरूपेण, आरब्धं केवलकारणकालीनशक्त्यवस्थत्वेन, यच्चानारब्धारब्धं तन्निष्ठितमेव नानिष्ठितम् , किमिव ? शिक्यकादिवत्-यथाऽनारब्धमपि शिक्यकत्वेन सूत्रं शक्तत्वान्निष्ठितमेवमन्यदपि वस्त्विति, यथा यज्ञोपवीतसूत्रादिदृष्टान्तैर्भावयितव्यम् , अथैवमपीत्यादि-इत्थं युक्त्या प्रतिपादितमप्यवस्थानं वस्तुनो
य॑ज्यत इति भावः । इत्थमेव निष्ठितादारम्भो नान्यथा, यदि तु निष्ठितात्तथा नारभ्येत तदा खपुष्पादद्रव्यादेर्वा कुतो नारभ्यते 15 किञ्चिदित्याह-यदि न तथेति, तव्यक्तिरिति शेषः । उपसंहरति-द्रव्यगुणेति, द्रव्यं गुणः कर्म वा मेदवद्वस्तु, द्रव्याणीत्यादि
दर्शितवचनात् , ततो विपरीतात् कुतश्चिदारम्भो न भवति, द्रव्यगुणकर्माणि च निष्ठितानि, तस्मादेव चोत्पत्तिर्वाऽभिव्यक्तिर्वाऽऽरम्भपदवाच्या भवतीति भावः । पुरुषविवर्त्तमात्रं पृथिव्यादि सर्वम् , तस्यैव मूर्तामूर्तमेदेन विपरिवृत्तरित्याह-एतदुक्तं भवतीति । पुरुषो हि चेतनाचेतनरूपेग भवनशकः तस्यैवैतत्सर्व वित्तमात्रम्, जाग्रत्सुप्तसुषुप्ततुरीयाख्यचतुरवस्थं जगत् ताश्चावस्था: पुरु
षस्य ज्ञस्यैव भवनोपपत्तेरन्यस्य भवितुरभावात् पुरुषो भाव एकश्च तस्यैव च कार्यभूतावस्थाभेदेनेदं सर्व विजृम्भितमियाशयेनाह20 एतदुक्तमिति । हेतुमाह-भावकत्वादिति, पुरुष एवाद्वितीयो भावो घटपटादिविचित्रकार्यजननयोग्यतात्मकशक्तिमत्त्वेन
शक्तिवैचित्र्यात् जाग्रदादिविचित्रावस्थारूपेण कार्यात्मतया विज़म्भते, पुरुषस्यैकत्वाच्च सर्वकार्यजातस्यैकत्वं तस्यैव विजंभितत्वाजगतः स जगचैको भवतीति भाव इति तात्पर्यम् । एवञ्च पुरुषात्मकं वस्तु आरब्धमनारब्धमपि यदा पुरुषः कार्यरूपेगाभिव्यक्तो भवति तदानारब्धः, यदा च तच्छक्तिरूपेण कारणात्मनाऽस्ते तदाऽऽरब्धः तथा चानारब्धारब्धत्वानिष्टित
मेव वस्तु नानिष्ठितमित्याह-अतो नानिष्ठितमित्यादीति, जगतो विचित्रशक्तिमत्पुरुषविज़म्भणमात्रत्वादेवेत्यर्थः । 25 हेतुमाह-अनारब्धेति । कथं वस्त्वनारब्धमित्यत्राह-अनारब्धमिति, कार्यात्मनाऽभिव्यक्त्यवस्थं वस्तु अनारब्धमित्यर्थः ।
कथमारब्धमित्यत्राह-आरब्धमिति, कार्याभिव्यक्तिप्राक्कालीनं कार्यशक्त्यवस्थं वस्त्वारब्धमित्यर्थः । एवञ्चानारब्धारब्धत्वाद्वस्तु निष्ठितमेव भवति, शिक्यकादिवदित्याह-यञ्चति । दृष्टान्तं घटयति-यथेति, यथा हि सूत्रं कारणं शिक्यक कार्यम् , यदा सूत्रं शिक्यकत्वेन न विजम्भितमनारब्धं केवलं तच्छक्त्यवस्थमारब्धं तदा तन्निष्ठितमेव भवति, तथा मृदाद्यपि वस्तु निष्ठितमेवेति भावः।
आदिपदग्राह्याणि दृष्टान्तान्तराण्यपि भाव्यानीत्याह-यथा यज्ञोपवीतेति, यज्ञोपवीतसूत्रवत् तन्तुपटवत् , सर्पस्फटाटोपमुकुलप्र. 30 सारणकुण्डलीकरणवदित्यादयो दृष्टान्ताः, पूर्वोत्तरावस्थाभ्यां हि विच्छिन्नं न किञ्चिद्वस्त्वस्ति, यज्ञोपवीतपटस्फटाटोपाद्यवस्थानापन्नसू- तन्तुसणां तच्छक्त्यवस्थत्वान्निष्ठितत्वं यथेति भावः । इत्थं प्रमाणैरुपपादितमपि वस्तुनो निष्ठितत्वं यदि न मन्यते तदा दोषमाह
इत्थं युक्त्येति, द्रव्याणि द्रव्यान्तरमारभन्त इति यदुक्तं तत्रारब्धाभिमतानि द्रव्यान्तराण्यप्यनारब्धान्येव स्युः, अनिष्ठि
सि०२० डे. छा० वध्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org