________________
आदिनित्यतामङ्गः] द्वादशारनयचक्रम्
११७७ नेष्यते, अनिष्टापादनमिदं-अनारब्धानि तानि-द्रव्यान्तराण्यारब्धाभिमतान्यपि, अनिष्ठितत्वात् , खपुष्पवत् , अत्यन्तासत्त्वादित्यभिप्रायः।। ... अथोच्येत आदिः प्रत्यक्षत एव घटादेदृश्यते भेदहेतुः, अत्र पृच्छयसे स किं नित्यः ? उतानित्यः ? यदि नित्यः सर्ववस्तुनित्यता, आदिस्वरूपत्वात् तन्नित्यत्वाच्च, क्रियमाणनिष्ठितयोश्चाभावात् तथाजन्यभेदाभावः, ततश्चास्मदिष्टोऽवस्थानपक्ष एव जयति, आदिप्रत्यक्ष-5 प्रमाणीकरणाच क्रियानिष्ठाप्रत्यक्षद्वयपरित्यागः तयोश्च दृष्टव्यभिचारमितरत्रैकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यत इति पुनरपि तद्धानिरिति सर्वथा त्वयैव प्रत्यक्षमप्रमाणीकृतम् ।
अथोच्यतेत्यादि, आदिरुत्पत्तिः प्रत्यक्षत एव घटादेईश्यते, स च भेदहेतुः घटादेवस्तुनः, यदि ह्यनुत्पन्नाविनष्टं स्यात् स्यादभिन्नमिति, अत्र पृच्छयसे स किमित्यादि, स आदिरारम्भः स प्रत्यक्षाभिमतः किं नित्योऽनित्य इति निर्धार्यः, किश्चातः ? यदि नित्यः सर्ववस्तुनित्यता-सर्वेषां घटादीनाश्च वस्तूना- 10 मविशेषेण नित्यत्वं स्यात्, आदिस्वरूपत्वात् तन्नित्यत्वाच्च, अनिष्टश्चैतत् [एवं]ब्रुवतः, किश्चान्यत्क्रियमाणनिष्ठितयोश्वाभावात्तथाजन्यभेदाभाव:-आदेर्नित्यत्वादादेरेव च वस्तुत्वादारम्भ एव आदिसंज्ञोऽस्ति न क्रियानिष्ठे स्तः, तयोश्च क्रियमाणनिष्ठितयोरभावात् तथाजनयितव्यस्य तेन प्रकारेण घटादित्वेनोत्पाद्यखभेदस्याभावः, ततश्चास्मदिष्टोऽवस्थानपक्ष एव जयति, किश्चान्यत्-आदिप्रत्यक्षेत्यादि-आदिः प्रत्यक्षत एव भेदहेतुर्दश्यते इति विशेष्यादिरेव प्रत्यक्षः प्रमाणीकृतो न क्रियानिष्ठे, तयोः प्रत्यक्षयोरपि परित्यागश्च 15 कृतः, स च प्रत्यक्षविरोधादयुक्तः, तयोश्चेत्यादि, तयोश्च प्रत्यक्षयोः क्रियानिष्ठयोरप्रमाणीकरणे प्रत्यक्षमप्य
mmam
mmmmmmmmm
तत्वात् , खपुष्पवदिति कारणे द्रव्ये द्रव्यान्तराणां कार्याणां शक्त्यात्मनाप्यसत्त्वेनानिष्ठितत्वादत्यन्तासत्त्वादिति भावः। ननु घटादीनामादिरुत्पत्तिः प्रत्यक्षत एव दृश्यते, एवं च भेदसम्भवकारणसद्भावादेकस्वभावं निर्भेदमनुत्पादविनाशाभ्यामनाद्यनन्तं वस्त्विति कथमित्याशङ्कते-अथोच्येतेति । व्याख्याति-आदिरुत्पत्तिरिति, उत्पत्तौ सत्यामवश्यम्भावी वस्तुमेदः, अनुत्पन्न सदविनष्टत्वे. त स्यादभिन्नं वस्त्वित्यर्थः । प्रत्यक्षत्वेन तेऽभिमत आरम्भः किं नित्योऽनित्यो वेति विकल्प्य दोषमाह-अत्र पयस इति। 20 नित्यत्वपक्षेऽनिष्टमाह-यदि नित्य इति, यद्यादेनित्यत्वं तर्हि घटपटादिनिखिलवस्तूनामादेनित्यत्वात् तेषामपि नित्यता स्यात्, नित्यधर्मवद्धर्मिणो नित्यत्वात् , अन्यथा कस्यासावादिनित्यः स्यादिति भावः । घटादीनामादित्वस्य प्रत्यक्षदृश्यत्वं ब्रुवतस्ते तन्नित्यताऽनिष्टेत्याह-अनिष्टश्चैतदिति । आरम्भनित्यत्वे घटादिभेदानामभावान्निर्भेदमनाद्यनन्तं नियावस्थानरूपं वस्त्वेव सर्वोत्कर्षण वर्तत इत्यस्मत्पक्षस्यैव जय इत्याह-क्रियमाणेति, क्रियानिष्ठयोरभावः, आदेरारम्भसंज्ञस्य नित्यत्वाभ्युपगमात्, तथा च - क्रियानिष्ठाविषयाभावः कार्योन्मुखशक्तिनि कारणे परमाणुषु प्रधाने वा परस्परसंश्लेषाय प्रयोगाख्यः क्रिया जायते स एवारम्भः, तस्यां क्रियायां सत्यां कारणेषु कार्यव्यक्तिः प्रजायते, इयमेवोत्पत्तिरभिव्यक्तिर्वा क्रियेत्युच्यते जाता सा कार्यव्यक्तिः कारणशक्तिभिनियम्यते येन तत्रैव तिष्ठति, एवं वस्तुस्थितिरारम्भक्रियानिष्ठानाम् , एवञ्च क्रियानिष्ठयोरभावे जनयितव्यस्य-घटादित्वेनोत्पाद्यस्याभावात् कारणमात्रस्यावस्थानमेव प्राप्तं नादिर्नान्तो वा ततश्चास्मत्पक्षस्यैव सर्वोत्कर्षेण वर्तनं सिद्धमिति भावः । आदिक्रियानिष्ठानामविशेषेण प्रत्यक्षाणामपि मेदहेतुरादिः प्रत्यक्षत एव दृश्यत इति क्रियानिष्ठे परित्यज्य विशिष्योकत्वात् क्रियानिष्ठे न प्रत्यक्षेण प्रमाणीकृते, आदिरेव तु प्रत्यक्षत्वाद्गृहीतः क्रियानिष्ठे प्रत्यक्षेऽपि त्यक्ते, तयोस्त्यागश्च प्रत्यक्षविरोधादयुक्त इत्याह-आदिः प्रत्यक्षत 30 एवेति। एवञ्च क्रियानिष्ठयोः प्रत्यक्षयोरप्यप्रमाणीकरणे तत्प्रत्यक्षमप्रमाणं सञ्जातं ततश्चादिः प्रमाणे प्रत्यक्षदृश्यत्वादिति प्रत्यक्ष
१ सि. भ. छा. डे. क्रियमाणनिष्ठेयाः । २ सि. क्ष. छा. डे, प्रत्यक्षं प्रमाणीकृतं न क्रियानिष्ठेतयोः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org