________________
maawwww
११७८
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् प्रमाणमिति दृष्टो व्यभिचारः, तदर्शनादादेरपि प्रत्यक्षस्य तद्वदेवाप्रामाण्यात् पुनरप्यादेः प्रत्यक्षस्य त्यागः इति सर्वथा त्वयैव प्रत्यक्षमप्रमाणीकृतम् , एवं तावदादेर्नित्यतायां दोषः ।
अथादिनित्यतायां दोषात् निर्वृत्तनित्यत्वमभ्युपगच्छसि यस्मान्न परैकतेति, नन्वेवमपि कुतो भेदः? नित्यनिष्ठितत्वे नारम्भोऽस्ति न क्रियेत्यभ्युपगतत्वात् कुतो भेदः ?, अथानित्य5 त्वमभ्युपगम्यते चेत् स किमादिर्जातोऽजात इत्यादित्वत्पर्यनुयोगवदेव दोषाः, यदि जातः
तस्यैवानुत्पादो जातत्वानिवृत्तघटवदित्यादि त्वदुक्तवदेवेदं न युज्यते, अन्तेऽपि च त्वदुक्तदोषाविमोक्षात् यावदथोच्येतान्तः प्रत्यक्षत एव भेदहेतुद्देश्यत इति पूर्वपक्षे स किं नित्योऽनित्य इत्यादि स एव पर्यनुयोगो वाच्यः।
__ अथादिनित्यतायामित्यादि, एतद्दोषभयादादिनित्यत्वपक्षं त्यक्त्वा निवृत्तनित्यत्वमभ्युपगच्छसि 10 दोषाभावञ्च यस्मान्न परैकतेति-इत्थं हि निर्वृत्तनित्यतायां त्वयोक्तं सार्वैक्यं तच्च नास्ति, पृथग्विभिन्नस्वरूपत्वादित्यत्र ब्रूमो नन्वेवमपीत्यादि, यदि नित्यनिष्ठितमेव वस्तु ततो नारम्भोऽस्ति न क्रियेत्यभ्युपगतत्वात् कुतो भेदः-आरम्भः क्रिया लभ्यत इति भेदाभाव एवास्मदिष्टः प्रसक्तः, एवं तावदादिनित्यतायां दोषः, अथेत्यादि, एतदोषमयादादेरनित्यत्वमभ्युगम्यते चेत्त्वया तत इत्थं पर्यनुयोज्योऽसि, स किमादिर्जातोऽजात
इत्यादित्वत्पर्यनुयोगवदेव त्रिष्वपि विकल्पेषु त्वदुक्तदोष]वद्दोषा इति, दिशं दर्शयति-यदि जातस्तस्यैवानुत्पादो 15 जातत्वात्, निर्वृत्तघटवदित्यादेरिति प्रथमविकल्पमुक्त्वा शेषं ग्रन्थमतिदिशति-त्वदुक्तवदेवेदं न युज्यत
इत्यजातजाताजातविकल्पयोरपि त्वदुक्ता दोषा इत्युत्पादाभावः, अन्तेऽपि चेत्यादि, अन्तेऽप्युत्पादाभावः, विनष्टाविनष्टविनष्टाविनष्टविकल्पेषु त्वदुक्तदोषाविमोक्षात् यावेदथोच्येतान्तः प्रत्यक्ष त]एव भेदहेतुर्दश्यत दर्शनं क्रियानिष्ठयोरप्रमाणयोर्व्यभिचरितमित्याह-तयोश्चेति । ततः किमित्यत्राह-तदर्शनादिति, व्यभिचारदर्शनादित्यर्थः,
एवञ्चादिरपि प्रत्यक्षमप्रमाणम्, प्रत्यक्षदृश्यत्वात् क्रियानिष्ठाप्रत्यक्षवदिति क्रियानिष्ठयोः प्रत्यक्षयोस्त्यागवदादेः प्रत्यक्षस्यापि त्यागः 20 स्यादिति सर्वथा प्रत्यक्षस्याप्रमाणता त्वयैव कृतेति आदेर्नित्यत्वपक्षे दोष इति भावः। नन्वादेर्नित्यत्वे यदि प्रोक्तदोषसम्भवस्तर्हि निवृत्तस्य-निष्पन्नस्य नित्यत्वमिष्यत इत्याशङ्कते-अथादीति । व्याचष्टे-एतद्दोषेति, सर्ववस्तुनित्यतेत्यादिदोषेत्यर्थः, निर्वृत्तनित्यत्वे तु घटपटरथकटादिमेदानां निवृत्तानां नित्यत्वात् परेण साकमैक्यं न सम्भवति, भिन्नभिन्नखरूपत्वात्तेषाम् , आविर्भावतिरोभावसम्भवे हि अवस्थावस्थावतोरैक्यात् सर्वेषामेकता भवेत् , स च नास्तीति भावः। तथैव व्याचष्टे-इत्थं हीति । एवं
तर्हि त्वया नित्यनिष्ठितत्वमभ्युपगतम् , तच्च न सम्भवति, निष्ठाया आरम्भपूर्वकक्रियापूर्वकत्वात् , आरम्भक्रिययोश्च त्वयाऽनभ्यु25 पगतत्वात् कथं निवृत्तता घटादीनां येन निवृत्तनित्यता स्यात् , तस्मात् कारणमात्र निर्भेदं वस्त्वेव सिद्ध्यतीत्युत्तरयति-यदि नित्यनिष्ठितमेवेति । अथादेर्नित्यत्वमपहायानित्यत्वं यद्यभ्युपगम्यते तत्रापि जातत्वमादेरजातत्वं जाताजातत्वं वेति पृष्ट किमाश्रीयत इत्याह-एतद्दोषभयादिति, परसिद्धान्तप्रसङ्गभयादित्यर्थः । एते विकल्पास्त्वयैवोद्भाव्य दूषिताः, तथैवात्रापि दोषाः भवन्तीति दिङ्मात्रेण दर्शयित्वा त्वदुक्तिवदेवेव्यतिदिशति-इत्यादीति । जातपक्षे चोत्पादाभावो जातत्वादेव निवृत्तघटवदिति त्वदुक्त
दोषोऽत्रापीति विकल्पमेकमादा शेषविकल्पावतिदिशति-यदि जात इति । अजातविकल्पेऽप्यनुत्पाद एव, अजातत्वात् , जाता30 जातविकल्पेऽप्युभयपक्षदोषो वादिनोक्त इति स एवात्रापीत्याह-इत्यजातेति । अन्तपक्षेऽपि त्वयोदितं दोषजातमेवात्रापि वाच्यमित्यतिदिशति-अन्तेऽपीति, अन्तेऽपि किं विनष्टोऽविनष्टो विनष्टाविनष्टो वा विनश्यतीति विकल्प्याद्येऽनुत्पाद एव विनष्टत्वात् , विनष्टघटवत्, द्वितीये नाविनष्टो विनश्यति, अभूतविनश्यद्भावत्वादक्षतघटवत् , असम्भवान्न तृतीयः उभयदोषाच्चेति त्वयोतमेव दोषजातं वाच्यम् , तदविमोक्षणादिति भावः । अनुपदोक्तं भेदहेतुभूतान्तप्रत्यक्षमाशङ्कय आदिप्रत्यक्षशंकोक्तोत्तरमेवाति
१ सि.क्ष. छा. डे. अतोक्तुमपिचे। २ सि. क्ष. छा. डे. यावयथोचेतांतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org