________________
सामग्रीदर्शनहेतुः] द्वादशारनयचक्रम्
१९७९ इत्यस्मिन् पूर्वपक्षे स किं नित्योऽनित्य इत्यादि पर्यनुयोगः, विशेषस्त्वत्रान्तप्रत्यक्षप्रमाणीकरणाच्चारम्भक्रियमाणप्रत्यक्षद्वयपरित्यागः, तयोश्च दृष्टव्यभिचारमितरत्रैकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यत इति पुनरपि तद्धानिरिति वाच्य इत्यतिदेशफलम् , एवमनुत्पादात् सर्वभेदैक्यसिद्धिः।
किञ्च
सामग्रीदर्शनादपि सर्वास्तित्वसिद्धिः, तथा च तदेवैकं सर्वात्मकं स्वं परमुभयञ्च तमर्थ सम्पादयति, सा च सामग्री दृश्यते प्रत्यक्षतः, सामग्री अशेषभावानां भावान्तरं प्रति वृत्तिः यथा पृथिव्यादिसामग्री तं तमर्थ प्रति, वस्तुनोऽनेकशक्त्यात्मकस्यैकस्य व्यक्ताव्यक्तशक्त्यपेक्षत्वात् सर्वसर्वात्मकत्वात् , सामग्र्यामेवंदर्शनमेव संवादेन रूपादिपृथिव्यादिपरस्परसामग्रीघटपटादीति दृश्यते संज्ञायते प्रवर्तते चेतनं जगदिति ।।
(सामग्रीति) सामग्रीदर्शनादपि-पुरुषनियतिकालस्वभावभावाद्यन्यतमकारणात्मकस्वावस्थादि- 10 भेदसामयामेवैवंदर्शनादपि हेतोः सर्वास्तित्वसिद्धिः, तथा च-तेन प्रकारेणोत्पत्तिविनाशाभावादिप्रोक्तकारणतया तदेवैकं सर्वात्मकं स्वं परमुभर्यञ्च तमर्थं सम्पादयति सामग्री, स्वावयवात्मकत्वात्तस्याः, सा च सामग्री दृश्यते प्रत्यक्षतः, किं लक्षणा सामग्रीति चेदुच्यते-सामग्यशेष[भावानां]भावान्तरं प्रति वृत्तिःएकैकस्मिन्नभिन्नैकात्मकवस्तुभेदमात्रे भावे भेदान्तरस्यैकैकस्य वृत्तिर्या सा सामग्रीत्युच्यते, तद्दर्शयतियथा पृथिव्यादिसामग्र्यादि-पृथिव्युदकवह्निपवनगगनात्मादिसर्वसमूहात्मकः कार्पासः तद्रूपादयः, तत्स-15 मूहोऽणुः अणुसमूहा[:]पक्ष्माणि तत् ]समूहास्तन्तवः तत्समूहः पट इति तं तमर्थं प्रति सामग्री पृथिव्युदिशति-अथोच्यतेति । विशेषमत्र पूर्वपक्षे दर्शयति-विशेषस्त्वत्रेति, आदिक्रियाप्रत्यक्षत्यागः अन्तमात्रप्रत्यक्षोक्तः, तस्मात्तयोः प्रत्यक्षयोरप्रमाणता ततो व्यभिचारः प्रत्यक्षदृश्यतायाः, तस्याश्चाप्रामाण्येन सहदर्शनादन्तप्रत्यक्षमपि न प्रमाणं स्यात्, ततश्च तत्प्रत्यक्षस्यापि हानिः स्यादिति विशेषो वाच्य इत्यतिदिश्यमानवाच्यशब्देन गम्यत इति भावः । अनुत्पादहेतुं निगमयतिएवमिति । अथ सामग्रीदर्शनात् सर्वसिद्धिमाह-सामग्रीदर्शनादपीति । अवस्थामेदरूपा या सामग्री तस्या एव भावान्त- 20 रसम्पादकत्वदर्शनादवस्थामेदानाचावस्थावत्पुरुषाद्यात्मकत्वात् , सर्वास्तित्वसिद्धिरित्याह-पुरुषेति, अवस्थाभेदाः पुरुषाद्यात्मकाः, पुरुषादिकारणमात्रस्य विजुभितत्वादवस्थामेदानाम् , ते चावस्थाभेदाः तथा तथा विपरिवर्तन्ते पुरुषादेरवयवत्वात् , तस्मादवस्थामेदसामग्र्या एव तत्तदर्थसम्पादकतया दर्शनात् पुरुषादौ सर्वात्मकत्वं सिद्ध्यति, पुरुषादयो हि व्यक्तशक्तिमव्यक्तशक्तिं वापेक्ष्य सर्वसर्वात्मका इति भावः । उत्पादविनाशाभ्युपगमे सर्वशून्यताप्रसङ्गादनुत्पन्ना विनष्टनिर्भदैकवरूपकारणमात्रत्वात् पुरुषादेयंकाव्यक्तात्मकतच्छक्तिरूपा सामग्री पुरुषादौ खं परमुभयञ्च तं तमर्थ सम्पादयतीत्याह-तथा चेति, सामग्री तदेवेकं सर्वात्मकं 25 खं परमुभयञ्च तमर्थ सम्पादयतीति प्रेरकप्रयोगः, सम्पादयति-अधिगमयतीत्यर्थः । हेतुमाह-स्वावयवेति, शक्तिरूपा हि सामग्री पुरुषादेरवयवरूपैव, व्यक्ताव्यक्तशक्तिर्हि पुरुषादिः, सा च सामग्री प्रत्यक्षतो दृश्यत इति भावः । सामग्री लक्षयति-साम ग्रीति, कार्पासादिभावान्तरं प्रति भावानामशेषाणां पृथ्व्युदकज्वलनपवनगगनात्मादीनां वर्त्तनं प्रवर्तनमेव सामग्री, तदपि वर्तनं कार्पासादिभावान्तरं नातिरिक्तावयविरूपं किन्तु समूहात्मकमेवेति भावः । न च सामग्रीभावान्तरयोरैक्यं समुदायात्मकत्वात्तयोरिति वाच्यम् , सामग्र्याः समुदायानात्मकत्वादित्याशयेनाह-एकैकस्मिन्निति, कार्पासादिरूपे निर्भिन्नैकस्वरूपवस्त्व- 30 वस्थात्मके कारणकूटघटकस्यैकैकस्य भावान्तरस्य पृथिव्यादेयद्वर्त्तनं सा सामग्रीत्यर्थः, तस्मान्नैक्यमिति भावः । सामग्रीमेव दर्शयति-यथा पृथिव्यादीति, पृथिव्युदकज्वलनानिलगगनात्मरूपा सामग्री तत्समूहरूपस्य कार्यासस्य, पृथिव्यादेरेव रूपरसगन्धा
१ सि. न. छा, डे. सामप्रयायैवैवं । २ सि. क्ष. छा. डे. मुभयञ्चेत्यतसमर्थे ।
wwmanam
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org