SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ द्वादशनयस्यान्तरम् www दकादितद्रूपादिपटादिसमूहात्मिका, वस्तुनोऽनेकशक्त्यात्मकस्यैकस्य व्यक्ताव्यक्तशक्तत्यपेक्षत्वात् सर्वसर्वा`त्मकत्वात्, सामग्र्यामेवं दर्शनमेव संवादेनेत्यादि, एतेन सर्व सर्वात्म कैकवस्तुभेदसामग्रीदर्शनत्वेन संवादिरूपादिपृथिव्यादिपरस्पर सामग्रीघटपटादीति दृश्यते संज्ञायते प्रवर्त्तते चेतनं जगत्, यथा विधिविधिनयभङ्गे प्रागू व्याख्यातम्, तस्मात् संसिद्ध्यादिभ्योऽपि हेतुभ्यश्चेतनात्मकैकवस्तुविजृम्भितमात्रमिदं 5 सिद्ध्यतीति । wwww wwwww अत्राऽऽह यदि सामग्यशेषता सर्वस्य सर्वत्र वृत्तेः तिलेषु तैलवत् सिकतास्वपि तैलं स्यात्, तत्रा wwwww भाववत्तिलेष्वप्यभाव एव स्यात्, ननु यथा तिलेष्वव्यक्तं स्वाभिव्यक्त्युपायादुपलभ्यते तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलम्यते, सिकताभूप्रदेशोशति लबीजस्याङ्कुर मूलपर्णादिप्रभवः 10 सिकतानामेव, तथातथा विपरिवृत्तेः, तद्वदुदकादिद्रव्येषु । AMANA यदि सामग्र्यशेषतेत्यादि, यद्यशेषं स्वभेदसामग्रीमात्रं सर्वस्य सर्वत्र वृत्तेर्यथा तिलेषु तैलं सत्तथा सिकतास्वपि तैलं स्यात्, तत्राभाववत्तिलेष्वप्यभाव एव स्यात्, न तु भवति, तस्मान्नाशेषं सामग्रीमात्रमित्यत्रोच्यते-ननु यथेत्यादि, को वा ब्रवीति सिकतासु नास्ति तैलं तिलेष्वेवास्तीति, किन्तु यथा तिलेष्वप्यव्यक्तं स्वाभिव्यक्त्युपायात् यंत्रपीडनादेः यत्नेन उपलभ्यते, चर्वणादिक्रियासु क्षीरवत्, अस्खा ११८० 15 दयः सामग्री तत्समुदायलक्षणकार्पासाणोः, अणवः सामग्री अणुसमुदायरूपपक्ष्मणाम्, पक्ष्माणि सामग्री तत्कूटरूपतन्तूनाम्, तन्तवः सामग्री तत्समुदायात्मकपटस्य, एवञ्च पृथिव्यादितद्रूपायण्वादिपक्ष्मादितन्त्वादिरूपा तत्तत्समूहात्मक कार्पासाणुपक्ष्मतन्तुपटादिभेदं प्रति सामग्रीति परस्परसामग्रीत्वात् व्यक्तमव्यक्तञ्च सर्व सामग्री अनेकशत्त्यात्मकैकस्य वस्तुनो व्यक्ताव्यक्तशक्ती अपेक्ष्येते, अपेक्ष्य वस्तु सर्वसर्वात्मकं भवति, एवञ्च सर्वसर्वात्मकैकवस्तुभेदरूपा सामग्रीति भावः । इत्थमेवाह-वस्तुन इति तस्यां सामम्यामेवानाद्यनन्तशो विपरिवर्त्तमाना भावा दृश्यन्ते यथा द्रव्यमृत्पिण्डशिव कस्तूपकछत्र क कुशूलघट कपालशकलशर्करा धूलिपांशु20 त्रुटिपरमाणुरूपादिपूर्वपूर्व सामग्र्यामुत्तरोत्तरा भावाः, तथा रूपादिपरमाणुत्रुटिपांशु धूलिशर्कराशकलकपालघटकुशूलछत्रकस्तूपकशिवकपिण्डभृद्द्रव्येषु पूर्वपूर्वसामय्यामुत्तरोत्तरा भावाः, एवं सर्वसर्वात्मकपुरुषायेक वस्तुभेदात्मक कारणसूक्ष्मामूर्त्तज्ञात्मका रूपादयोऽमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एव स्वप्रवृत्तिप्रभावावबद्धमूर्त्तत्वप्रक्रमान् परमाणूनध्यास्य नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते, तदेतत्सर्वं पुरुष एव तेनात्मत्वेन परिणमितत्वात् तद्द्रव्यत्वात्, तत्कार्यत्वात् तेन विनाऽभूतत्वात्तद्व्यतिरेकेणाभावात्, तद्देशत्वाच्चेति निखिलं जगत् चेतनमित्याह - सामग्रयामेवं दर्शनमेवेति । सर्व पुरुषाद्यात्मकमित्येतत् 26 विधिविधिनयभङ्गे व्याख्यातमेवेत्याह-यथेति । उपसंहरति-तस्मादिति । ननु सामग्री यद्यशेषरूपा, सर्वस्य सर्व प्रति सामग्रीत्वात् तिलेषु तैलभवनवत् सिकतास्वपि तत्स्यात्, अविशेषात् सामग्र्या इत्याशङ्कते - यदीति । सर्वसर्वात्मकैकवस्तुनोऽवस्थाभेदरूपपृथिव्युदकवह्निपवनगगनात्मादिसमूहः सर्वत्र वृत्तेः सामग्री भवति यदि तर्हि यथा तिलेषु तैलं सत्तथा सिकतास्वपि तैलं सत् स्यात्, यदि च तासु न सत्तैलं तर्हि तिलेष्वपि न सत् स्यात्, न चैवमस्ति तस्मान्न व्यक्ताव्यक्तरूपं सर्वं स्वभेदात्मकं सामग्रीमात्रं सर्वस्येत्याशङ्कां प्रकटयति-यद्यशेषमिति, व्यक्ताव्यक्तात्मकं पृथिव्युदकज्वलनानिलगगनात्मादि सर्वमित्यर्थः । यद्यपि सर्वं सर्वत्र वर्त्तत इत्यशेषं स्वभेदसामग्रीमात्रं तथापि तत्तद्भेदाभिव्यञ्जकसाधनान्तरसन्निधाने सर्व सर्वत्रोपलभ्यत एव यथा तिलेषु तैलाभिव्यञ्जकयंत्र पीडनादिसाधनसमवधानेऽव्यक्तं तैलमभिव्यक्तं भवति यथा वा गोभुक्ततृणादावव्यक्तं क्षीरं चर्वणाद्यभिव्यञ्जकोपायादभिव्यज्यते, तस्मात् तिलेषु तैलमस्ति तृणादौ क्षीरमस्ति, एवमुत्खन्यमानमृगततिल सम्बन्धिमूला कुरादिषु सिकतादिषु चास्त्येव तैलमनभिव्यक्तमतो नोपलभ्यते न तु सिकतादिषु तैलाभावादित्याशयेन समाधत्ते - ननु यथेत्यादीति । सिकतासि. क्ष. डे. छा. 'पायाद्यंतपीड़नादेर्मतेन । २ सि. क्ष. छा. डे. आस्वाद्यमानक्षत्ति मूलां० । 30 Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy