________________
द्वादशारनयचक्रम्
११८१
सदादर्शन हेतुः ] द्यमानक्षितिमूलांकुराद्यवस्थासु च तथा सिकतास्वप्यनभिव्यक्तं तैलं नोपलभ्यते, सिकता भूप्रदेशोततिलबीजस्याङ्कुरमूलपर्णादिप्रभवः सिकतानामेव, तथा तथा विपरिवृत्तेः सिकतानामभावे तिलमूलाद्यभावात् सिकतास्वेव तैलमस्ति, तद्वदुदकादिद्रव्येषु - समासदण्डकोक्तेषु द्रव्येष्वस्ति तैलं यावद्भाव्यमन्यस्यात्मनीति, तिलयो [न्यु ]त्पन्न जीवद्रव्यस्यापि तैलत्वात् व्यक्ताव्यक्तरूपेण सर्वस्य सर्वत्र भावात् समानमेतत् ।
तथा
सदा दर्शनात् संसिद्ध्यादिहेतुभिः सम्पादित सर्वात्मकै क वस्तुत्वाददर्शनाददृश्यमानभागान्तरा सत्त्वेन कल्पिता अपि न परमार्थतोऽसन्तो न वा न दृश्यन्ते, भावितवदेकभवनात्मकत्वात् तदपृथग्भागान्तराणामपि दर्शनमेव, निर्विभागमेव हि सद्वस्तु, विभागेनेक्षणं भ्रान्तिरित्युक्तम्, तस्मात् स एवास्ति स्वतः परत उभयतश्चेति, यथोक्तं 'तदेजति तन्नैजति तद्दूरे तदुपान्तिके ॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः । ( ईशा ० १ - ५ ) ' यथा सुदीप्तात् 10 पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ॥ तथाक्षराद्विविधाः सौम्य ! भावाः प्रजायन्ते तत्र चैवापियन्ति' ॥ ( मुण्ड० २ १ १ ) इति भावितानेकार्थद्रव्यार्थभेदवत् यः पुनर्भेदः सोऽसत्येव भेदे भेदाभिमानः, तस्य क्रमाभिव्यक्तेः, एकद्रव्यस्वतत्त्वरूपादिवदिति ।
"
20
(सदेति ) सदा दर्शनात् - सर्वदा भावस्य भावान्तरादर्शनेऽपि दर्शनमेव, कस्मात् ? संसिद्ध्यादिहेतुभिः सम्पादितसर्वात्मकैकवस्तुत्वात् प्राक्पञ्चादितरेतर देशप्रमाणसामर्थ्यसंयोगात्यन्ताभावानां प्रतिपक्ष - 15 भूता भावा एवात्यन्ताभूताभिमतवन्ध्या पुत्रान्ता इत्युक्तत्वात् अत्यन्तसत्यास्ते सन्तोऽर्थाः, अदर्शनात् - हैष्टिशक्तिवैकल्याददृश्यमानभागान्तरा असन्त इति कल्प्येरन्, तत् [न] परमार्थतोऽसन्तः, न वा न दृश्यन्ते, मयभूप्रदेशे खनित्वा उप्तस्य तिलबीजस्य योऽयमङ्करमूलवर्णकाण्ड प्रसून तिलतैलादिभाव स्तत्सर्वं सिकतानामेव भावः सिकतानामेव तथातथापरिणामात् तेन विनाऽभावात् तदात्मकत्वाच्च सिकताखेव तैलमस्तीति दर्शयति-सिकतेति । एवं पार्थिव प्रदेशोततिलमूलाङ्कुरादीनां पृथिवीत्ववत् जलसिक्तभूप्रदेशोप्ततिलानां तेजः संयुक्तभूदेशोप्ततिलानां पवनगगनावलीढभूप्रदेशोप्ततिलादीनाञ्च । मूलाङ्कुरादिप्रभवः जलतेजःपवनगगनानामेवेत्याह- तद्वदुदकादीति, पृथिव्यामिवोदकादि भूप्रदेशोप्ततिलमूलाङ्कुरादीनामुदकादिस्वादुदकादिद्रव्येपि तथा यावन्तो भावास्तेष्वपि तैलमस्त्यैवेति भावः । एवमात्मापि कर्मबन्धेनानाद्यनन्तशः स्थूलसूक्ष्मशरीरादिरूपादिमत्त्वं प्रतिपद्यते तथा च तिलयोन्युत्पन्नात्मन्यपि तैलमस्त्येवेत्याह- तिलयोनीति, सर्वत्र सर्वं व्यक्तरूपेणाव्यक्तरूपेण वास्त्येवेति भावः । एवं सामग्रीदर्शनात् सर्वसिद्धिमुपपाद्य सदा दर्शनादपि तामाह-सदा दर्शनादिति । संसिद्धिसंयुक्तया दिभिर्हेतुभिः स्वपरोभयभावात्मक वस्तुसिद्धेः प्रतिपादितत्वात् भावान्तरादर्शनेऽपि सर्वदा भावस्य दर्शनमेव, सर्वसर्वात्मनिर्विभागैकवस्तुनः परमध्यान्तभागरहितस्य दर्शनादि याह-सर्वदा भावस्येति । नञ्पदेनापि कुतश्चित् सत एव वस्तुनो विशेष्य सदेव वस्तु वाच्यं भवति न प्रागभावादीति पूर्वमुक्तत्वान्न कस्यचिद्वस्तुनोऽभावोऽदर्शनं वेत्याह- प्राक्पश्चादिति, वस्तुनः कदापि स्वस्वरूपपरित्यागाभावादुत्पत्तिविनाशयोरभावात् घटपटादेः सर्वस्य भावस्य परस्परस्वरूपत्वात् सर्वस्य सर्वत्वादेको भाव एव सर्वभाव इति सर्वभावानां सदा दर्शनमस्त्येव पटादेः सदेकात्मकघटादिखरूपत्वात्, प्राङ् नास्तिपदेन पश्चादस्तित्वस्य पश्चान्नास्तिपदेन प्रागस्तित्वस्य पटेतराभावेन घट स्यैकदेशेनास्तिपदेना परदेशा स्तित्वस्य प्रमाणात्यन्ताभावेनापर प्रमाणस्या सामर्थ्येन सामर्थ्यस्य गेह- 30 संयोगाभावे बहिःसंयोगसत्त्वस्यैव बोधनात् वन्ध्यापुत्र नास्तित्वमपि निर्वृत्त्यादिभवितृस्वभावान्तर्गततया तस्याप्यस्तित्वमुक्तमेवेति नास्ति कस्यापि वस्तुनोऽभाव इति प्रतिपादितमेवेति भावः । दर्शनशक्ति वैधुर्येणैवादृश्यमानभागान्तरस्यासत्त्वं कल्प्यते न तु तस्य परमार्थतोऽसत्त्वमदर्शनं वेत्याह- अदर्शनादिति । न वा न दृश्यन्त इत्यदर्शनाभावः कथमिति शङ्कायामाह - यस्माद्भावित - • सि. क्ष. छा. डे. तैलत्ववत् । २ सि. क्ष. छा. डे. दृष्ट्यशक्ति० । ३ सि. क्ष. छा. डे. कल्पेरस्तन्पर० ।
25
Jain Education International 2010_04
5
For Private & Personal Use Only
www.jainelibrary.org