________________
१९८२
न्यायागमानुसारिणीव्याख्यासमेतम् [द्वादशनयस्यान्तरम् यस्मात्तदपि नास्त्येवादर्शनम् , कस्मान्नास्ति ? यस्माद्भावितं सामग्रीदर्शनहेतोरेकभवनात्मकमिति, तद्वद्भावितवदेकभवनात्मकत्वात्-अतीतन्यायभावितसर्वात्मकभवनात्मकत्वात् , निर्विभागस्य हि वस्तुनः परमध्यभागा[त् शक्तिभेदात् कल्पिता अपि वस्त्वभेदात् तदेव ते, भागस्य दृश्यत्वात् त[द]पृथक्त्वाद्भागान्तराणामपि दर्शनमेव, निर्विभागमेव हि सद्वस्तु, विभागेनेक्षणं भ्रान्तिरित्युक्तम् , तस्मात् स एवा[स्ती]ति इत्यादि 5 गतार्थम् , तस्मात् सदा दर्शनं नादर्शनम् , यथोक्तमित्यादिना प्रागतीतं न्यायं ज्ञापकत्वेनाऽऽह-'तदेजति
तन्नैजति' ( ) इत्यादि ऋग्द्वयम् , तत्रैव व्याख्यातत्वान्न विव्रियते, न्यायन्तु सप्रभेदं स्मारणार्थमतिदिशति-भावितानेकार्थद्रव्यार्थभेदवदिति-द्रव्यार्थनयेषु षट्सु विध्यादिभेदेष्वाद्येषु यथा भावितं प्राक् यथा लोकग्राहमेव वस्त्वित्यादिषु स एवाशेषो ग्रन्थोऽत्रावतारयितव्यः, यः पुनर्भेदो घटः पट
इत्यादि सोऽसत्येव भेदे भेदाभिमानः, कस्मात् ? तस्य-अभिन्नस्य वस्तुनः क्रमाभिव्यक्तेः, क्रमेण हि शक्ति10 मतः शक्तिमात्रा अभिव्यज्यमाना भेदा इवाभासन्ते पुरुषग्रहणशक्त्यपेक्षया, न तु परमार्थतो भेदोऽस्ति, किमिव ? एकद्रव्यस्वतत्त्वरूपादिवत्-यथैकमेव घटाख्यं वस्तु चक्षुरादिग्रहणापदेशविशिष्टं रूपादिव्यपदेशभाग् भवति-यथा चक्षुषा गृह्यमाणं रूपं जिह्वया रसो घ्राणेन गन्धः श्रोत्रेण शब्दः त्वचा स्पर्श इति तथा सर्वस्याभिन्नस्यैकस्यैव घटपटादिभेदभावनमभिमानमात्रमेवेति, एवं तावच्छून्यवादः पुरुषादिद्रव्यार्थ
वादेन निवर्तित इति । 15
द्वादशारान्तरं समाप्तम् मिति । पृथिव्युदकज्वलनपवनगगनात्मादिसामग्या एव घटपटकटादिव्रीह्यादिकार्पासादिसर्वसमूहात्मकत्वस्य सामग्रीदर्शनहेतुनाधुनैव निरूपितत्वाद्दर्शनमेव नादर्शन मिति भावः । एतदेव साधनं व्याचष्टे-अतीतन्यायेति, सामग्रीदर्शनन्यायेत्यर्थः, सर्वात्मकैकभवनात्मकवस्तुनो निर्विभागत्वात् परमध्यादिभागाः तद्वस्तुनः शक्तिरूपा अपि तदात्मकाः केवलभिन्नत्वेन कल्पिताः तथापि ते
तदेव, यो हि भागो दृश्यते तद्वत् भागान्तराणामपि तदभिन्नत्वाद् दृश्यत्वमेव तथापीति भावः । वसुनः सर्वसर्वात्मकैकस्वरूपतया 20 निर्विभागत्वात्तस्य पुनर्विभागेनेक्षणं भ्रान्तिरेव तस्मात्तदेव वस्तु सर्व सर्वात्मकमेकानेकात्मक स्वतः परत उभयतश्चास्त्येवेति प्रतिपत्तव्यं
न तु सर्वशून्यत्वमिति निगमयति निर्विभागमेव हीति। विश्वात्मा पुरुषोऽभिन्नोऽपि स्वगतानन्तशक्तिवैचित्र्याद्भिन्न इवावभासते भोक्तभोग्यभोगरूपेण, न तु वस्तुतो भिन्नः, ततो विभिन्नत्वेनेक्षणं भ्रान्तिरेव, तस्मात् पुरुष एवेदं सर्वमिति भावः। विधविधिनयभङ्गोदितमेव न्यायं ज्ञापकत्वेन दर्शयति-तदेजतीति । तदेव सर्वसर्वात्मकं वस्तु स्पन्दते न स्पन्दते, तिर्यग्लोकेऽधोलोकेऽलोके
च, तदेवास्मिन् प्रदेशेऽपि, तदेव सर्वस्यास्य लोकान्तर्गतघटपटादिनिखिलभावस्यान्तः, तदेव च सर्वस्यास्य बाह्यतः-अलोकेऽपीति25 शब्दार्थः, इत्यका ऋक् । द्वितीया तु 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गा सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद्विविधाः सौम्य ! भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ इति। पूर्वेषु षट्सु द्रव्यार्थनयेषु द्रव्यं यथा भावितं स सर्वो भावनाग्रन्थोत्रापि संघटयितव्य इत्यतिदिशति-भावितानेकार्थेति। व्याकरोति-द्रव्यार्थनयेष्विति, अत्र-शून्यवादे। घटपटादयो मेदास्तु असन्त एवाभिमन्यन्ते इत्याह-यः पुनरिति, पुरुष एक एव घटपटाद्यात्मकभेदरूपो भासते, तत्र पुरुषे एकत्वं वास्तविकमनेकत्वञ्च तच्छक्तिगतभेदारोपादाभिमानिकम् , अभिन्नः पुरुषः शक्तिभ्यो भिन्नमिवावभासते न तु वस्तुतो भिन्न इति 30 भावः । कारणमाह-तस्येति, कारणस्य तस्य पुरुषस्य स्वातंत्र्यशक्तिः कालः, सच क्रमरूपः, तेनानुज्ञाताः इतरशक्तयः क्रमवद्भेद
रूपतयाऽवभासन्ते द्रष्ट्रशक्त्यपेक्षयेति भावः। तत्र निदर्शनमाह-एकद्रव्येति, एकमेव द्रव्यं घटाख्यं यदा द्रष्ट्रा चक्षुषा गृह्यमाणं रूपव्यपदेशभाग् भवति रसनेन रसव्यपदेशभाकु, घ्राणेन गन्धव्यपदेशभाक् , त्वचा स्पर्शव्यपदेशभाक्, श्रोत्रेण च शब्दव्यपदेशभाक् तदेव च रूपं रसो गन्धः स्पर्शः शब्दश्च, नान्ये ते ततः, तस्य रूपादिभेदोऽभिमानमात्रमेव तथा पुरुषस्यैवैकस्य घटपटादिभेदभावनमप्यभिमानमात्रमेवेति भावः । एवं द्रव्यार्थवादेन शून्यवादः प्रतिक्षिप्त इत्याह-एवं तावदिति । अन्तरं परिसमापयति-द्वादशेति।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org