________________
अथ तुम्बनिरूपणम् ।
अतः परं तुम्ब नयचक्रस्य वतिष्यते तदपि किं द्रव्याथैक्यं तन्मतं सत्यं ? किमसत्यं ? इति, अस्मिन् सन्देहेऽभिधीयते
- एतदपि नैवैकान्ते युक्तम् , ततश्च विधेरारभ्य विधिविध्यन्तरानुक्रमक्रमेणोत्तरोत्तरकान्तायुक्तत्वप्रक्रान्त्या तेषु तेष्वरान्तरेषु विचारितमेव यावच्छून्यवादम् ।
. (एतदपीति) एतदपि नैवैकान्ते युक्तमिति प्रक्रान्तमेव, कथमित्यत आह-ततश्चेत्यादि, ततश्च सर्वसङ्ग्रहात्मकाद्विधेविधिनयारादारभ्योत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या तेषु तेष्वरान्तरेषु विचारितमेव, किं पुरुष एवावस्थाः ? अवस्था एव पुरुषः ? इत्यादिविकल्पपर्यनुयोगोपक्रमेणेति, तदनुस्मारयति विधिविध्यन्तरानुक्रम] क्रमेण विधिविधेर्भेदानां पुरुषनियतिकालस्वभावभावानां पूर्वपूर्वदूषणेनोत्तरोत्तरव्यवस्थानं ततः परं विध्युभयादीनामनुक्रमस्य-परिपाट्याः क्रमेण-विधिना, यादृक्षोऽवधिव्यार्थदूषणे इति चेदुच्यते याव-10 द्रव्यक्रियोभयनय उक्तः तावद्रव्यार्थस्यावधृतेः, ततः परं पर्यायार्थभेदाः, तेषामपि पर्यायार्थभेदानामुत्तरो. त्तरैकान्तायुक्तत्वप्रक्रान्या यावच्छून्यवादम् , शून्यवादस्याप्येकान्तायुक्तत्वमधुना विधिविधिनयमते प्रक्रान्तम्।
तदेकान्तायुक्तत्वस्थापना त्वेकान्तवादानां परस्परसंयुक्तत्वमापाद्य प्रत्येकशी द्विशो यावद् द्वादशारशः सप्रभेदस्तेषामुपरि विधिनयो यथालोकग्राहं वस्त्विति, तद्यावर्तितसविकल्पसामान्यविशेषोद्धारार्थ विधिनियमविधिस्तन्निवर्त्तनार्थमुभयोभयनय इत्ययमपि क्रमो यावत् 15 पुनरयं विधिविधिः, यथा चानेन शून्यवादपूर्वपक्षस्य सम्बन्धस्तथैवैकैकेन द्रव्यार्थभेदेन, यथा
तदेवं द्वादशस्यारस्यान्तरमाख्यायानन्तराभिधानां पूर्वप्रतिज्ञातां वृत्तिं प्रतिजानीते-अतः परमिति । ननु द्वादशारस्यप्रतिपाद्यं द्रव्यार्थनयेन प्रतिक्षिप्तम् , तद्व्यार्थनयाभिमतं सर्वकात्मकं वस्तु किं सत्यमुतासत्यमिति संशय उदेति, सर्वनयान्ते निराकृतस्यैव पुनराश्रितत्वादित्याशङ्कते-तदपीति । उत्तरयति-एतदपीति । इदमपि द्रव्याथैक्यं द्रव्यार्थनयाभिमतमेकान्तञ्चेदयुक्तमिति विध्यादिनयान्तरेषु निरूपितमेवेति व्याख्याति-इति प्रक्रान्तमेवेति । एकान्तायुक्तत्वं कथं विचारितमित्यत्राह-ततश्चेति, 20 सर्वसङ्ग्रहात्मकाद्विधिविधेरारभ्यान्तरेषु पूर्वपूर्वनयप्रतिपाद्यस्यैकान्ततायामयुक्तत्वं व्यावर्णितमेवेति भावः । केन रूपेण विचारितमि त्यत्र विधिविधिनयस्यान्तरे प्रतिपादितं तनयोदितविषये विकल्पमारचथ्य निराकरणक्रमं दिङ्मात्रेणादर्शयति-किं पुरुष एवेति । मूल कृदपि विचारप्रकार स्मारयतीत्याह-तदनुस्मारयतीति । विधिविधीति, अस्मिन् हि नये पुरुषनियतिकालस्वभावभावाः पृथक् पृथक् प्रतिपादिताः पूर्वपूर्वमतनिरासपुरस्सरम् , तं विधिविधिनयं विध्युभयनयः तं विधिनियमनयस्तमुभयनयः, तं विधिनियमविधिनयः प्रात्यक्षिपदतो द्रव्यार्थेन दूध्यस्यावधिव्यक्रियाविषय उभयनय इति भावः । विधिनियमविधिनयञ्च द्रव्या) 25 पर्यायार्थ उभयोभयनयः, तमुभयनियमनयस्तं नियमनयस्तं नियमविधिनयस्तं नियमोभयनयस्तमपि शून्यवादो नियमनियमनयः न्यषेधौत् , तञ्च पर्यायार्थ शून्यवादं द्रव्यार्थो विधिविधिनयोऽधुना प्रत्याचष्टेत्याह-ततः परमिति । एकान्तेन शून्यवादस्यायुक्तत्वस्थापना कथमित्यत्र प्रकारान्तरेग तत्स्थापनां दर्शयति-तदेकान्तेति। प्राक् प्रतिपादिता एकान्तवादाः परस्परमेकेन
१ सि.क्ष. डे. स्वतः परतंतुस्वं० छा. स्वतःपरं तुस्वं०। २ सि.क्ष. वादः। ३xxक्ष. छा.।
द्वा० न० २४ (१४९)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org