________________
wwww
घटादेरभिव्यक्तिकथनम्] द्वादशारनयचक्रम्
११७५ तस्मात् सततम[व]स्थानमेव वस्तुनः, तदुपसंहरति-अतोऽसौ तथाऽवस्थित एकस्वभावो निर्भेद इति भेदासम्भवात्-भेदसम्भवकारणाभावात् , तद्दर्शयति वैधप॑ण-उत्पादविनाशाभ्यां हि भेदः सम्भाव्येत, स तूक्तविधिनाऽनाद्यनन्तत्वान्न भवतीति ।
. अत्राऽऽह. नन्वनिष्ठितं प्राक् पश्चादारम्भात् , आरम्भवचनात् , तत्र यदि निष्ठितं स्यात् निष्ठितत्वा- 5 नारभ्येत निष्पन्नघटवदिति, इदं विप्रतिषिद्धं यद्यनिष्ठितं अनिष्ठितत्वादसत् खपुष्पवत् , इतरो घटवत्, यथा घटो मृद्रूपादित्वेन निष्ठित एव सन्नाकारान्तरव्यक्तिरूपतो व्यज्यते, यदि न तथाऽऽरभ्येत किं न खपुष्पादद्रव्यादेवोऽऽरभ्यते ।
नन्वनिष्ठितमित्यादि, ननूक्तं 'द्रव्याणि द्रव्यान्तरमारभन्ते-पृथिव्यादिपरमाणुद्रव्याणि स्वतः खात्मनि द्वे बहूनि वा परस्परसंयोगापेक्षाणि आरभन्ते, कार्यद्रव्यमन्यत्, गुणाश्चारम्भकचतुर्विधद्रव्यसम-10 वेताः स्वैरारब्धे कार्यद्रव्ये नियम[त] एव स्वतः परात्मनि गुणान्तरमारभन्ते, कर्म संयोगविभागसंस्कारानारभते परतः परात्मनि' (
) इत्यादिनाऽऽरम्भवचनेनानिष्ठितं प्राक् पश्चादारम्भात् क्रिया क्रियातो निष्ठेत्यनिष्ठितम् , तत्र यदि निष्ठितं स्यात् निष्ठितत्वान्नारभ्येत निष्पन्नघटवदित्यत्र ब्रूमः-इदं विप्रतिषिद्धमित्यादि, विप्रतिषेधं भावयति-यद्यनिष्ठितमित्यादिना, अनिष्ठितत्वादसत् खपुष्पवत् , असत्त्वात्तद्वन्नारभ्यते, इतरो घटवदिति वैधHदृष्टान्तः यथा घटो मृद्रूपादित्वेन निष्ठित एव सन्नाकारान्तर-15
wwwmummmm
अनाद्यनन्ता मूर्तिर्येषां मूर्तीनां तद्वदमूर्तमप्यनाद्यनन्तमेव, स्वस्वरूपापरित्यागादिति भावः । एवञ्च मू"मूर्तीनां सततास्तित्वमेवेयेकवभावत्वमत एव च निर्भेदरूपत्वमित्याह-अतोऽसाविति । हेतुमाह-भेदासम्भवादिति, भेदस्य सम्भवे कारणमेव नास्तीति भावः। किं कारणं भेदस्य सम्भवे स्यात् यदभावान्निर्भेदमेकरूपं स्यादित्यत्राह-उत्पादेति, यदि ह्युत्पादविनाशौ स्तो भावस्य तदायं घटो न पटो भिनखभावत्वात् , अयन्तु पट एव न घटो भिन्नस्वभावत्वादिति भेदः सम्भाव्येत, यदा तु खस्वरूपापरियागादनाद्यनन्तत्वं तदा कथं भेदस्य सम्भव इति भावः । ननु वस्तुनः स्थित्यैकरूपत्वाभ्युपगमे आरम्भोऽप्यभ्युपगत एव 20 निष्ठानस्यारम्भपूर्वकक्रियापूर्वकत्वात् अभ्युपगते त्वारम्भे ततः प्राक् पश्चादनिष्ठितत्वं प्राप्नोतीति शङ्कते-नन्वनिष्ठितमिति । वैशेषिकशास्त्रे द्रव्यस्यारम्भ उक्त इति वर्णयति-ननूक्त मिति, द्रव्याणि द्रव्यान्तरमारभन्ते इति वचनं व्याचष्टे-पृथिव्यादीति, पार्थिवादिचतुर्विधपरमाणुद्रव्याणि खतो भिन्नं कार्यद्रव्यं समवायिकारणरूपे स्वात्मनि परस्परसंयोगस्वरूपासमवायिकारणमपेक्ष्याऽऽरभन्ते द्वे परमाणुद्रव्ये व्यणुकं बहूनि व्यगुरुद्रव्याणि त्र्यणुकं बहूनि व्यणुकद्रव्याणि चतुरणुकमिाते भावः । पार्थिवादिचतुर्विधपरमाणुगता रूपादयो गुणाः परमाणुभिरारब्धे कार्यद्रव्ये परात्मनि स्वसजातीयगुणारम्भकत्वनियमात् गुणान्तरराण्यारभन्त 25 इत्याह-गुणाश्चेति । कर्म संयोगं विभागं वेगं स्थितिस्थापकञ्च द्रव्ये आरभत इत्याह-कर्मेति, द्रव्यं खतः खात्मनि द्रव्यान्तरमारभते गुणः स्वतः परात्मनि गुणान्तरम् , कर्म च परतः परात्मनि संयोगादीनिति भावः । अनेनारम्भंवंचनेनाऽऽरम्भात् पूर्व पश्चाच्च वस्त्वनिष्ठितमित्याह-इत्यादिनेति। कुतस्तथाऽनिष्ठितमित्यत्राह-आरम्भादिति, निष्ठानस्याऽऽरम्भपूर्वकक्रियापूर्वकत्वादित्यर्थः । यद्यनिष्ठितत्वमनङ्गीकृत्य निष्ठितत्वमेवेयभ्युपगम्यते तारम्भ एव न स्यात् निर्वृत्तघटवदित्याह-तत्र यदीति, एवञ्चारम्भात् प्राक् पश्चाच वस्तुनोऽनिष्ठितत्वेन मध्येऽप्यनिष्ठिनत्वं स्यादिति शून्यवाद्यभिप्रायः । अनिष्ठितस्यैवाऽऽरम्भो भवति 3) निष्ठितस्य नारम्भो निष्ठितत्वादिति मतमेव विप्रतिषिद्धमिति समाधत्ते-इदमिति । वस्तुनोऽनिष्ठितत्वे खपुष्पवदसत् स्याद्वस्तु तथासति च खपुष्पवदेव नारम्भविषयोऽसत्त्वादित्याह-अनिष्ठितत्वादिति । निष्ठितमेवारभ्यत इति वैधयं दर्शयति-यथेति. मृदादिरूपेण निष्ठित एव घटः, तस्मादेव चाऽऽकारान्तरस्य पृथुबुनादेर्व्यक्तिः-व्यञ्जनं प्रकाशो भवति, तेन रूपेण पृथिव्यादिना घटादि
द्वा० न० २३ (१४८)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org