________________
११७४
न्यायागमानुसारिणीव्याख्यासमेतम्
[द्वादशनयस्यान्तरम्
तथा
अनुत्पादादपि सर्वभावाः सन्ति, यदि हि तद्वस्तूत्पद्येत विनश्येद्वा ततः प्राक् पश्चादभाववन्मध्येऽप्यभावः स्वभावस्वाभाव्यात्, न स्यादेकरूपं भेदवद्वा स्यात् , या त्वया तय॑ते सा सम्भाव्येतोत्पत्तिविनाशसद्भावे, न तु कस्यचिद्वस्तुन आदिरन्तो वा, वस्तुत्वात्यागात् , न हि वस्तु स्वरूपं त्यजति, शिवकादिकपालादिघटमृद्वत् ।
(अनुत्पादादपीति) अनुत्पादादपि सर्वभावाः सन्ति, यदि हीत्यादि-यदि हि तद्वस्तूत्पद्येत, उत्पन्नत्वाच्च विनश्येदेवेति-उत्प येत विनश्येद्वा, ततः किं ? ततः प्रागभावः उत्पत्तेः, पश्चादभावो विनाशात्, तद्वन्मध्येऽप्यभावः स्वभावस्वाभाव्यात्, न स्यादेकरूपमिति भेदवद्वा स्यात्, त्वदिष्टशून्यता वा स्यात् वाशब्दात् , य[7]त्वया तय॑ते तस्योपपत्तिः सम्भाव्येतोत्पत्तिविनाशसद्भावे, किं तर्हि ? न तु कस्यचिद्व10 स्तुन आदिः-उत्पत्तिः, अन्तो-विनाशो वाऽस्ति, कस्मात् ? वस्तुत्वात्यागात् , न हि वस्तु स्वरूप-वस्तुत्वं त्यजति, किमिव ? शिवकादिकपालादिघटम[व]त्-यथा हि घटः शिवकस्तूपकछत्रककुशूलघटावस्थासु भेदाभिमतासु मृत्त्वाभेदान्मृदेव कपालशर्करिकाधूलित्रुटिपरमाणुष्वपि मूर्त्तत्वान्मृदेवाद्यन्तरहिता, तथाऽन्यदपि विज्ञानादि वस्तुत्वात्यागादिति नास्त्युत्पादस्तदभावाद्विनाशोऽभावः।
अनाद्यनन्तमूर्त्तिमूर्त्तवच्चामूर्त्तमप्यनुत्पादविनाशाभ्यामनाद्यनन्तम् , अतोऽसौ तथाs15 वस्थित एकस्वभावो निर्भेदः भेदासम्भवातू, उत्पादविनाशाभ्यां हि भेदः सम्भाव्येत, स तु न भवति ।
(अनादीति) किञ्च प्रत्यक्षमेवानाद्यनन्तत्वान्मृच्छिवककपालादिविपरिवर्तेष्वपि रूपादितत्त्वस्योत्पादविनाशाभावादनाद्यनन्तमूर्तिमूर्त्तवच्चामूर्त्तमपि वस्तुत्वात्यागादनुत्पादविनाशाभ्यामनाद्यनन्तम् ,
वेति मन्वानो विषयसुखानि जुगुप्समानस्तद्विपरीतस्वभावं सुखं निर्बाधमात्यन्तिकं शास्त्रतोऽवगत्य तदधिजिगमिषया तत्त20 सिद्धान्तोदिताध्वनि प्रवर्तत इति नात्र विशेषा शङ्का युक्तेति भावः। एवं संयुक्तेः सर्वभावसद्भावमभिधायानुत्पादादपि तत्सद्भावं रूपयति-अनुत्पादादपीति। घटपटादीनामुत्पादविनाशयोरुररीकृतयोरुत्पादात् प्राक् पश्चाच्च विनाशान्मध्येऽप्यभावः स्यात् , उक्तं हि 'आदावन्ते च यन्नास्ति तस्य मध्येऽपि का कथा' । इति, प्राक् पश्चाचासतो मध्येऽप्यसत्त्वं स्वभावः, तत्स्वाभाव्यादिति व्याक. रोति-यदि, हीति वस्तूनामुत्पादाभ्युपगमे विनाशोऽवश्यम्भावीति भावः । भवत्विति चेत्तत्र दोषमाह-तत इति, उत्पादविनाशवत्त्वादित्यर्थः, ताभ्यां पूर्व पश्वाच्च तस्याभावात् मध्येऽप्यभावः, तथा नियमस्वाभाव्यादिति भावः। स्थित्यैकरूपत्वन्तू25 त्पादविनाशदर्शनान्न भवतीति भेदरूपता शून्यता वा त्वदिष्टा स्यादित्याह-न स्यादिति। अस्तित्वैकरूपता मा भूदिति उत्पादविना. " शाभ्यां भेदरूपता स्यात् , आद्यन्तयोर्जाताजातयोरनुत्पादाच्छून्यता या त्वया तर्किता सा वोपपत्तिभिः स्यादिति सम्भाव्यतेति
भावः । यदा तु न कस्यचिद्वस्तुन उत्पादविनाशौ भवतः स्वखरूपात्यागात् तदा स्थित्येकवरूपो भावः, खखरूपावस्थानात्, उत्पादविनाशप्रयुक्तभेदरूपत्वासम्भवान्निर्भेदरूप इत्याशयेनाह-न तु कस्यचिदिति । वस्तु आद्यन्तरहितं स्वखरूपापरित्यागात्,
कादिकपालादिघटमृद्वदिति प्रयोगः, यथा घटस्यादित्वेनाभिमता अवस्थाः शिवकस्तूपकादयः, अन्तत्वेनाभिमताः कपालशर्क30 रिकादयः एतासु घट एक एव मृद्रूपो मूर्तश्चेति खखरूपापरित्यागोऽस्ति. सर्वस्य मृत्त्वादेव नोत्पादो न वा विनाशः. तथैव विज्ञानादीनामपि वस्तुत्वात्यागादाद्यन्तशून्यतेति भावः। एवं शिवकस्थासकाद्यवस्थाभेदेऽपि यथा घट एक एव मृदूपो मूर्तश्च, मूर्त्तत्वरूपस्खखरूपापरित्यागाच्चानाद्यनन्त एवममूर्त्तमप्यनाद्यनन्तमेकरूपञ्चेत्याह-अनाद्यनन्तेति । व्याचष्टे-किश्चेति, मृच्छिवकस्तूपकछत्रककुशूलघटकपालशर्करिकादित्रुटिपरमाणुषु मूर्त्यात्मका ये रूपादयस्तेषामनाद्यनन्तत्वमुत्पादविनाशाभावात् प्रत्यक्षसिद्धमेव, एवञ्च
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org